________________
१७८
विचित्ररङ्गरम्याणि, कमनीयकलान्यपि ।
-
चित्राण्यकारयत्, प्रज्ञा
प्रकर्षेण महामतिः ।।४१।।
सच्चित्रनिर्माणम्
भुवनभानवीयमहाकाव्ये
રંગબેરંગી, કમનીયકલાયુક્ત એવા
સુંદર ચિત્રોને આ મહામતિએ પ્રકૃષ્ટપ્રજ્ઞાથી કરાવ્યા.
॥४१॥
न्यायविशारदम्
द्रष्टृत्वमकर्तृभावश्चे’-ति ।।१९।। अत्र विपर्यासादिति प्रकृतिगुणाद्यपेक्षया ज्ञेयम् ।
युक्तं चैतत्, तस्य विवेकाप्रसवधर्माद्यन्वितत्वात्, उक्तं च- ' विवेकित्वादप्रसवधर्मित्वाच्चाकर्तेति सिद्ध' मिति साङ्ख्यतत्त्वकौमुद्याम् ।।पृ.१६९ ।। ननु च भवन्मतेनैवास्याऽसिद्धि:, मूलसूत्रे तदनभिधानात् धर्मिमात्रोक्ते:, तदुक्तं तत्त्वसमासे- 'पुरुष' ॥३॥ इति चेत् ? न, दर्शितकारिकाया एव प्राचीनतमत्वेन मतत्वात्, सूत्राणां तत्पश्चाद्भावित्वेनानुमितत्वात्, सूत्राणां सूचकमात्रत्वेनाखिलार्थाभिधायकत्वविरहात्, तत्प्रतिपत्त्यर्थं व्याख्याऽऽश्रयणास्याऽऽवश्यकत्वात्, तासु च पुरुषस्य द्रष्टृत्वादि- धर्माणामेवाभिधानात् तदकर्तृत्वसिद्धिः, तदुक्तं साङ्ख्यतत्त्वविवेचने- 'द्रष्टा भोक्ता क्षेत्रविदमलोऽप्रसवधर्मक' इति । तथोक्तं साङ्ख्यतत्त्वयाथार्थ्यदीपने‘अनादिः सूक्ष्मश्चेतनः सर्वगतो निर्गुणः कूटस्थो नित्यो द्रष्टा भोक्ते' त्यादि । तदाह समाससूत्रसर्वोपकारिणीकारः ‘अनेन जडत्व-परिणामित्वकर्तृत्वादिधर्मवद्भ्यः पुरुषस्य वैलक्षण्यमपि सूचितं भवतीति । तथोक्तं साङ्ख्यसूत्रविवरणेऽपि ‘पुरुषोऽनेकस्त्रिगुणरहितो ० साक्षी केवलो मध्यस्थो द्रष्टाऽकर्ता चे 'ति । उक्तं च तत्त्वसमाससूत्रवृत्तौ - 'अथाह कः पुरुष इत्युच्यते ? पुरुषोऽनादिः • द्रष्टा भोक्ताऽकर्ते' - त्यादि । तथोक्तं साङ्ख्यतत्त्वप्रदीपे - 'पुरुषस्य बहुत्व वदत्रिगुणत्वं • साक्षित्वादिकमपि बोद्धव्य'मिति । तथा 'स चायं पुरुषः साक्षी च भवती 'ति तत्त्वमीमांसायाम् । उक्तं च साङ्ख्यपरिभाषायाम् - ' तत्राहमन्तःकरणं भोक्ता, भोक्ता नाम साक्षित्व' -मिति । इत्थं च तद्व्याख्याग्रन्थानामितरेषां च तदभिप्रायित्वेनाऽपि तत्सिद्धिः ।
ननु प्रमाणेन कर्तव्यमर्थमवगम्य 'चेतनोऽहं चिकीर्षन् करोमि' इति कृतिचैतन्ययोः सामानाधिकरण्यमनुभवसिद्धम्, तदेतस्मिन् मते नावकल्पते, चेतनस्याकर्तृत्वात् कर्तुश्चाचैतन्यादिति चेत् ? न, तदनुभवस्य भ्रान्तत्वात्, चैतन्यस्यात्मधर्मत्वेन कर्तृत्वस्य च बुद्धिधर्मत्वेन च भिन्नाधिकरणत्वात्, तदनुभवस्य बुद्धेर्भेदाग्रहबीजत्वेनाभिमानमात्रत्वात्, उक्तं च - 'चेतनोऽहं करोमीति बुद्धेर्भेदाऽग्रहात् स्मय' इति (अध्यात्मसारे- १३-५२) तदुक्तं साङ्ख्यतत्त्वप्रदीपिकायाम् – 'भेदाग्रहाच्च निष्क्रियेऽपि पुरुषे कर्तृत्वाभिमान' इति । तथोक्तं भगवद्गीतायाम्- 'प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वथा । अहङ्कारविमूढात्मा कर्ताहमिति मन्यते' इति । । ३ - २७ ।।
1
-
इतश्च तदकर्तृत्वसिद्धिः, अपरिणामित्वात्, तदुक्तम् – 'परिणामं विना कार्योत्पत्तेरसम्भवान्नास्य कर्तृत्व' मिति सारबोधिन्याम् । न चास्य तत्त्वासिद्धिः, नित्यत्वात्, उक्तं च 'भोक्ता नित्यस्तदर्थत्वा' दित्यादि साङ्ख्यसारे । ।१ - ३ ।। पुरुषस्य तत्त्वं तु भवतामप्य-भिमतं यत् पठ्यते भवद्भिः - 'एगो मे सासओ अप्पा' इत्यादि संस्तारकपौरुषीसूत्रे ।
ननु सवासनक्लेशकर्माशयानां बन्धनसञ्ज्ञितानामप्यपरिणामिनि पुरुषेऽसम्भवात् कथं मोक्षः ? मुचेर्बन्धनविश् लेषार्थत्वात्, अत एव न संसारोऽपि न सम्भवति निष्क्रियत्वादिति चेत् ? न, यथाहि भृत्यगतौ जयपराजयौ स्वामिन्युपचर्येते एवं प्रकृतिगतयोरपि भोगापवर्गयोर्विवेकाऽग्रहात् पुरुषे उपचारः, इत्थं च पुरुषस्य बन्धमोक्षौ संसारश्च नाभ्युपगम्यन्त एव, उक्तं चतस्मात् कारणात् पुरुषो न बध्यते नापि मुच्यते नापि संसरति, यस्मात् कारणात् प्रकृतिरेव नानाश्रया दैवमानुषतिर्यग्योन्याश्रया बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतस्वरूपेण बध्यते मुच्यते संसरति चे 'ति गौडपादभाष्ये । ।पृ.९०।।
नन्वेवम् सर्वानुभवसिद्धस्य 'अहं सुखी' - त्यादि प्रत्ययस्यानुपपत्तिः, भोक्तृत्वायोगात्, कर्तृत्वविरहात्, तथाहि लोकेऽपि य एव शुभाशुभकर्ता दृष्टः, स एव तद्भोक्ताऽपि, अन्यथाऽतिप्रसङ्गात् । इत्थं च भवदभ्युगतं तद्भोक्तृत्वमप्यनुद्घोष्यमिति श्रीपूज्यकर्तृता-साङ्ख्यसङ्ख्याम