________________
चतुर्थो भानुः
दर्शनाचारः
११३
सर्वोपधिष्वपि विरागमहाध्वजोऽभूत्, ઉત્કૃષ્ટ ગચ્છાધિપતિ મહાપ્રભાવક હતાં. પણ संवेगवेगवत उच्चपदेऽपि बाढम् ।
સંવેગના વેગને તે બાધક ન થયું. દરેક ઉપધિમાં
પૂજ્યશ્રીના વિરાગનો મહાધ્વજ ફરકી રહ્યો હતો. त्यागप्रकर्षरतहृद् ! ह्यपवर्गसक्त !
ત્યાગના પ્રકર્ષમાં રમતા હૃદયવાળા મોક્ષના भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।१९।। अभिलाषी गुरु गुपनलानु ! हुं आपने मापथी
ભજું છું. I૧લા. ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~ क्षायिकसम्यक्त्वाऽन्यथाऽनुपपत्तेः, श्रूयते च तन्मुनिवन्दनायास्तत्फलत्वम्, तदुक्तं त्रिषष्टिश.पु.चरित्रे - सर्वज्ञोऽप्यवदत् कृष्ण ! बह्वद्य भवतार्जितम् । पुण्यं क्षायिकसम्यक्त्वं तीर्थकृन्नामकर्म चेति ।।८-१०-२४३।। नाऽपि द्वितीयः, मिथ्यादृष्टावतिव्याप्त्यापत्तेः, न चेष्टापत्तिः, तथा तल्लक्षणत्वायोगात्, अतिव्याप्तिकज्जलकलङ्कितत्वात्, अव्याप्त्यादित्रितयशून्यस्य लक्षणत्वात्, तदुक्तम् - 'लक्षणत्वमित्यव्याप्त्यातिव्याप्त्यसम्भवदोषत्रयशून्यत्व'- मिति तर्कसङ्ग्रहे। अथामुकैस्सममिति मतम्, तदाऽप्यपराधिभिरितरैरेव वा, इतरैरेव चेत्, ‘अवरद्धे वि'-इत्यादि ग्रन्थविरोधः, अतिव्याप्तिश्च, पूर्ववत्, तदुक्तं शुद्धाद्वैतपरिष्कारतात्पर्ये- 'लक्षणं हि लक्ष्यतावच्छेदकावच्छिन्नविशेष्यकलक्ष्यप्रतियोगिकभेदवत्प्रति-योगिकभेदत्वावच्छिन्नविधेयताकानुमितिजनक' मिति। अत्र तु न तादृशभेदत्वावच्छिन्नत्वम्, ततश्च लक्षणत्वायोगः, अतिरेकाभावाच्च, तदुक्तं - 'उपकारिणि वीतमत्सरे वा, सदयत्वं यदि तत्र कोऽतिरेकः ?। अहिते सहसाऽपराधलब्धे, सघृणं यस्य मनः सतां स धुर्यः।।' इति । अपराधिभिश्चेत्, व्यभिचारः, पूर्ववत् । इत्थं च सर्वथाऽप्यनुपपत्तेरयुक्तमिदं लक्षणमिति स्थितम् ।
मैवम्, सर्वपुरुषैस्सर्वकालमिति विकल्प दोषाभावात्, ननूक्तोऽत्र व्यभिचार इति चेत् ? ननूक्तो न सूक्तः, जिनशासनोपनिषदपरिज्ञानात, पूर्वबद्धाशुभायुष्कानां क्षायिकसम्यग्दृष्ट्यात्मनां तत्कर्मप्रभावेनायुष अन्तर्मुहूर्तावशेषेऽवश्यमशुभा लेश्योपसम्पद्यते उपपातस्थानीयलेश्यानां तदा नियोगेन भावात्, उक्तं च- 'जल्लेसाई दव्वाइं