________________
१९२
चन्द्रज्योत्स्नाऽधिकश्वेता, भव्यभव्यश्रिया ह्यभूत् ।
चन्द्रकान्ताकनीदीक्षा,
कुम्भः प्रभावनालये ।। ९० ।।
भुवनभानवीयमहाकाव्ये
જાણે પ્રભાવનાપ્રાસાદ ઉપર કળશ હોય તેવી ચાંદનીથી ય અધિક ઉજ્જવળ ભવ્યાતિભવ્ય
શોભાવાળી ચન્દ્રકાન્તાકુમારીની દીક્ષા (પૂજ્યશ્રીની निश्राम) a. IIoll
न्यायविशारदम्
प्रवचनप्रभावना
सुलभत्वात्। परतश्चेत्सिद्धा, परोऽप्यभ्युपगन्तव्यो ग्राह्यलक्षणं चावर्जनीयमिति ।' तदुक्तं (बृहदारण्यकभाष्यवार्तिके ? ) ‘अभावो येन भावेन ज्ञायते शून्यवादिना । तस्य भावस्य सद्भावो वद केन निवार्यते ? ।।' इति ।
न च प्रागुक्तानुमानेनाऽपि नीलादिज्ञाने द्विचन्द्रादिज्ञानतुल्यमसत्यत्वं साधयितुं शक्यम्, बाध्यत्वेतराभ्यां वैलक्षण्यात् । न च बाध्यबाधकभावो निराकृत एवेति वाच्यम्, व्यवहारसिद्धस्य तस्य निराकर्तुमशक्यत्वात् । बाधकेन ज्ञानस्य, स्वरूपस्य, विषयस्य, फलस्य वाऽबाधेऽपि बाध्यज्ञानेऽप्रामाण्यज्ञापनात्, तदुक्तं सूरिणा 'किन्तु ज्ञानस्याऽसद्विषयत्वम्, अर्थस्य चाऽसत्प्रतिभासनं तेन ज्ञाप्यते' इति । अत्र ज्ञानस्याऽसद्विषयत्वं तदभाववति तत्प्रकारकत्वम्, अर्थस्याऽसत्प्रतिभासनं च स्वाभाववद्विशेष्यकज्ञानप्रकारत्वम्, तथाभानं च तदभावस्फूर्त्या मानसाध्यक्षोहादिना दीर्घाध्यवसायिनेति तत्त्वमिति स्फुटमुक्तं स्याद्वादकल्पलतायाम् ।
अत एव प्रतिभासस्य निरालम्बनत्वापादनमप्यसारम् । विवादापन्नप्रत्यया निरालम्बना:, प्रत्ययत्वात्, स्वप्नेन्द्रजालादिप्रत्ययवदित्यनुमानेन तत्सिद्धिरिति चेत् ? न, स्वसन्तानप्रत्ययेन व्यभिचारात् । तस्यापि सन्तानान्तरप्रत्ययवत्पक्षीकरणे किमिदमनुमानज्ञानं स्वसाध्यार्थालम्बनं निरालम्बनं वा ? प्रथमपक्षे तेनैवानैकान्तिकं प्रत्ययत्वम् । द्वितीयकल्पनायां नाऽतो निरालम्बनत्वसिद्धिरिति प्रपञ्चितं प्रमाणपरीक्षायाम् । मायोपम इत्यादि त्वनुद्घोष्यम्, सुगतप्रज्ञापराधप्रकटीकरणपरत्वात्, तदाहाऽष्टशतीकारः 'शौद्धोदनेरेव तावत्प्रज्ञापराधोऽयं लोकातिक्रान्तः कथं बभूवेत्यतिविस्मयमास्महे । तन्मन्ये पुनरद्यापि कीर्त्तयन्तीति किं बत परमन्यत्र मोहनीयप्रकृते' रिति उक्तं च न्यायविनिश्चये - तत्र शौद्धोदनेरेव कथं प्रज्ञापराधिनी । बभूवेति वयं तावद् बहु विस्मयमास्महे ।। तत्राद्यापि जडासत्कास्तमसो नाऽपरं परम् । विभ्रमे विभ्रमे तेषां विभ्रमोऽपि न सिद्ध्यती-ति ।। ५३, ५४, ५५ ।।
अवयव्यादिसिद्धिन्यायमञ्जर्यादाववलोकनीया, नात्र ग्रन्थभूयस्त्वभीत्योपदर्श्यते ।
-
यच्च प्रतिपाद्यानुरोधेनेत्याद्युक्तम्, तत्राऽपि शून्यताद्यभिधाने वैराग्योत्पादन एव तात्पर्यसम्भवः, ततस्तद्योगात्, अन्यथा त्वनुभवादिविरुद्धभाषित्वेन तदनाप्तत्वप्रसङ्गादिति माध्यस्थ्येन माध्यमिकैर्मर्षितव्यम् । यत्तु श्रुतिप्रामाण्यमत्रोपदर्शितम्, तत् स्वमतसिद्ध्यकुण्ठोत्कण्ठाऽऽकण्ठपूर्णताविजृम्भितम्, तदभिप्रायापरिज्ञानात् । तत्र हीदं पूर्वपक्षतयोपन्यस्तम्, यत् केचिद् ब्रुवन्ति 'जगदुत्पत्तिपूर्वम् तदसदेवाऽऽसीत्, ततः सत उत्पत्तिरभूत् किं तत् सम्भवितम् ? इति तदाशयः, तच्च निराकृतमनन्तरमेव - 'कुतस्तु खलु सौम्यैवं स्यादिति होवाच कथमसतः सज्जायेते' ति छान्दोग्योपनिषदि । पञ्चसूत्रप्रमाणेऽपि वैराग्यतात्पर्यमेव बोध्यम्, यतस्तत्राऽप्यनन्तरमेवोक्तं- 'ता अलमित्थ पडिबंधेण' त्ति । इत्थमेव 'आदित शून्य अनागत धर्मा नो गत अस्थितस्थानविविक्ता: ।
नित्यमसाकर मायसभावाः शुद्ध विशुद्ध नभोपम सर्वि ।। ( समाधिराजसूत्रे ।। ३७ ।। ) इत्याद्युक्तय उन्नेया ।
अत एव “इमिना मं परियायेन सम्मावदमानो वदेय्य 'उच्छेदवादी समणो गोतमो' ति अहं हि भिक्खवे उच्छेदं वदामि रागस्स दोसस्स मोहस्स” इत्यादि अंगुत्तरनिकायवचनमपि सङ्गच्छत इति दिक् । एतेन ' विज्ञप्तिमात्रमेवैतदसदर्थावभासनात्।' (विज्ञप्तिमात्रतासिद्धिः - विंशतिकायाम् ।।१।।) इति विज्ञानवादोऽपि प्रत्युक्तः ।
इत्थं चासद्विषयत्वाभावान्नात्र व्यर्थतेति सिद्धम् ।
स्वप्नद्रव्यप्रस्तावे शून्यवादविवादः