Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 211
________________ षष्ठो भानुः प्रभावोऽयं जिनेशस्य, तत्सत्कं द्रविणं ततः । स्वप्नद्रव्यमतश्चोक्तं, “देवद्रव्यं” इति स्फुटम् ।।८७ ।। प्रवचनप्रभावना स्वप्न हेपद्रव्य માટે તે ભગવાનનો પ્રભાવ કહેવાય. તેથી દ્રવ્ય તેમના સંબંધી થયું. માટે સ્વપ્રદ્રવ્ય हेवाय." ॥८७॥ - न्यायविशारदम् (८७) द्रविणमित्यादि । अथ व्यर्थोऽयं विवादः, असद्विषयत्वात्, वान्ध्येयविवाहवत् । तदसत्त्वं च बाह्यार्थमात्रविरहात्, सदसदुभयानुभयात्मकचतुष्कोटिविनिर्मुक्तस्य शून्यस्यैव तत्त्वभावात् । तथाहि यदि घटादेः सत्त्वं स्वभावस्तर्हि कारकव्यापारवैयर्थ्यम्, असतश्च खपुष्पादेरिव हेतुविरहः, उक्तं च - 'न सत: कारणापेक्षा व्योमादेरिव युज्यते । कार्यस्याऽसम्भवी हेतुः खपुष्पादेरिवाऽसतः ।।' इति । विरोधादित पक्षावनुपपन्नौ। शून्यतावादे तु न कोऽपि दोषः तस्मादशक्योपालम्भमस्मन्मतम्, उक्तं च सदसत्सदसच्चेति यस्य पक्षो न विद्यते। उपालम्भश्चिरेणापि तस्य वक्तुं न शक्यते ।।' इति चतुःशतके ।।१६-२५ ।। तदुक्तं भगवता लङ्कावतारे ‘बुद्ध्या विविच्यमानानां, स्वभावो नावधार्यते । अतो निरभिलप्या ते, निःस्वभावाश्च दर्शिताः । । इदं वस्तुबलायातं, यद्वदन्ति विपश्चितः । यथा यथार्थाश्चिन्त्यन्ते, विशीर्यन्ते तथा तथे'-ति । तथोक्तम् 'बुद्ध्या विविच्यमानानां स्वभावो नावधार्यत' इति बौद्धकारिकायाम् उक्तं चाभिधर्मसमुच्चये 'निःस्वभावाः सर्वधर्माः' इति । । पृ. ११४ ।। तथोक्तं प्रज्ञापारमितायाम् 'शून्याः सर्वधर्मा निःस्वभावयोगेने' ति । अत एव परैरप्युक्तम् पृथिव्यादीनि तत्त्वानि लोके प्रसिद्धानि, तान्यपि विचार्यमाणानि न व्यवतिष्ठन्ते, किं पुनरन्यानि ?' इति तत्त्वोपप्लवसिंहे (पृ. १) तस्मात् शून्यं शून्यमिति भावनीयम्, द्रविणादिविषयविवादस्योक्तन्यायेनासद्विषयत्वात्, शून्यताभावनाया एव सर्वार्थसिद्धिबीजत्वात्, उक्तं च विग्रहव्यावर्तिन्याम् - प्रभवति शून्यतेयं यस्य प्रभवन्ति तस्य सर्वार्थाः । प्रभवति न तस्य किञ्चित् न भवति शून्यता यस्य' ति ।। ७१ ।। युक्तं चैतत्, तत एव धर्मसिद्धेः, तद्योगात्, अन्यथा तु विचिकित्सासम्भवान्न तत्सिद्धिः, तदुक्तमार्यध्यायितमुष्टिसूत्रे - 'सर्वान् धर्मान् शून्यानिति समनुपश्यन् न क्वचिद्धर्मे विचिकित्सामुत्पादयती'-ति । शून्यतयैव मुक्तिसुखयोगोऽपि, तत्समाधेस्तत्त्वात्, उक्तं च- 'विमोक्षसुखमयमुच्यते शून्यतासमाधिः ।' इति शतसाहस्त्रिकायाम् । तर्हि कथं द्रव्यादिव्यवहारो भवतीति चेत् ? न तस्य परमार्थसद्व्यवहारानुपातित्वविरहात्, विशददर्शनावभासितत्वात्, तिमिरपरिकरितदृगवभासीन्दुद्वयवत् । न च चन्द्रद्वयज्ञानं बाध्यत्वाद् भ्रान्तमेतत्तु न तथेति वाच्यम्, बाध्यत्वानुपपत्तेः । तथाहि बाधकेन न विज्ञानस्य तत्कालभाविस्वरूपं बाध्यते, तदानीं तस्य स्वरूपेण प्रतिभासनात् । नाप्युत्तरकालम्, क्षणिकत्वेन तस्य स्वय-मेवोत्तरकालेऽभावात् । नापि प्रमेयं प्रतिभासमानेन रूपेण बाध्यते, तस्य विशदप्रतिभासादेवाभावाऽसिद्धेः । अप्रतिभासमानेन तु रूपेण स्वत एव बाधः । नापि प्रवृत्तिरुत्पन्ना बाध्यते, उत्पन्नत्वादेवाऽसत्ताऽयोगात्, अनुत्पन्नायास्तु स्वत एव बाधः । तस्मात् तत्प्रतिभासोऽपि निरालम्बन एव, यथोक्तं बौद्धतर्कभाषायाम् - ‘प्रतिभासः खल्वेषोऽनादिवितथवासनातः प्रवर्तमान निरालम्बन एव लक्ष्यते । तथाहि सति विषये सालम्बनता स्यात्, तेन चावयविना भवितव्यम् परमाणुप्रचयेन वा । स चायमुभयोऽप्यनन्तरोक्तबाधकप्रमाणग्रस्तविग्रहो न व्योमतामरसमतिशेते, यथोक्तम् - न सन्नावयवी नाम, न सन्ति परमाणवः । प्रतिभासो निरालम्ब: स्वप्नानुभवसन्निभ' इति । ।पृ. १०७ ।। अवयव्यादिनिरसनं तु तत एव विज्ञेयम्, ग्रन्थगौरवभयान्नात्रोच्यते। इतश्चास्ति शून्यता, भावानामुत्पादस्यैवाभावात्, उत्पादो हि परैः कल्प्यमानः स्वतो वा परिकल्प्येत परतः, उभयतः, अहेतुतो वा परिकल्प्येत । सर्वथा च नोपपद्यते, तदुक्तम्- 'न स्वतो नाऽपि परतो, न द्वाभ्यां नाप्यहेतुतः उत्पन्ना जातु विद्यन्ते भावाः स्वप्नद्रव्यप्रस्तावे शून्यवादविवादः १८९ - -

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252