________________
षष्ठो भानुः
प्रभावोऽयं जिनेशस्य, तत्सत्कं द्रविणं ततः ।
स्वप्नद्रव्यमतश्चोक्तं,
“देवद्रव्यं” इति स्फुटम् ।।८७ ।।
प्रवचनप्रभावना
स्वप्न
हेपद्रव्य
માટે તે ભગવાનનો પ્રભાવ કહેવાય. તેથી
દ્રવ્ય તેમના સંબંધી થયું. માટે સ્વપ્રદ્રવ્ય हेवाय." ॥८७॥
-
न्यायविशारदम्
(८७) द्रविणमित्यादि । अथ व्यर्थोऽयं विवादः, असद्विषयत्वात्, वान्ध्येयविवाहवत् । तदसत्त्वं च बाह्यार्थमात्रविरहात्, सदसदुभयानुभयात्मकचतुष्कोटिविनिर्मुक्तस्य शून्यस्यैव तत्त्वभावात् । तथाहि यदि घटादेः सत्त्वं स्वभावस्तर्हि कारकव्यापारवैयर्थ्यम्, असतश्च खपुष्पादेरिव हेतुविरहः, उक्तं च -
'न सत: कारणापेक्षा व्योमादेरिव युज्यते । कार्यस्याऽसम्भवी हेतुः खपुष्पादेरिवाऽसतः ।।' इति । विरोधादित पक्षावनुपपन्नौ। शून्यतावादे तु न कोऽपि दोषः तस्मादशक्योपालम्भमस्मन्मतम्, उक्तं च सदसत्सदसच्चेति यस्य पक्षो न विद्यते। उपालम्भश्चिरेणापि तस्य वक्तुं न शक्यते ।।' इति चतुःशतके ।।१६-२५ ।। तदुक्तं भगवता लङ्कावतारे ‘बुद्ध्या विविच्यमानानां, स्वभावो नावधार्यते । अतो निरभिलप्या ते, निःस्वभावाश्च दर्शिताः । । इदं वस्तुबलायातं, यद्वदन्ति विपश्चितः । यथा यथार्थाश्चिन्त्यन्ते, विशीर्यन्ते तथा तथे'-ति । तथोक्तम् 'बुद्ध्या विविच्यमानानां स्वभावो नावधार्यत' इति बौद्धकारिकायाम् उक्तं चाभिधर्मसमुच्चये 'निःस्वभावाः सर्वधर्माः' इति । । पृ. ११४ ।। तथोक्तं प्रज्ञापारमितायाम् 'शून्याः सर्वधर्मा निःस्वभावयोगेने' ति । अत एव परैरप्युक्तम् पृथिव्यादीनि तत्त्वानि लोके प्रसिद्धानि, तान्यपि विचार्यमाणानि न व्यवतिष्ठन्ते, किं पुनरन्यानि ?' इति तत्त्वोपप्लवसिंहे (पृ. १)
तस्मात् शून्यं शून्यमिति भावनीयम्, द्रविणादिविषयविवादस्योक्तन्यायेनासद्विषयत्वात्, शून्यताभावनाया एव सर्वार्थसिद्धिबीजत्वात्, उक्तं च विग्रहव्यावर्तिन्याम् - प्रभवति शून्यतेयं यस्य प्रभवन्ति तस्य सर्वार्थाः । प्रभवति न तस्य किञ्चित् न भवति शून्यता यस्य' ति ।। ७१ ।। युक्तं चैतत्, तत एव धर्मसिद्धेः, तद्योगात्, अन्यथा तु विचिकित्सासम्भवान्न तत्सिद्धिः, तदुक्तमार्यध्यायितमुष्टिसूत्रे - 'सर्वान् धर्मान् शून्यानिति समनुपश्यन् न क्वचिद्धर्मे विचिकित्सामुत्पादयती'-ति । शून्यतयैव मुक्तिसुखयोगोऽपि, तत्समाधेस्तत्त्वात्, उक्तं च- 'विमोक्षसुखमयमुच्यते शून्यतासमाधिः ।' इति शतसाहस्त्रिकायाम् । तर्हि कथं द्रव्यादिव्यवहारो भवतीति चेत् ? न तस्य परमार्थसद्व्यवहारानुपातित्वविरहात्, विशददर्शनावभासितत्वात्, तिमिरपरिकरितदृगवभासीन्दुद्वयवत् । न च चन्द्रद्वयज्ञानं बाध्यत्वाद् भ्रान्तमेतत्तु न तथेति वाच्यम्, बाध्यत्वानुपपत्तेः । तथाहि बाधकेन न विज्ञानस्य तत्कालभाविस्वरूपं बाध्यते, तदानीं तस्य स्वरूपेण प्रतिभासनात् । नाप्युत्तरकालम्, क्षणिकत्वेन तस्य स्वय-मेवोत्तरकालेऽभावात् । नापि प्रमेयं प्रतिभासमानेन रूपेण बाध्यते, तस्य विशदप्रतिभासादेवाभावाऽसिद्धेः । अप्रतिभासमानेन तु रूपेण स्वत एव बाधः । नापि प्रवृत्तिरुत्पन्ना बाध्यते, उत्पन्नत्वादेवाऽसत्ताऽयोगात्, अनुत्पन्नायास्तु स्वत एव बाधः ।
तस्मात् तत्प्रतिभासोऽपि निरालम्बन एव, यथोक्तं बौद्धतर्कभाषायाम् - ‘प्रतिभासः खल्वेषोऽनादिवितथवासनातः प्रवर्तमान निरालम्बन एव लक्ष्यते । तथाहि सति विषये सालम्बनता स्यात्, तेन चावयविना भवितव्यम् परमाणुप्रचयेन वा । स चायमुभयोऽप्यनन्तरोक्तबाधकप्रमाणग्रस्तविग्रहो न व्योमतामरसमतिशेते, यथोक्तम् - न सन्नावयवी नाम, न सन्ति परमाणवः । प्रतिभासो निरालम्ब: स्वप्नानुभवसन्निभ' इति । ।पृ. १०७ ।। अवयव्यादिनिरसनं तु तत एव विज्ञेयम्, ग्रन्थगौरवभयान्नात्रोच्यते। इतश्चास्ति शून्यता, भावानामुत्पादस्यैवाभावात्, उत्पादो हि परैः कल्प्यमानः स्वतो वा परिकल्प्येत परतः, उभयतः, अहेतुतो वा परिकल्प्येत । सर्वथा च नोपपद्यते, तदुक्तम्- 'न स्वतो नाऽपि परतो, न द्वाभ्यां नाप्यहेतुतः उत्पन्ना जातु विद्यन्ते भावाः स्वप्नद्रव्यप्रस्तावे शून्यवादविवादः
१८९
-
-