________________
षष्ठो भानुः
| सच्चित्रनिर्मापणम् ।
१७९
तन्मार्गदर्शने सार्व
પૂજ્યશ્રીના સહવાસથી અને તે સુંદર માર્ગप्रमुखनृप्रभावितः ।
દર્શનથી જિનેશ્વરાદિ મહાપુરુષોથી પ્રભાવિત બનેલા श्रीपूज्यसहवासेन,
તે ચિત્રકાર ભાવિત બન્યો. IIકશા चित्रकृद् वासितोऽभवत् ।।४२।। ~~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ चेत् ? न, तत्प्रत्ययस्य बुद्धिकृतभोगस्य पुरुष उपचारत्वात्, उक्तवत्, उक्तं च ‘कर्तृबुद्धिगते दु:खसुखे पुंस्युपचारतः । नरनाथे यथा भृत्य-गतौ जयपराजया'- विति। (अध्यात्मसारे ।।१३-५३।।) __ इत्थं च न लोकविरोधोऽपि, बुद्धेरेव कर्तृत्वात् । पुरुषस्य भोक्तृत्वोक्तिरप्येतदुपचारहेतुकैव, वस्तुतस्तु तत्तत्त्वमपि नाभ्युपगम्यते, उक्तं च - 'कर्ता भोक्ता च नो तस्मादात्मा नित्यो निरञ्जन' इति (अध्यात्मसारे ।।१३-५४।।) तस्मात भवत्पूज्ये गुणानुरागातिशयत उक्तं तत्कर्तृत्वमयुक्तमिति निष्कर्षः, उपचारेण तु तदप्युच्यताम्, किन्तु नैवं तद्गौरवसिद्धिरिति ।
अत्रोच्यते - चेतनोऽहं करोमीति बुद्धेरसति बाधके भ्रमत्वाऽयोगात् चैतन्यकृत्यादिधर्मवत्येव बुद्धिः स्वीकर्तव्या, तथा चात्मनो नामान्तरमेतत् । अथ बुद्धिरचेतना परिणामित्वात् तन्तुवदिति चेत् ? तर्हि 'बुद्धिर्न कृतिमती, तत एव, तद्वत', 'न धर्माऽधर्मादिमती जन्यत्वात्, घटवद्' इत्यादिकमपि स्यात् । न स्यादनुकूलतर्काभावादिति चेत् ? तुल्यमुभयत्र । किञ्च यदि बुद्धिगतेनाऽपि भोगेनैव पुरुषस्य भोक्तृत्वाभ्युपगमे तद्गतकर्तृत्वेन तत्कर्तृत्वं प्रसज्यते, ततश्च ‘कर्ता न भवतीति न वक्तव्यम् । अथात्मनि कर्तृत्वस्याऽवृत्तेरकर्ता- इत्यपदिश्यते, भोगस्याऽप्यतद्वत्ते ऽयं भोक्ता । स्वामिनि जयपराजयोपचारोदाहृतिस्त्वनुद्घोष्या, भोगस्यौपचारिकत्वापत्तेः, न चेष्टापत्तिः, तस्याऽप्यसम्भवात्, अन्यत्र मुख्यतयाऽनभ्युपगमात् भोगाभावे चात्मनो मोक्षचिन्ताऽपि न कर्तव्या, बन्धाभावात्, तस्य भोगनिबन्धनत्वात्, एवं च निरुपपत्तिको मोक्षः, संसारोऽपि तथैव । तस्मादवश्यमस्य कर्तृत्वाद्यभ्युपेयमकामेनाऽपि, उक्तं च- 'कर्तृधर्मा नियन्तारश्चेतिता च स एव नः । अन्यथाऽनपवर्ग: स्यादसंसारोऽथवा ध्रुव' इति न्यायकुसुमाञ्जली ।।१-१४ ।।
तस्मात् कर्तेव चेतिता पुरुषः, असति बाधके तत्रैवाऽध्यवसीयमानत्वात् । अन्यथा पुरुषधर्माधर्मयोरनुपगमेऽन्यनिष्ठस्याऽदृष्टस्यैवान्यसंसारहेतुत्वे कस्याऽप्यपवर्गो न स्यात्, यस्य कस्यचित् महत्तत्त्वस्य वा निवृत्ती अपवर्गे सर्वस्यैवापवर्गापत्तिः । न च तदीयमहत्तत्त्वनिवृत्तिस्तस्याऽपवर्ग इति वाच्यम्, दृष्टं विशेषं विना तदीयतानियामकसम्बन्धस्य दुर्वचत्वात् । न च यस्य यत्र भेदाऽग्रहः प्रागुक्तस्तदुच्छेदेनैव तस्याऽपवर्ग इति वाच्यम, तत्रैव तस्याऽतथाविधो भेदाऽग्रह इत्यत्राऽपि नियामकाऽभावादित्याह विवेककारः ।
किञ्च बुद्धिरपि नित्याऽनित्या वा ? आद्ये पुंसो नाऽपवर्गः स्यात्, बुद्धिलक्षणोपाधेरनुच्छेदात्, उत्तरत्र तु नानुत्पन्नस्याऽनित्यत्वमित्यनुत्पत्तिदशायां बुद्धितद्धर्माभावात् संसारप्रागभाव एव पुंसः, ततश्च कदाचिद् भोगः, कदाचिन्मुक्तिरिति भोगनियमो नोपपद्यतेत्याह बोधनीकारः । इत्थं च ध्रुवं तपःप्रभृतिवैयर्थ्यम, उक्तं च सिद्धिविनिश्चये- 'दृश्यदर्शकयोर्मुक्तिनित्यव्यापकयोः कथम् ?। यतस्तापाद्विमुच्येत तदर्थञ्च तपश्चरे' दिति ।।५-८।।
ननु कथितमेवाऽस्माभिरस्योपचरितमेव भोक्तृत्वम् । प्रकृतिविकारभूतायां हि दर्पणाकारायां बुद्धौ सङ्क्रान्तानां सुखदुःखादीनां पुरुषः स्वात्मनि प्रतिबिम्बोदयमात्रेण भोक्तेत्युच्यते । तदुक्तमासुरिप्रभृतिभिः 'विविक्तेदृक्परिणतो बुद्धौ भोगोऽस्य कथ्यते । प्रतिबिम्बोदय: स्वच्छे यथा चन्द्रमसोऽम्भसी'-ति, तथा 'बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयत' इति । तस्मादयुक्तमुक्तदोषापादनमिति चेत् ? न, अकर्तुः पुरुषस्य कथमपि भोगानुपपत्तेः । ननु जपाकुसुमादिसन्निधानवशतः स्फटिके रक्तादिव्यपदेशव दकर्तुरपि पुरुषस्य प्रकृत्युपधानवशतः सुखदुःखादिभोगव्यपदेशो भविष्यति, उक्तं च विन्ध्यवासिप्रमुखैः – 'पुरुषोऽविकृतात्मैव स्वनि सम
(श्रीपूज्यकर्तृता-साङ्ख्यसङ्ख्यासमीक्षा)