आयतित्ता कालं करेति, तल्लेसेसु उववज्जइत्ति प्रज्ञापनायाम्। तदेव बृहत्सङ्ग्रहण्यामुक्तं- 'अंतमुहुत्तंमी'- त्यादिना। ततश्च निकाचितकर्मविपाकयोगोऽत्र हेतुः। न चानेकान्तध्रौव्यम्, विशेषविषयत्वात्, सामान्यतस्तु तस्यापि तल्लक्षणयुतता, सदृष्टित्वतः । नन्वेवमन्योऽन्याश्रयः, सम्यग्दृष्टित्वात् तल्लक्षणयुक्तत्वम्, ततश्च सम्यग्दृष्टित्वमिति चेत् ? शोभनम्, गोत्वेन सास्नादिमत्त्वम, ततश्च गोत्वमत्रान्योऽन्याश्रये यो भवतां परिहारः, स एवास्माकमप्यत्र भविष्यति, तुल्ययोगक्षेमत्वात्, इत्थं चाऽपर्यनुयोग एवोचितः, समानदोषपरिहारत्वात् तदुक्तम् - ‘यच्चोभयोः समो दोषः, परिहारश्च तत्समः । नैकः पर्यनुयोज्य: स्यात्, तादृगर्थविचारणे ।।' इति श्लोकवार्तिके। वासुदेवत्वेनापि तल्लक्षणयुक्तत्वम्, तेषामपराधेष्वपि कृतक्षमत्वात्, उक्तं च - “अमरिसण'त्ति अमसृणा: प्रयोजनेष्वनलसाः, अमर्षणा वा अपराधेष्वपि कृतक्षमाः' इति समवायाङ्गे।।पृ.१५७ ।। अत एव क्षीणानन्तानुबन्धिनोऽप्यस्य दुर्गतिं तत्सञ्चलनकषायस्यापि अनन्तानुबन्धितया परिणामेन समाधानसञ्चरं निन्ये लोकप्रकाशकारः।।३-४२३, ४२४ ।। इत्थं च सम्यगेवैतल्लक्षणमित्यलं प्रसङ्गेन। एवमन्येष्वपि लक्षणेषु यथागमयुक्ति स्वयमूहनीयम्, प्रकृतं प्रस्तुमः ।
द्वितीयलक्षणं संवेगाह्वयम्, स च मोक्षाभिलाषात्मकः । येन नरसुरसुरपतिसुखमपि भावतो दुःखमेव मन्यते, मोक्षादन्यन्न किमपि प्रार्थयते । उक्तं च- 'संवेगो मुक्खं पइ अहिलासो भवविरागो ऊ'-त्ति सम्यक्त्वसप्ततौ ।।४४ ।। तथा- 'नरविबुहेसरसुक्खं दुक्खं चिय भावओ उ मन्नंतो । संवेगओ न मोक्खं मुत्तूण किंपि पत्थेइ - त्ति आवश्यकसूत्रे ।।१-५६ ।। सदा संसारदुःखभीरुत्वमपि तत्स्वरूपम्, तद्धेतुभावात्, तदुक्तं सर्वार्थसिद्धौ - 'संसारदुःखान्नित्यभीरुता संवेग' इति। उक्तं च संवेगरगशालायाम् – 'एसो पुण संवेगो संवेगपरायणेहिं परिकहिओ। परमं भवभीरुत्तं अहव मोक्खाभिकंखिता।।' इति ।।५५ ।।
तथोक्तं योगदीपिकायामपि - 'संवेगः भवभयं मोक्षाभिलाषो वे' ति ।। षोडशक ९-६ व्याख्या ।। संवेग इत्यनुत्तरधर्मश्रद्धाऽवन्ध्यहेतुः, सुरसुखाद्याशंषाप्रयुक्तधर्मश्रद्धाया मलिनत्वेन क्षयित्वेन च तत्त्वाऽभावात्, संवेगत
सम्यक्त्वसर्वस्वम्