________________
षष्ठो भानुः
| सच्चित्रनिर्मापणम् -
१८१
तीर्थयात्राकृतः श्राद्धाः,
कृत्वाल्पकालमर्चनाम् । धर्मशालासदो धलं,
नयन्ति क्रीडयाऽखिलम् ।।४४।।
તીર્થયાત્રા કરનારાઓ થોડો સમય પૂજા કરી, અને પછી આખો દિવસ ધર્મશાળામાં (પત્તા આદિ) समतोमा माटे छे. ॥४४॥
कारुण्याम्भोमहाम्भोधि
કરુણાસાગર પૂજ્યશ્રીને તેમના હિત માટે વિચાર स्तद्धिताय व्यचारयत् ।
આવ્યો. “દરેક તીર્થમાં એક ચિત્રશાળા હોય તો "प्रतितीर्थं यदा चित्र
सासं." ॥४५॥ शाला भवेत् तदा वरम् ।।४५।। ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~
तस्याः क्रियान्तराभावाद् बन्धमोक्षौ सुयुक्तित' इति शास्त्रवार्तासमुच्चये ।।३-३५ ।।
किञ्चैवं प्रकृतेरेव मोक्षाभ्युपगमे तत्स्वरूपप्रच्युतिप्रसङ्गः, तद्वियोगात्मकत्वान्मुक्तेः, 'प्रकृतिवियोगो मोक्ष' इति वचनात् । तथा तन्त्रविरोधोऽपि, पञ्चविंशतीत्याधुक्तिविरोधात् । अन्वाह च - ‘मोक्षः प्रकृत्ययोगो यदतोऽस्या: स कथं भवेत् ?। स्वरूपविगमापत्तेस्तथा तन्त्रविरोधतः ।। पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वाऽपि मुच्यते नाऽत्र सड़शय' इति शास्त्रवार्तासमुच्चये ।।३६, ३७।।
यदि प्रधानमपि पुरुषस्थं निमित्तमनपेक्ष्य प्रवर्तते, मुक्तात्मन्यपि शरीरादिसम्पादनाय प्रवर्तेत, अविशेषात् । अथाऽदर्शनाऽपेक्षमिति चेत् ? न, मुक्तात्मन्यपि विवेकदर्शनस्य विनाशेन प्रवृत्तिप्रसङ्गात् । न चानुत्पत्तिविनाशयोरदर्शनत्वेन विशेषं पश्याम इत्युक्तं व्योमवत्याम् ।।पृ.७ ।।
___ तदाऽऽह न्यायमञ्जरीकारः - ‘अपि च रे मूढ ! पूर्वमेव तपस्विना पुंसा किं कृतं यदसौ बद्धोऽभूत् ? द्रष्टुत्वं तु तस्य रूपं तदविनाभूतं कैवल्यदशायामपि तन्न नश्यत्येवेति तदापि तद्बन्धनाय कथं न प्रवर्तते निर्मर्यादा प्रकृतिः ? दृष्टाऽस्मीति विरमतीति चेत् ? मैवम्, न ह्यसावेकपत्नीव्रतदुर्ग्रहगृहीता, निःसङ्ख्यपुरुषोपभोगसौभाग्या पण्यवनितेव नासौ नियमेन व्यवह-तुमर्हतीत्यास्तामेत' - दिति ।।पृ.२९१ ।।
ननु न्यायबाह्या इमा उपालम्भपरम्पराः, अभिप्रायाऽपरिज्ञानात्, प्रकृतेरेव बन्धाद्यभ्युपगमात्, पुरुषे तूपचारेणोक्तत्वादिति चेत् ? ननूक्त एवाऽत्र तत्स्वरूपहानिप्रसङ्गः । किञ्चैतस्योपचारत्वे निखिलमपि मोक्षशास्त्रं व्यर्थतामाप्नोति, अन्यमुक्तावन्ययत्नाभावात्, उक्तं च - ‘एतस्य चोपचारत्वे, मोक्षशास्त्रं वृथाऽखिलम् । अन्यस्य हि विमोक्षार्थे, न कोऽप्यन्य: प्रवर्तत' इत्यध्यात्मसारे ।।१३-६१।। ___ तस्मादवश्यमेव पुरुषकर्तृत्वाद्यभ्युपेयम् । एवं च वसुन्धरापदलक्षितजनताया: सुज्ञताकर्तृत्वेन श्रीपूज्यस्याभिधानमवदातमेवेति सिद्धम् ।
(श्रीपूज्यकर्तृता-साङ्ख्यसङ्ख्यासमीक्षा)