Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 201
________________ षष्ठो भानुः | सच्चित्रनिर्मापणम् । १७९ तन्मार्गदर्शने सार्व પૂજ્યશ્રીના સહવાસથી અને તે સુંદર માર્ગप्रमुखनृप्रभावितः । દર્શનથી જિનેશ્વરાદિ મહાપુરુષોથી પ્રભાવિત બનેલા श्रीपूज्यसहवासेन, તે ચિત્રકાર ભાવિત બન્યો. IIકશા चित्रकृद् वासितोऽभवत् ।।४२।। ~~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ चेत् ? न, तत्प्रत्ययस्य बुद्धिकृतभोगस्य पुरुष उपचारत्वात्, उक्तवत्, उक्तं च ‘कर्तृबुद्धिगते दु:खसुखे पुंस्युपचारतः । नरनाथे यथा भृत्य-गतौ जयपराजया'- विति। (अध्यात्मसारे ।।१३-५३।।) __ इत्थं च न लोकविरोधोऽपि, बुद्धेरेव कर्तृत्वात् । पुरुषस्य भोक्तृत्वोक्तिरप्येतदुपचारहेतुकैव, वस्तुतस्तु तत्तत्त्वमपि नाभ्युपगम्यते, उक्तं च - 'कर्ता भोक्ता च नो तस्मादात्मा नित्यो निरञ्जन' इति (अध्यात्मसारे ।।१३-५४।।) तस्मात भवत्पूज्ये गुणानुरागातिशयत उक्तं तत्कर्तृत्वमयुक्तमिति निष्कर्षः, उपचारेण तु तदप्युच्यताम्, किन्तु नैवं तद्गौरवसिद्धिरिति । अत्रोच्यते - चेतनोऽहं करोमीति बुद्धेरसति बाधके भ्रमत्वाऽयोगात् चैतन्यकृत्यादिधर्मवत्येव बुद्धिः स्वीकर्तव्या, तथा चात्मनो नामान्तरमेतत् । अथ बुद्धिरचेतना परिणामित्वात् तन्तुवदिति चेत् ? तर्हि 'बुद्धिर्न कृतिमती, तत एव, तद्वत', 'न धर्माऽधर्मादिमती जन्यत्वात्, घटवद्' इत्यादिकमपि स्यात् । न स्यादनुकूलतर्काभावादिति चेत् ? तुल्यमुभयत्र । किञ्च यदि बुद्धिगतेनाऽपि भोगेनैव पुरुषस्य भोक्तृत्वाभ्युपगमे तद्गतकर्तृत्वेन तत्कर्तृत्वं प्रसज्यते, ततश्च ‘कर्ता न भवतीति न वक्तव्यम् । अथात्मनि कर्तृत्वस्याऽवृत्तेरकर्ता- इत्यपदिश्यते, भोगस्याऽप्यतद्वत्ते ऽयं भोक्ता । स्वामिनि जयपराजयोपचारोदाहृतिस्त्वनुद्घोष्या, भोगस्यौपचारिकत्वापत्तेः, न चेष्टापत्तिः, तस्याऽप्यसम्भवात्, अन्यत्र मुख्यतयाऽनभ्युपगमात् भोगाभावे चात्मनो मोक्षचिन्ताऽपि न कर्तव्या, बन्धाभावात्, तस्य भोगनिबन्धनत्वात्, एवं च निरुपपत्तिको मोक्षः, संसारोऽपि तथैव । तस्मादवश्यमस्य कर्तृत्वाद्यभ्युपेयमकामेनाऽपि, उक्तं च- 'कर्तृधर्मा नियन्तारश्चेतिता च स एव नः । अन्यथाऽनपवर्ग: स्यादसंसारोऽथवा ध्रुव' इति न्यायकुसुमाञ्जली ।।१-१४ ।। तस्मात् कर्तेव चेतिता पुरुषः, असति बाधके तत्रैवाऽध्यवसीयमानत्वात् । अन्यथा पुरुषधर्माधर्मयोरनुपगमेऽन्यनिष्ठस्याऽदृष्टस्यैवान्यसंसारहेतुत्वे कस्याऽप्यपवर्गो न स्यात्, यस्य कस्यचित् महत्तत्त्वस्य वा निवृत्ती अपवर्गे सर्वस्यैवापवर्गापत्तिः । न च तदीयमहत्तत्त्वनिवृत्तिस्तस्याऽपवर्ग इति वाच्यम्, दृष्टं विशेषं विना तदीयतानियामकसम्बन्धस्य दुर्वचत्वात् । न च यस्य यत्र भेदाऽग्रहः प्रागुक्तस्तदुच्छेदेनैव तस्याऽपवर्ग इति वाच्यम, तत्रैव तस्याऽतथाविधो भेदाऽग्रह इत्यत्राऽपि नियामकाऽभावादित्याह विवेककारः । किञ्च बुद्धिरपि नित्याऽनित्या वा ? आद्ये पुंसो नाऽपवर्गः स्यात्, बुद्धिलक्षणोपाधेरनुच्छेदात्, उत्तरत्र तु नानुत्पन्नस्याऽनित्यत्वमित्यनुत्पत्तिदशायां बुद्धितद्धर्माभावात् संसारप्रागभाव एव पुंसः, ततश्च कदाचिद् भोगः, कदाचिन्मुक्तिरिति भोगनियमो नोपपद्यतेत्याह बोधनीकारः । इत्थं च ध्रुवं तपःप्रभृतिवैयर्थ्यम, उक्तं च सिद्धिविनिश्चये- 'दृश्यदर्शकयोर्मुक्तिनित्यव्यापकयोः कथम् ?। यतस्तापाद्विमुच्येत तदर्थञ्च तपश्चरे' दिति ।।५-८।। ननु कथितमेवाऽस्माभिरस्योपचरितमेव भोक्तृत्वम् । प्रकृतिविकारभूतायां हि दर्पणाकारायां बुद्धौ सङ्क्रान्तानां सुखदुःखादीनां पुरुषः स्वात्मनि प्रतिबिम्बोदयमात्रेण भोक्तेत्युच्यते । तदुक्तमासुरिप्रभृतिभिः 'विविक्तेदृक्परिणतो बुद्धौ भोगोऽस्य कथ्यते । प्रतिबिम्बोदय: स्वच्छे यथा चन्द्रमसोऽम्भसी'-ति, तथा 'बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयत' इति । तस्मादयुक्तमुक्तदोषापादनमिति चेत् ? न, अकर्तुः पुरुषस्य कथमपि भोगानुपपत्तेः । ननु जपाकुसुमादिसन्निधानवशतः स्फटिके रक्तादिव्यपदेशव दकर्तुरपि पुरुषस्य प्रकृत्युपधानवशतः सुखदुःखादिभोगव्यपदेशो भविष्यति, उक्तं च विन्ध्यवासिप्रमुखैः – 'पुरुषोऽविकृतात्मैव स्वनि सम (श्रीपूज्यकर्तृता-साङ्ख्यसङ्ख्यासमीक्षा)

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252