Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 200
________________ १७८ विचित्ररङ्गरम्याणि, कमनीयकलान्यपि । - चित्राण्यकारयत्, प्रज्ञा प्रकर्षेण महामतिः ।।४१।। सच्चित्रनिर्माणम् भुवनभानवीयमहाकाव्ये રંગબેરંગી, કમનીયકલાયુક્ત એવા સુંદર ચિત્રોને આ મહામતિએ પ્રકૃષ્ટપ્રજ્ઞાથી કરાવ્યા. ॥४१॥ न्यायविशारदम् द्रष्टृत्वमकर्तृभावश्चे’-ति ।।१९।। अत्र विपर्यासादिति प्रकृतिगुणाद्यपेक्षया ज्ञेयम् । युक्तं चैतत्, तस्य विवेकाप्रसवधर्माद्यन्वितत्वात्, उक्तं च- ' विवेकित्वादप्रसवधर्मित्वाच्चाकर्तेति सिद्ध' मिति साङ्ख्यतत्त्वकौमुद्याम् ।।पृ.१६९ ।। ननु च भवन्मतेनैवास्याऽसिद्धि:, मूलसूत्रे तदनभिधानात् धर्मिमात्रोक्ते:, तदुक्तं तत्त्वसमासे- 'पुरुष' ॥३॥ इति चेत् ? न, दर्शितकारिकाया एव प्राचीनतमत्वेन मतत्वात्, सूत्राणां तत्पश्चाद्भावित्वेनानुमितत्वात्, सूत्राणां सूचकमात्रत्वेनाखिलार्थाभिधायकत्वविरहात्, तत्प्रतिपत्त्यर्थं व्याख्याऽऽश्रयणास्याऽऽवश्यकत्वात्, तासु च पुरुषस्य द्रष्टृत्वादि- धर्माणामेवाभिधानात् तदकर्तृत्वसिद्धिः, तदुक्तं साङ्ख्यतत्त्वविवेचने- 'द्रष्टा भोक्ता क्षेत्रविदमलोऽप्रसवधर्मक' इति । तथोक्तं साङ्ख्यतत्त्वयाथार्थ्यदीपने‘अनादिः सूक्ष्मश्चेतनः सर्वगतो निर्गुणः कूटस्थो नित्यो द्रष्टा भोक्ते' त्यादि । तदाह समाससूत्रसर्वोपकारिणीकारः ‘अनेन जडत्व-परिणामित्वकर्तृत्वादिधर्मवद्भ्यः पुरुषस्य वैलक्षण्यमपि सूचितं भवतीति । तथोक्तं साङ्ख्यसूत्रविवरणेऽपि ‘पुरुषोऽनेकस्त्रिगुणरहितो ० साक्षी केवलो मध्यस्थो द्रष्टाऽकर्ता चे 'ति । उक्तं च तत्त्वसमाससूत्रवृत्तौ - 'अथाह कः पुरुष इत्युच्यते ? पुरुषोऽनादिः • द्रष्टा भोक्ताऽकर्ते' - त्यादि । तथोक्तं साङ्ख्यतत्त्वप्रदीपे - 'पुरुषस्य बहुत्व वदत्रिगुणत्वं • साक्षित्वादिकमपि बोद्धव्य'मिति । तथा 'स चायं पुरुषः साक्षी च भवती 'ति तत्त्वमीमांसायाम् । उक्तं च साङ्ख्यपरिभाषायाम् - ' तत्राहमन्तःकरणं भोक्ता, भोक्ता नाम साक्षित्व' -मिति । इत्थं च तद्व्याख्याग्रन्थानामितरेषां च तदभिप्रायित्वेनाऽपि तत्सिद्धिः । ननु प्रमाणेन कर्तव्यमर्थमवगम्य 'चेतनोऽहं चिकीर्षन् करोमि' इति कृतिचैतन्ययोः सामानाधिकरण्यमनुभवसिद्धम्, तदेतस्मिन् मते नावकल्पते, चेतनस्याकर्तृत्वात् कर्तुश्चाचैतन्यादिति चेत् ? न, तदनुभवस्य भ्रान्तत्वात्, चैतन्यस्यात्मधर्मत्वेन कर्तृत्वस्य च बुद्धिधर्मत्वेन च भिन्नाधिकरणत्वात्, तदनुभवस्य बुद्धेर्भेदाग्रहबीजत्वेनाभिमानमात्रत्वात्, उक्तं च - 'चेतनोऽहं करोमीति बुद्धेर्भेदाऽग्रहात् स्मय' इति (अध्यात्मसारे- १३-५२) तदुक्तं साङ्ख्यतत्त्वप्रदीपिकायाम् – 'भेदाग्रहाच्च निष्क्रियेऽपि पुरुषे कर्तृत्वाभिमान' इति । तथोक्तं भगवद्गीतायाम्- 'प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वथा । अहङ्कारविमूढात्मा कर्ताहमिति मन्यते' इति । । ३ - २७ ।। 1 - इतश्च तदकर्तृत्वसिद्धिः, अपरिणामित्वात्, तदुक्तम् – 'परिणामं विना कार्योत्पत्तेरसम्भवान्नास्य कर्तृत्व' मिति सारबोधिन्याम् । न चास्य तत्त्वासिद्धिः, नित्यत्वात्, उक्तं च 'भोक्ता नित्यस्तदर्थत्वा' दित्यादि साङ्ख्यसारे । ।१ - ३ ।। पुरुषस्य तत्त्वं तु भवतामप्य-भिमतं यत् पठ्यते भवद्भिः - 'एगो मे सासओ अप्पा' इत्यादि संस्तारकपौरुषीसूत्रे । ननु सवासनक्लेशकर्माशयानां बन्धनसञ्ज्ञितानामप्यपरिणामिनि पुरुषेऽसम्भवात् कथं मोक्षः ? मुचेर्बन्धनविश् लेषार्थत्वात्, अत एव न संसारोऽपि न सम्भवति निष्क्रियत्वादिति चेत् ? न, यथाहि भृत्यगतौ जयपराजयौ स्वामिन्युपचर्येते एवं प्रकृतिगतयोरपि भोगापवर्गयोर्विवेकाऽग्रहात् पुरुषे उपचारः, इत्थं च पुरुषस्य बन्धमोक्षौ संसारश्च नाभ्युपगम्यन्त एव, उक्तं चतस्मात् कारणात् पुरुषो न बध्यते नापि मुच्यते नापि संसरति, यस्मात् कारणात् प्रकृतिरेव नानाश्रया दैवमानुषतिर्यग्योन्याश्रया बुद्ध्यहङ्कारतन्मात्रेन्द्रियभूतस्वरूपेण बध्यते मुच्यते संसरति चे 'ति गौडपादभाष्ये । ।पृ.९०।। नन्वेवम् सर्वानुभवसिद्धस्य 'अहं सुखी' - त्यादि प्रत्ययस्यानुपपत्तिः, भोक्तृत्वायोगात्, कर्तृत्वविरहात्, तथाहि लोकेऽपि य एव शुभाशुभकर्ता दृष्टः, स एव तद्भोक्ताऽपि, अन्यथाऽतिप्रसङ्गात् । इत्थं च भवदभ्युगतं तद्भोक्तृत्वमप्यनुद्घोष्यमिति श्रीपूज्यकर्तृता-साङ्ख्यसङ्ख्याम

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252