________________
१८०
- सच्चित्रनिर्मापणम् ।
भुवनभानवीयमहाकाव्ये अभक्ष्यत्यागिनोष्णोद
તેણે અભક્ષ્ય છોડ્યું, ઉકાળેલું પાણી પીવાનું पायिनाऽहो स्वकन्यकाः ।
શરૂ કર્યું. આમ જેન તો થયો.. પણ આટલું જ दीक्षिताः, स कदापि ना
નહીં. પોતાની દીકરીઓને દીક્ષા અપાવી. કદી ય ऽभुङ्क्त जिनार्चनं विना ।।४३॥ તે ભગવાનની પૂજા વિના જમતો નહી. ll૪all
wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww
चेतनम् मनः करोति सान्निध्या-दुपाधिः स्फटिकं यथेति इति चेत् ? न, कथञ्चित् सक्रियत्वमन्तरेण प्रकृत्युपधानेऽपि तस्याऽन्यथारूपत्वानुपपत्तेः । अप्रच्युतप्राचीनस्वरूपस्य च भोक्तृत्वव्यपदेशानर्हत्वात् । तत्प्रच्यवे च प्राक्तनरूपत्यागेनोत्तररूपाध्यासितया सक्रियत्वं हठादायातम् ।
अस्य स्फटिकदृष्टान्तोऽपि न साधीयान । यतस्तत्राऽपि जपाकुसुमादिच्छायापरमाणुप्रारब्धप्रतिबिम्बाख्यद्रव्याऽऽधारतारूपपरिणामाऽऽविर्भावादेव रक्तादिव्यपदेशः, सर्वथाऽप्यविचलितरूपस्य तादृशव्यपदेशाऽनर्हत्वात्, न खल्वाम्रफलादौ जपाकुसुमादिसान्निध्येऽपि तथाविधपरिणामाऽऽविर्भूतिं विना रक्तादिव्यपदेशं कश्चिल्लौकिक: परीक्षको वा प्रवर्तयति । तन्नाऽक्रियस्य भोक्तृत्वं युज्यत इति सिद्धं पुरुषस्य कर्तृत्वमिति स्पष्टं स्याद्वादरत्नाकरे ।।पृ.१०९४ ।। इतश्च तत्प्रतिबिम्बानुपपत्तिः, अमूर्त्तत्वात् । छायावन्मूर्त्तद्रव्येणैव हि प्रतिबिम्बाख्यं स्वाऽऽकारं भास्वरद्रव्योपादानं द्रव्यमारभ्यते, तथा चार्षम् - 'सामा उ दिया छाया अभासुरगया णिसिं तु कालाभा । सच्चेह भासुरगया सदेहवण्णा मुणेयव्वा' त्ति प्रज्ञापनासूत्रे ।।३०५-२।। ___ युक्तं चैतत् अन्यथेदंत्वावच्छेदेन मुखभेदग्रहाऽभावात् । इदं मुखमिति प्रतीतेः, कथञ्चिदुपपादनेऽपि ‘इदं मुखप्रतिबिम्ब मिति प्रतीतेः कथमप्युपपादयितुमशक्यत्वात् । मुखभ्रमाधिष्ठानत्वरूपमुखप्रतिबिम्बस्य प्रागेवाऽग्रहात्,' आदर्श मुखप्रतिबिम्बमित्याधाराधेयभावाध्यवसायानुपपत्तेश्च । एतेन 'मुखे बिम्बत्वमिवादर्श एव प्रतिबिम्बत्वं मुखसान्निध्यदोषाऽभावादिसामग्र्याऽभिव्यज्यत' इति निरस्तम्, बिम्बोत्कर्षानुपपत्तेः, प्रतिबिम्बत्वाऽग्राहकसामग्र्या एवादर्शभेदभ्रमहेतुत्वेन ‘अयं नाऽऽदर्श:, किन्तु मुखप्रतिबिम्ब' मिति सार्वजनीनानुभवानुपपत्तेश्च । न च प्रतिबिम्बस्य द्रव्यत्वे सावधिकत्वानुपपत्तिः, प्रतिबिम्बधर्मस्यैव महत्त्ववत् सावधिकत्वात्। न चाश्रयनाशे तन्नाशाऽनुपपत्तिः, बिम्बसन्निधाननिमित्तजनितस्य तस्य तन्नाशेनैव नाशसम्भवात्, न चैवमनन्तप्रतिबिम्बोत्पत्तिनाशादिकल्पने गौरवम्, सादृश्यातिरिक्तानन्तदोषादिकल्पने तवैव गौरवात्, अनुभवाऽपलापाच्च ।
तस्मादात्मनो बुद्धौ बिम्बतयोपाधितया वाऽमूर्तत्वान्न स्वोपरागजनकत्वम् । तत्त्वे वा कथमात्मनोऽकारणत्वम् ? कथं वा तदुपरागस्याऽनिर्वचनीयस्य असतो वा स्वीकारे नौपनिषद्बौद्धमतप्रवेश: ?, अथ न पुरुषजन्यः पुरुषोपरागः, किन्तु पुरुषभेदाऽग्रहात् असत एव तस्योत्पत्तिः, सदुपरागेण भानाच्च नाऽसत्ख्यातिरिति चेत् ? गतं तर्हि सत्कार्यवादेन । बुद्धौ सन्नेव पुरुषोपराग: कदाचिदाविर्भवतीति चेत् ? तर्हि बुद्ध्युत्पत्तेः पूर्वं पुरुषस्यानुपरक्ततया मोक्ष: स्यात्, प्रकृतेः साधारणत्वेनाऽनुपरञ्जकत्वादित्युक्तं स्याद्वादकल्पलतायाम् ।
एतेन तत्राहमन्तःकरणं भोक्ता, भोक्ता नाम साक्षित्वमिति साङ्ख्यपरिभाषोक्तिरपि परास्ता, अनुपपत्तेः, माता च वन्ध्या चेतिवत् ।
तस्मादकामेनाऽप्यस्य कर्तृत्वं भोक्तृत्वं चाभ्युपेयम् । उक्तं च न्यायावतारे 'प्रमाता स्वान्यनिर्भासी कर्ता भोक्ता विवृत्तिमान ।
स्वसंवेदनसंसिद्धो जीवः क्षित्याद्यनात्मक' इति ।।३१।। तदाह स्वरूपसम्बोधनकारः - ‘कर्ता यः कर्मणां भोक्ता तत्फलानां स एव तु ।' इति ।
यच्चोक्तं प्रकृतेरेव संसरणादि तदपि दुर्घटम, तस्याः सर्वथैकस्वभावत्वात्, नित्यत्वात्, क्रियान्तरविरहात् । प्रकृतिपुरुषान्यथाख्यातिरूपो हि व्यापारः पुरुषस्यैव इति तस्यैव मोक्ष उचितः, तदुक्तम् – 'एकान्तेनैकरूपाया नित्यायाश्च न सर्वथा।
[ श्रीपूज्यकर्तृता-साङ्ख्यसङ्ख्यासमीक्षा