________________
१९० - प्रवचनप्रभावना ।
भुवनभानवीयमहाकाव्ये प्रत्युत्पन्नधियं दृष्ट्वा,
પૂજ્યશ્રીની પ્રત્યુત્પન્નમતિને જોઈને સકળસંઘ बभूवुर्विस्मिता जनाः ।
વિસ્મય પામ્યો. અને વિદ્વાન મહાત્માઓને પણ विद्वन्मुनिवराश्चाप्य
કદી નહીં સાંભળેલું સાંભળવા મળ્યું. ll૮૮ાા शृण्वन्नश्रुतपूर्वकम् ।।८८॥ wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww क्वचन केचनेति मध्यमकशास्त्रे ।।पृ.६ ।। यया चोत्पत्त्या स्वत उत्पादो न सम्भवति सा 'तस्माद्धि तस्य भवने न गुणोऽस्ति कश्चिद्, जातस्य जन्म पुनरेव च नैव युक्त' मित्यादिना मध्यमकावतारादिद्वारेणाऽवसेया।।६-८ ।।
आह चाचार्यबुद्धिपालितः - 'न स्वत उत्पद्यन्ते भावाः, तदुत्पादवैया' दित्यादि माध्यमिककारिकावृत्तौ ।
परतोऽप्युत्पादासम्भवः, यदुक्तम् - ‘अन्यत् प्रतीत्य यदि नाम परोऽभविष्यज्जायते तर्हि बहुल: शिखिनोऽन्धकारः । सर्वस्य जन्म च भवेत् खलु सर्वतश्च तुल्यं परत्वमखिलेऽजनकेऽपि यस्मा दिति मध्यमकावतारे ।।६-१४ ।। किञ्च परस्यापि स्वभावसिद्धत्वविरहान्न जनकत्वम्, तथोक्तं शून्यतासप्ततौ - ‘पट: कारणत: सिद्धः सिद्धं कारणमन्यतः । सिद्धिर्यस्य स्वतो नास्ति तदन्यज्जनयेत्कथ' मिति ।।१५।।
एतदेवाहार्यरत्नाकरसूत्रकारः - ‘यो न विद्यते स्वभावतः क्वचित्, सो न जातु परहेतुमेष्यति ।।' इति इदमेवोक्तं बीजदृष्टान्ततः शालिस्तम्बसूत्रे - ‘स चायं बीजहेतुकोऽङ्कुर उत्पद्यमानो न स्वयंकृतो न परकृतो नोभयकृतो नाप्यहेतुसमुत्पन्नो नेश्वरकालाणुप्रकृतिस्वभावसम्भूत' इति । तथोक्तं ललितविस्तरे (महायानसूत्रे)- 'बीजस्य सतो यथाङ्कुरो न च यो बीजु स चैव अङ्कुरो। न च अन्यु ततो न चैव तदेवमनुच्छेदअशाश्वतधर्मते ति दिक्। अत एवोक्तं वज्रच्छेदिकायाम् - 'अनुत्पादः परमार्थ' इति तस्मादनुत्पाददर्शनमावश्यकम्, तत एव दुःखपरिज्ञानयोगाच्च, यदाह भगवान् - 'येन मञ्जुश्रीरनुत्पाद: सर्वधर्माणां दृष्टस्तेन दुःखं परिज्ञात' मिति मञ्जुश्रीपरिपृच्छायाम् । तदर्शने च सिद्धिसौधमध्यास्ता शून्यतेति ।
न चैवं बुद्धस्याऽप्यभावापत्तिरिति वाच्यम, इष्टापत्तेः, न हि तथागताः कदाचिदप्यात्मनः स्कन्धानां वाऽस्तित्वं प्रज्ञापयन्ति, यथोक्तं भगवत्याम् - 'बुद्धोऽप्यायुष्मन् सुभूते, मायोपमः स्वप्नोपम' इत्यष्टसाहस्रिकायाम् ।।३९ ।।
__किञ्चैतत् शून्यत्वं पण्डितानामपि सम्मतम्, तादृशस्यैव बुद्धवचनविषयापन्नत्वात्, यदुक्तम् - 'यं भिक्खे अत्थि संमतं पंडितानं अहम्पि तं अत्थीति वदामि ।' इति संयुत्तनिकाये । ___ ननु भवन्मतमत्यन्तमसम्बद्धम्, बौद्धत्वेन समानेष्वपि भवन्मतेषु क्वचिदेवं शून्यतासमर्थनदर्शनात्, क्वचित्त्वर्थसमर्थनादिदर्शनात्, यथोक्तं न्यायबिन्दौ - ‘अर्थसारूप्यमस्य प्रमाण' मिति ।।१-२०।। न चान्यार्थमर्थपदमिति वाच्यम्, मानाभावात्, व्याख्याकृताऽपि‘इह यस्माद् विषयाद् ज्ञानमुदेति तद्विषयसदृशं तद् भवती-ति (धर्मोत्तरटीका) तथा ‘अर्थाकारं यत्प्रत्यक्षं भवति तदेव प्रमाण' मित्यभिधानात् (विनीतदेवटीका) । तथा 'तत्रानेकार्थजन्यत्वात् स्वार्थे सामान्यगोचर' मिति प्रमाणसमुच्चये ।।१-४ ।। तथा 'नीलसमङ्गीपुरुषो नीलं जानातीति विज्ञानकायपादे तथा 'रूपश्लेषो हि सम्बन्ध' इति सम्बन्धपरीक्षायाम् ।।२।। तथा अन्यत्राऽपि चक्षुरादिसमर्थनं दृश्यते- 'चक्षुरादीनां चक्षुर्विज्ञानाद्याश्रयभावः रूपादीनामालम्बनभाव' इत्यभिधर्मसमुच्चयभाष्ये ।।पृ.९९ ।। क्वचित्तु बुद्धिमात्राभिधानम्, यथा ‘अन्यच्चेत् संविदो नीलं न तद् भासेत संविदि ।।' इति विवरणप्रमेयसङ्ग्रहे ।।पृ.७५ ।। क्वचित्तु क्षणभङ्गो बहुभङ्गः प्रदर्श्यते यथा - ‘यत् सत् तत् क्षणिकं यथा जलधर' इत्यादि ज्ञानश्रीमित्रनिबन्धावलौ ।। क्षणभङ्गाध्यायः-२ ।। क्वचिच्चापोहवादवावदूकत्वं व्यक्तीक्रियते यथा - 'तदेवमन्याभावविशिष्टो विजातिव्यावृत्तोऽर्थो विधि: स एव चाऽपोहशब्दवाच्यः शब्दानामर्थः प्रवृत्तिनिवृत्तिविषयश्चे' ति - रत्नकीर्तिनिबन्धावलौ ।।पृ.६६ ।।
(स्वप्नद्रव्यप्रस्तावे शून्यवादविवादः ।