Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 214
________________ १९२ चन्द्रज्योत्स्नाऽधिकश्वेता, भव्यभव्यश्रिया ह्यभूत् । चन्द्रकान्ताकनीदीक्षा, कुम्भः प्रभावनालये ।। ९० ।। भुवनभानवीयमहाकाव्ये જાણે પ્રભાવનાપ્રાસાદ ઉપર કળશ હોય તેવી ચાંદનીથી ય અધિક ઉજ્જવળ ભવ્યાતિભવ્ય શોભાવાળી ચન્દ્રકાન્તાકુમારીની દીક્ષા (પૂજ્યશ્રીની निश्राम) a. IIoll न्यायविशारदम् प्रवचनप्रभावना सुलभत्वात्। परतश्चेत्सिद्धा, परोऽप्यभ्युपगन्तव्यो ग्राह्यलक्षणं चावर्जनीयमिति ।' तदुक्तं (बृहदारण्यकभाष्यवार्तिके ? ) ‘अभावो येन भावेन ज्ञायते शून्यवादिना । तस्य भावस्य सद्भावो वद केन निवार्यते ? ।।' इति । न च प्रागुक्तानुमानेनाऽपि नीलादिज्ञाने द्विचन्द्रादिज्ञानतुल्यमसत्यत्वं साधयितुं शक्यम्, बाध्यत्वेतराभ्यां वैलक्षण्यात् । न च बाध्यबाधकभावो निराकृत एवेति वाच्यम्, व्यवहारसिद्धस्य तस्य निराकर्तुमशक्यत्वात् । बाधकेन ज्ञानस्य, स्वरूपस्य, विषयस्य, फलस्य वाऽबाधेऽपि बाध्यज्ञानेऽप्रामाण्यज्ञापनात्, तदुक्तं सूरिणा 'किन्तु ज्ञानस्याऽसद्विषयत्वम्, अर्थस्य चाऽसत्प्रतिभासनं तेन ज्ञाप्यते' इति । अत्र ज्ञानस्याऽसद्विषयत्वं तदभाववति तत्प्रकारकत्वम्, अर्थस्याऽसत्प्रतिभासनं च स्वाभाववद्विशेष्यकज्ञानप्रकारत्वम्, तथाभानं च तदभावस्फूर्त्या मानसाध्यक्षोहादिना दीर्घाध्यवसायिनेति तत्त्वमिति स्फुटमुक्तं स्याद्वादकल्पलतायाम् । अत एव प्रतिभासस्य निरालम्बनत्वापादनमप्यसारम् । विवादापन्नप्रत्यया निरालम्बना:, प्रत्ययत्वात्, स्वप्नेन्द्रजालादिप्रत्ययवदित्यनुमानेन तत्सिद्धिरिति चेत् ? न, स्वसन्तानप्रत्ययेन व्यभिचारात् । तस्यापि सन्तानान्तरप्रत्ययवत्पक्षीकरणे किमिदमनुमानज्ञानं स्वसाध्यार्थालम्बनं निरालम्बनं वा ? प्रथमपक्षे तेनैवानैकान्तिकं प्रत्ययत्वम् । द्वितीयकल्पनायां नाऽतो निरालम्बनत्वसिद्धिरिति प्रपञ्चितं प्रमाणपरीक्षायाम् । मायोपम इत्यादि त्वनुद्घोष्यम्, सुगतप्रज्ञापराधप्रकटीकरणपरत्वात्, तदाहाऽष्टशतीकारः 'शौद्धोदनेरेव तावत्प्रज्ञापराधोऽयं लोकातिक्रान्तः कथं बभूवेत्यतिविस्मयमास्महे । तन्मन्ये पुनरद्यापि कीर्त्तयन्तीति किं बत परमन्यत्र मोहनीयप्रकृते' रिति उक्तं च न्यायविनिश्चये - तत्र शौद्धोदनेरेव कथं प्रज्ञापराधिनी । बभूवेति वयं तावद् बहु विस्मयमास्महे ।। तत्राद्यापि जडासत्कास्तमसो नाऽपरं परम् । विभ्रमे विभ्रमे तेषां विभ्रमोऽपि न सिद्ध्यती-ति ।। ५३, ५४, ५५ ।। अवयव्यादिसिद्धिन्यायमञ्जर्यादाववलोकनीया, नात्र ग्रन्थभूयस्त्वभीत्योपदर्श्यते । - यच्च प्रतिपाद्यानुरोधेनेत्याद्युक्तम्, तत्राऽपि शून्यताद्यभिधाने वैराग्योत्पादन एव तात्पर्यसम्भवः, ततस्तद्योगात्, अन्यथा त्वनुभवादिविरुद्धभाषित्वेन तदनाप्तत्वप्रसङ्गादिति माध्यस्थ्येन माध्यमिकैर्मर्षितव्यम् । यत्तु श्रुतिप्रामाण्यमत्रोपदर्शितम्, तत् स्वमतसिद्ध्यकुण्ठोत्कण्ठाऽऽकण्ठपूर्णताविजृम्भितम्, तदभिप्रायापरिज्ञानात् । तत्र हीदं पूर्वपक्षतयोपन्यस्तम्, यत् केचिद् ब्रुवन्ति 'जगदुत्पत्तिपूर्वम् तदसदेवाऽऽसीत्, ततः सत उत्पत्तिरभूत् किं तत् सम्भवितम् ? इति तदाशयः, तच्च निराकृतमनन्तरमेव - 'कुतस्तु खलु सौम्यैवं स्यादिति होवाच कथमसतः सज्जायेते' ति छान्दोग्योपनिषदि । पञ्चसूत्रप्रमाणेऽपि वैराग्यतात्पर्यमेव बोध्यम्, यतस्तत्राऽप्यनन्तरमेवोक्तं- 'ता अलमित्थ पडिबंधेण' त्ति । इत्थमेव 'आदित शून्य अनागत धर्मा नो गत अस्थितस्थानविविक्ता: । नित्यमसाकर मायसभावाः शुद्ध विशुद्ध नभोपम सर्वि ।। ( समाधिराजसूत्रे ।। ३७ ।। ) इत्याद्युक्तय उन्नेया । अत एव “इमिना मं परियायेन सम्मावदमानो वदेय्य 'उच्छेदवादी समणो गोतमो' ति अहं हि भिक्खवे उच्छेदं वदामि रागस्स दोसस्स मोहस्स” इत्यादि अंगुत्तरनिकायवचनमपि सङ्गच्छत इति दिक् । एतेन ' विज्ञप्तिमात्रमेवैतदसदर्थावभासनात्।' (विज्ञप्तिमात्रतासिद्धिः - विंशतिकायाम् ।।१।।) इति विज्ञानवादोऽपि प्रत्युक्तः । इत्थं चासद्विषयत्वाभावान्नात्र व्यर्थतेति सिद्धम् । स्वप्नद्रव्यप्रस्तावे शून्यवादविवादः

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252