________________
११४
दर्शनाचारः
भुवनभानवीयमहाकाव्ये निर्वेदनिर्जरगिरेः शिखरे विलासी,
નિર્વેદરૂપી મેરુ પર્વતની ટોચે શોભતા જેઓ ઊંચી श्रेष्ठं पदं ह्यपि विहाय बभूव साधुः । पोस्टने छोडीने (घरेथा लागीन) मागार अन्या. निर्विण्णताप्रद ! भवाम्बुनिधौ वहित्र !, नवनिना EIतार, लपोधिमा relv... मो गुरु भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।२०।। नुवानभानु ! हुँ मापने माथी म छु.॥२०॥
-सङ्घहितम्१. महाधनार्जनाहव्यवसायपदमित्यर्थः । wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww एव भावात्, तथानुभवसिद्धेः, प्रमाणं चात्र पारमर्षम् - 'संवेगेणं भंते। जीवे किं जणयइ ? संवेगेणं अणुत्तरं धम्मसद्धं जणयइ' त्ति उत्तराध्ययनेषु ॥२९-१॥ संवेगस्य समाधिकारणत्वमपि द्रष्टव्यम्, उक्तं च- 'तीव्रसंवेगानामासन्नसमाधिः।' इति पातञ्जलयोगसूत्रे ।।१-२१॥
तृतीयलक्षणं निर्वेदनाम । स च संसारचारकस्याक्षेपेण त्यागाभिलाषात्मकः, सोऽपि गतिचतुष्टयेऽप्यतिदुःखपूर्वकं निवसितत्वात्। उक्तं च - ‘निव्वेओ चागिच्छा तुरियं संसारचारयगिहस्स' इति सम्यक्त्वसप्ततौ ।।४५ ।। तथा- 'नारयतिरियनरामरभवेसु निव्वेयओ वसइ दुक्खं । अकयपरलोयमग्गो ममत्तविसवेगरहिओ वि।।' इत्यावश्यकसूत्रे ।।१-५७।।।
ननु मुनीनां सम्यक्त्वमस्ति न वा ? आये तेषां सुखित्वानुपपत्तिः, प्रकृतलक्षणयोगात्, न च लक्षणसिद्धिरस्तु मा भूत्सुखित्वमिति वाच्यम्, प्रागस्योपपादितत्वात्, भगवत्यादिसूत्रविरोधापत्तेश्च, तत्र मुने: सर्वसुखातिशायिसुखित्वेनोक्तत्वात्, अन्यत्राऽप्युक्तम् - 'न देवराजस्य न चक्रवर्तिनः, तद् नो सुखं रागयुतस्य मन्ये । यद्वीतरागस्य मुनेः सदात्म - निष्ठस्य चित्ते स्थिरतां प्रयाती' ति हृदयप्रदीपषटिंत्रशिकायाम् ।।३४।। अथ द्वितीयः, सोऽपि न, तथाहि तत्त्वविरहे के ते स्युः ? मिथ्यादृष्टयो वा मिश्रदृशो वा ? नाद्य मुनित्वविरोधात्, तत्र जघन्यतोऽपि षष्ठगुणस्थानभावात्, नाऽप्यपरः, तत एव । सूत्रविरोधश्चैवम्, सूत्रे तेषामेव तत्त्वतः सम्यग्दृष्टित्वाभिधानात्, उक्तं च - 'जं सम्मं ति पासहा, तं मोणं ति पासहा, जं मोणं ति पासहा तं सम्मं ति पासहा'-त्ति आचाराङ्गे ।।१-५-३।। सू. १६८।।।
इत्थं च सर्वथाऽपि लक्षणाऽनुपपत्तिः, ततश्च 'विनायकं प्रकुर्वाणो रचयामास वानर मिति न्यायाऽऽपात इति चेत् ?
न, सम्यग् लक्षणपरिज्ञानाभावात्, सम्यग्दृष्टिरपि योऽकृतपरलोकमार्गः स एव दुःखं वसति, तत्त्वादेव । न चैवं श्रावकाणामपि दुःखानुपपत्तिः, तेषां तत्त्वविरहादिति वाच्यम, विरहासिद्धेः, अल्पत्वात, काकिणीमात्रेण धनवत्त्वाभाववत, न चाल्पत्वमसिद्धमिति वाच्यम्, सर्वजघन्यसंयमस्थानवतिमुन्यपेक्षयोत्कृष्टश्रावकस्याऽपि देशविरतिविशुद्धिस्थानस्याऽनन्तगुणहीनत्वात्, तदुक्तं पिण्डनियुक्तिवृत्तौ - ‘इह सर्वोत्कृष्टादपि देशविरतिविशुद्धिस्थानाज्जघन्यमपि सर्वविरतिगुणस्थानमनन्तगुण'- मिति ।।पृ.३९ ।। तथोक्तमुत्तराध्ययनेषु- ‘गारत्थेहि य सव्वेहिं, साहवो संजमुत्तरा'-त्ति ।।५-३०।। युक्तं चैतत्, महारम्भादिपरित्यागिनोऽपि गृहिणो भोजनाद्यर्थं षट्कायविराधनायाः प्रतिदिनं सम्भवात्, परिणामविशुद्धेश्च प्रायः प्रवृत्त्यनुपातित्वात्, ततश्च प्रागुक्तनीत्या धर्माभावेनाकृतपरलोकमार्गत्वसिद्धिः, उक्तं च - 'क्व गृहस्थाश्रमे धर्मो, यत्राऽप्यारम्भभीरुभिः । एकोदरार्थं षड़जीवा, विराध्यन्ते दिने दिने ।।' इति युगादिदेशनायाम् । अत एव श्रावका अनवरतमभिलषन्ति यतिधर्ममत्यन्तम, तद्रूपत्वात् श्रावकधर्मस्य, उक्तं च 'श्रावकधर्मोऽणुव्रतायुपासकप्रतिमागतक्रियासाध्यः साधुधर्माभिलाषातिशयरूप आत्मपरिणाम' इति ललितविस्तरायाम् । इत्थं च तेषामपि दुःखं निवसनं सिद्धम् ।
यतीनां तु तदभावः तत्त्वाभावात् । निश्चयतस्तु तेषां जीवन्मुक्तत्वाच्च, मदमदनादिजयसिद्धेस्तत्सिद्धिसिद्धेः, उक्तं च- 'निर्जितमदमदनानां वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्षः सुविहिताना मिति प्रशमरतौ ।।२३।। ततश्च भवचारकत्यागेच्छाऽपि न, मुक्तत्वादेव, सिद्धस्याऽसाध्यत्वात, सर्वत्र स्पृहाभावाच्च तदुक्तम् - 'मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तम' - इति ।
सम्यक्त्वसर्वस्वम्