________________
षष्ठो भानुः
एवमनेकसङ्घेषु देवद्रव्यपवित्रताम् ।
कारुण्यैकरसः पूज्यो विदधे चागमोदिताम् ।।८९।।
प्रवचनप्रभावना
१९१
આ રીતે કારુણ્યમાં અનન્ય રસિક એવા પૂજ્યશ્રીએ અનેક સંઘોમાં આગમોક્ત એવી पद्रव्यनी शुद्धि २. lell
न्यायविशारदम्
सर्वैरपि बुद्धवचनानुसरणाददोष इति चेत् ? सोऽयमपरो दोषः आगमाभासानुसरणात्, अनाप्तवचनप्रभवज्ञानस्य तत्त्वात्, तदुक्तम्- ‘अनाप्तवचनप्रभवं ज्ञानमागमाभासम् ।' इति प्रमाणनयतत्त्वालोके ।। ६-८३ ।। न चाऽस्यानाप्य वाच्यम्, इत्थं परस्परविरुद्धवाचा स्वयमेवानेन तत्प्रकटीकरणात्, अत एवोक्तं परैरपि - 'बाह्यार्थविज्ञानशून्यवादत्रयमितरेतरविरुद्धमुपदिशता बुद्धेन वैदिकपथजुषां परमनास्तिकानां क्षत्रियादिजन्मभिरवतीर्णानां दैत्यानां धर्मवतां विनाशो न तद्विनाशार्थं विरुद्ध-प्रतिपत्तिजनकमन्योऽन्यं विरुद्धमतं शास्त्रमारचितमिति हि पुराणेतिहासेषु प्रसिद्ध'- मित्यद्वैतब्रह्मसिद्धौ । । पृ. ८६ । । इति चेत् ?
1
न, अभिप्रायाऽपरिज्ञानात् । वस्तुतस्तु बुद्धभगवतः शून्यतायामेव तात्पर्यम्, किन्तु प्रतिपाद्यानुरोधेन तद्देशनावैविध्यम्, तथाहि ये हीनमतयस्ते सर्वास्तित्ववादेन क्षणिकत्वोक्त्या तदाशयानुरोधेन शून्यतायामवतार्यन्ते । ये तु मध्यमास्ते ज्ञानमात्रास्तित्वेन शून्यतायामवतार्यन्ते । ये तु प्रकृष्टमतयोऽस्मादृशास्तेभ्यः साक्षादेव शून्यतातत्त्वं प्रतिपाद्यत इति किमनुपपन्नम् ? अनेनैव पथाऽर्थादिसमर्थनमपि समाधेयम् । उक्तं च - 'देशना लोकनाथानां सत्त्वाशयवशानुगा । भिद्यन्ते बहुधा लोक उपायैर्बहुभिः पुनः।।' इति बोधिचित्तविवरणे । उक्तं च रत्नावल्यां - 'यथैव वैयाकरणो मातृकामपि पाठयेत् । बुद्धोऽवदत् तथा धर्मं विनेयानां यथाक्षमम् ।।' इति । तदुक्तं भवदीयैरपि 'चित्रा तु देशनैतेषां स्याद्विनेयानुगुण्यत' इत्यादि योगदृष्टिसमुच्चये ।।१३४।। तस्मान्न तदभिप्रायमज्ञात्वा तत्प्रतिक्षेपो न्याय्यः, महाऽनर्थप्रसङ्गात्, तदुक्तं तत्रैव 'तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महाऽनर्थकरः पर' इति ।। १३९।।
-
प्रमाणं चात्र श्रुतिः - ‘असदेवेदमग्र आसी' - दिति छान्दोग्योपनिषदि ।।६-२-१ ।। तथोक्तं भवदागमेऽपि - 'सुविणु व्व सव्वमालमालं ति' इति पञ्चसूत्रे ।। ३-२ ।। ननु तथापि नैतत् शून्यत्वं कैश्चिद् दृश्यते बुध्यते वेति चेत् ? सत्यम्, प्राकृतानां तत् तादृशमेव, अत एवातिशयोऽयं भगवतः, तदुक्तम् - 'दुर्दृश्यं दुरनुबोधं बुद्धज्ञानं तथागतैरर्हद्भिः प्रतिबुद्ध' . मिति सद्धर्मपुण्डरीकसूत्रे । तस्मात् द्रविणविषयोऽयं विवादः खपुष्पपरागग्रहणविवादसोदरो व्यर्थ एवेति स्थितम् ।
-
अत्रोच्यते – बाह्यार्थविरहविरहान्न शून्यतासिद्धिः । तथाहि सत्त्वेतरात्मकत्वेन यत्तन्निराकरणं कृतम्, तन्न स्याद्वादिनो बाधाये, तेनार्थस्य द्रव्यपर्यायात्मभ्यां सत्त्वासत्त्वयोरभ्युपगमात्, तथाहि मृत्त्वेन सत एव घटस्योत्पादनमिति न हेतुविरहः, घटात्मनाऽसत एव तदुत्पत्तिरिति न कारकव्यापारवैयर्थ्यम् । अत एवोक्तं परैरपि प्रकारान्तरेण 'आपेक्षिकं सदसत्त्व' - मिति वैशेषिकसूत्र-कटन्द्याम् । एतेनोत्पादाभावः प्रत्युक्तः, कूटविकल्पैर्दृष्टापलापासम्भवाच्च ।
-
किञ्च शून्यतायामपि प्रमाणमस्ति न वा ? आद्ये शून्यताविरोधः, द्वितीये तदसिद्धिः, प्रमाणमन्तरेण तदयोगात् तदुक्तम् 'शून्यं चेत् सुस्थितं तत्त्वमस्ति चेच्छून्यता कथम् ? तस्यैव ननु सद्भावादिति सम्यग्विचिन्त्यता' - मिति शास्त्रवार्तासमुच्चये ।।६-५८।। तदुक्तमन्ययोगव्यवच्छेदकद्वात्रिंशिकायाम् - 'विना प्रमाणं परवन्न शून्यः, स्वपक्षसिद्धेः पदमश्नुवीत । कुप्येत् कृतान्तः स्पृशते प्रमाण - महो ! सुदृष्टं त्वदसूयिदृष्ट' - मिति ।।१७।।
इदमेवाभिप्रेत्योक्तमात्मतत्त्वविवेके - सा हि यद्यसिद्धा, कथं तदविशेषमपि विश्वमभिधीयते ? वाङ्मात्रस्य सर्वत्र स्वप्नद्रव्यप्रस्तावे शून्यवादविवाद: