________________
चतुर्थो भानुः
दर्शनाचारः
११५
षट्कायजीवनिकरे परमानुकम्प ! .
ષકાયના જીવોમાં અનુપમ અનુકંપા.. સમ્યમ્ सत्सूक्ष्मसंयमविधौ प्रवरप्रवीण ! । સૂક્ષ્મ સંચમવિધિમાં ઉત્તમ પ્રવીણતા ધરાવનારા... एकान्तवत्सले ! महायतनावतंस !
એકાંત વત્સલ.. મહાચતનાથી શોભતા ગુરુ भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।२१।। नुवनलानु ! हुं आपने माथी म छु. ||२१||
-सङ्घहितम्१. साधर्मिकादाविति प्रकरणगम्यम् ।
~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ नन्वेवं गतं निर्वेदेन, तल्लक्षितसम्यक्त्वेन च, सुखनिर्वेदयोर्विरोधात् । सहावस्थानासम्भवात्, जलानलवदिति चेत् ? न, विरोधविरहात्, कथञ्चित् तस्यापि सुखहेतुभावात्, तदुक्तं परैरपि - ‘अदः शान्तं स्वान्तं सपदि यदि निर्वेदपदवीं, भजत्यभ्यासोऽयं, जनयति सुखं भावविमुख मिति राघवदेवसुभाषिते । साक्षात्तददर्शनेऽपि तत्फलभूतसुखेन तदभावस्याऽपास्तत्वात्, भवत्यागत- स्तद्योगात्, उक्तं च ‘स्वयं त्यक्तास्त्वेते शमसुखमनन्तं विदधाती ति भर्तृहरिकृतवैराग्यशतके ।।१६।। इत्यतिसूक्ष्मेक्षिकया गम्यमेतत् । एतेन 'निर्विण्णः शुचमेतीति मृच्छकटिकवचनैकान्तो निरस्तः ।
निर्वेदो नाम विश्वविषयविरागविबुधविटपिबीजम्, तत्प्रसादेन तद्भावादारम्भत्यागः, प्रायो विषयासक्तिनिबन्धनत्वादारम्भाणाम्, तत्त्यागे ध्रुवः संसारमार्गव्युच्छेदः, ततश्च सिद्धिमार्गप्रतिपत्तिः, तत्त्वतस्तद्रूपत्वात्तस्याः । नैतत् स्वमनीषिकयैवोच्यते, उपनिबन्धनमप्यस्यार्षम् - 'निव्वेएणं भंते ! जीवे किं जणयइ ? निव्वेएणं दिव्वमाणुसतेरिच्छिएसु कामभोगेसु निव्वेयं हव्वमागच्छइ, सव्वविसएसु विरज्जइ, सव्वविसएसु विरज्जमाणे आरंभपरिच्चायं करेइ, आरंभपरिच्चायं करेमाणे संसारमग्गं वोच्छिंदइ, सिद्धिमग्गपडिवन्ने य हवइ' त्ति उत्तराध्ययनेषु ।।२९-२।।
___ अतोऽवश्यं यतितव्यमत्र, तदन्तरेण मोक्षोद्देशयत्नायोगात्, भवप्रतिबद्धत्वात्, तदभावस्य तत्फलाभावकारणत्वात् । ननु तत्प्रतिबद्धस्याऽपि कस्यचित् तद्यत्नो दृश्यत इति चेत् ? न, परमार्थतस्तस्याऽयत्नत्वात्, निर्जीवक्रियातुल्यत्वात् । उक्तं च- 'न ह्यतोऽनिर्विण्णो मोक्षाय यतते, अनिर्विण्णस्य तत्प्रतिबन्धात्, तत्प्रतिबद्धयत्नस्य च तत्त्वतोऽयत्नत्वात्, निर्जीवक्रियातुल्य एष'- इति ललितविस्तरायाम् ।। प्रणिधानसूत्रव्याख्या ।।
नन् यत्नभावेऽपि कथमयत्नत्वमिति चेत ? फलाभावात, तदकुर्वतोऽसत्त्वात, फलाभावोऽपि तदभिसन्धिविरहात, फलस्य तदायत्तत्वात्, तस्यैव मुख्यत्वात्, कृषौ जलवत्, उक्तं च - ‘अभिसन्धेः फलं भिन्नमनुष्ठाने समेऽपि हि। परमोऽतः स एवेह वारीव कृषिकर्मणी' - ति योगदृष्टिसमुच्चये ।।११८ ।। तथा 'निश्चयेन पुनर्भावः, केवल: फलभेदकृत् ।।' इति द्वात्रिंशदद्वात्रिंशिकायाम् ।।१-७।। इत्यलमतिपल्लवितेन ।
तुर्यलक्षणमनुकम्पाऽभिख्यम् । तद्युतो भीमसंसारसागरे दुःखार्तजन्तुगणं दृष्ट्वा तेषु यथासामर्थ्यं द्रव्येतरोभयथाऽप्यनुकम्पां करोति । उक्तं च - 'दुहिए दयानुकम्पा' त्ति सम्यक्त्वसप्ततौ ।।४५।। तथा - " पाणिनिवहं भीमे भवसागरम्मि दुक्खत्तं अविसेसओऽणुकंपं, दुहा वि सामत्थओ कुणइत्ति आवश्यकसूत्रे ।।१-५८ ।।
इयमेव कारिका दर्शनशुद्धिः, प्रवचनसारोद्धारवृत्तिः, श्रावकधर्मप्रज्ञप्तिः, संथारगपयन्ना, विंशतिविशिकेत्यादावपि वर्तते, एवमन्यकारिकास्वपि यथायोगं दृष्टव्यम् ।
उक्तं च धर्मसङ्ग्रहे - ‘अनुकम्पा कृपा । यथा सर्व एव सत्त्वाः सुखार्थिनो दुःखप्रहाणार्थिनश्च, ततो नैषामल्पाऽपि पीडा मया कार्येति ।' इति, तथा 'अनुकम्पा दुःखितेष्वपक्षपातेन दुःखप्रहाणेच्छा सम्यक्त्वलिङ्गम्, सा चानुकम्पा द्रव्यतो भावतश्चेति द्विधा । द्रव्यत: सत्यां शक्तौ दुःखप्रतीकारेण, भावतश्चाईहृदयत्वेने ति ।। द्वितीयोऽधिकारः ।। आह च पञ्चाध्यायीकारः - ‘अनुकम्पा कृपा ज्ञेया सर्वसत्त्वेष्वनुग्रह' इति ।।२-४४६।।
नन्वत्र कारिकायामविशेषेणेत्युक्तम्, तत्किमर्थम् ?, अन्यथाऽपि तत्सम्भवदर्शनादिति चेत् ? न, अन्यथा पक्षपातप्रभवत्वात्, तस्याश्च व्याघ्रादीनामप्यपत्यादौ सम्भवादतिव्याप्त्यापत्तेः, न च तल्लक्षणयोगात् तेषामपि लक्ष्यत्वादतिव्याप्तिविरह इति वाच्यम्,
सम्यक्त्वसर्वस्वम्