Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 196
________________ १७४ उत्सूत्रप्रतिकार भुवनभानवीयमहाकाव्ये प्रार्थनासूत्रके याञ्चा, પ્રાર્થના-(જયવીરરાય) સૂત્રમાં “ઈષ્ટ ફલ સિદ્ધિ याऽस्तीष्टफलसिद्धिका । એ જે પ્રાર્થના છે. તેના અર્થથી વિપરીત વચનનો तदर्थविपरीतोक्तिं, અપ્રતિમ બદ્ધિના સ્વામિ પૂજ્યશ્રીએ પ્રતિકાર કર્યો. प्रतिचक्रेऽप्रतिमधीः ।।२९॥ Il૨૯TI -सङ्घहितम्१. एतद्विषयानेकपूर्वाचार्यव्याख्यासङ्ग्रहस्तार्किकशिरोमणिश्रीजयसुन्दरसूरिभिः कृतः, विस्तरार्थिभिस्तत एव ज्ञेयम् । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ निश्चयव्यवहारनिपुणताद्यवाप्यते । उक्तं च पुण्यकुलके - “उस्सग्गे अववाये, निच्छयववहारम्मि निउणत्तं । मणवयणकायसुद्धी, लभंति पभूयपुण्णेहिं ।। इति ।।५।।) ___ - इतश्च मन्यन्ते - ‘अत्यन्तभिन्नस्वभावा जीवा: पुद्गलाश्च, जीवस्तु शुद्धज्ञानादिस्वभाव' इत्यादि । इतश्च तादृशपुद्गलत्यागं परित्यज्य तदुपभोगालाम्पट्यमिति व्याहतम् । ___ - दानादिनष्फल्यं तु विषयसुखाऽऽशंसया, न तु स्वरूपयोग्यताविरहात्, तदभावात् निरांशसयाऽऽसेवितस्य तस्यैव साफल्यात् । विषयतृष्णा हि भववृद्धिनिबन्धनम् । ततो दानादिभावेऽपि भवज्वरानुपशमः, तद्रूपौषधस्य तृष्णाकुपथ्योपहतत्वेन प्रतिबद्धकार्यत्वात् । न चैतावता तत्कारणत्वविरह इति विभावनीयम् । ततश्च कार्यार्थिना प्रतिबन्धकपरिहारेण कारणाऽऽसेवनं कार्यम्, आरोग्यार्थिना कुपथ्यपरिहारेणौषधासेवनवदिति । - इतश्चैकान्तवादिनो व्यवहारधर्मोपहासं कृत्वा शुद्धोपयोगस्यैव कथायामभिरूचिविशेषं विदधते, इतश्च भोजनावसरे किमिति संयोजनां कुर्वन्ति ? कथं च व्यञ्जनेष्वेव तां कुर्वन्ति ? न तु जल इति दुरुत्तरः पर्यनयोगः । किञ्च शुद्धोपयोगवादिनामाऽऽसक्तिपूर्वकं भोजनं यानादिषु नृपवद्विहरणमपि न सङ्गतिमङ्गति । सर्वविषयभोगोपभोगः... आनुकूल्यपरिभोगः.... धनसमृद्धिपरिग्रहः... तरुणयुवतिबालप्रमुखकृतविश्रामणादिसेवनम्... स्वदेशमास्फातिहेतुमहाऽऽडम्बरप्रसिद्धियत्न... इत्यादिषु प्रकटपापिलिङगेषु सत्स्वपि मुग्धप्रतारणाय धर्मक्रियानैष्फल्यं प्रतिपाद्य शुद्धोपयोगकथाकरणं कथमपि शोभास्पदतां न गच्छति । 'क्रियावाद्यवश्यं शुक्लपाक्षिक' (किरियावाई०णियमा सक्कयपक्खिओ - दशाचूर्णिः) इति सिद्धान्तोऽप्येतदेव दर्शयति यत् 'यस्य बाढं धर्मक्रियाभिरूचिरसौ लघुकर्मा शीघ्रमुक्तिगामी' । ततश्च निश्चयनयच्छद्मना तन्निन्दादिप्रवृत्तस्य तु शुक्लपाक्षिकत्वेऽपि सन्देह: । (सोऽपि न, बोधिबीजनि शनात्तत्त्वविरहनिश्चयात्, उक्तं च - 'लुंपइ बझं किरियं जो खलु आहच्चभावकहणेणं । सो हणइ बोहिबीअं उम्मग्गपरुवणं काउं ।।' इत्यध्यात्ममतपरीक्षायाम् ।।४३ ।।) ___ - शुभयोगा अकारणम्, शुद्धोपयोगस्यैव तत्त्वादित्यसारम्, तदेकान्तवादिना स्वाचरणेनैवास्य निरस्तत्वात्, स हि स्वदेशनां शुभयोगं मत्वैव तत्र प्रवर्तते, न तु शुद्धोपयोगं मत्वा, तत्र तद्विरहेऽविगानात् ।। एवं निश्चयव्यवहाराख्यग्रन्थेन स्वदेशनाभिश्च श्रीपूज्यनैकान्तवादस्य निराकरणेनानेकभव्यानामुन्मार्गगामित्वं निवारितम् । यस्मान्नेह धीराः स्वलक्ष्यमनासाद्य व्यवसायोपरति प्रयान्ति, नाऽपि तदप्राप्तिरपि तेषाम, उक्तं च - 'अप्राप्यं नाम नेहाऽस्ति धीरस्य व्यवसायिनः ।' इति कथासरित्सागरे । विश्वोपकारकारिणेऽस्मै महर्षये नमो नमः । (उन्मार्गतमउन्मूलने न्यायभुवनभानुभानवः

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252