________________
भुवनभानवीयमहाकाव्ये
આસ્તિયની પ્રભાથી સૂર્ય સમા.. એક માત્ર પરલોકની (શ્રદ્ધાથી) દૃષ્ટિ હોવાથી કીર્તિથી પરાşખ.. વિશ્વમાં આસ્તિક્યની જ્યોત જગાવનારા.. જાણે સાક્ષાત્ જિનવચન હોય.. એવા ગુરુ ભુવનભાનુ ! હું આપને ભાવથી ભજું છું. ૨૨॥ न्यायविशारदम्
तत्त्वतस्तस्या अनुकम्पाभावाऽभावात्, तदुक्तम् - 'पक्षपातेन तु करुणा पुत्रादी व्याघ्रादीनामप्यस्त्येवेति न तादृश्याः कृपायास्तत्त्वमिति धर्मसङ्ग्रहे ।। द्वितीयोऽधिकारः ।
११६
दर्शनाचारः
आस्तिक्यदीधितिसुदीधितिकृद् यथाऽसि !, कीर्तीच्छया रहितहृद् ! परलोकदृष्टे ! | विश्वास्तिकत्वजनक ! प्रभुशब्द ! साक्षाद्, भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।। २२ ।।
अनुकम्पाविरहितस्य तु सम्यक्त्वाऽसम्भवः, तपस्विप्रमुखप्रत्यनीकत्वापत्तेः, तदुक्तम् - 'अणुकंपं पमुच्च तओ पडिणीया पण्णत्ता । तं जहा तवस्सिपडिणीए गिलाणपडिणीए सेहपडिणीए 'त्ति स्थानाङ्गसूत्रे ।।१०।।
पञ्चमलक्षणमास्तिक्यसञ्ज्ञितम् । काङ्क्षादिविरहेण शुभपरिणामपूर्वं जिनप्रज्ञप्तस्यैव निःशङ्कतया सत्यत्वमिति मतिस्वरूपं च तत् । उक्तं च - 'अत्थिक्कं पच्चओ वयणे' त्ति सम्यक्त्वसप्ततौ ।। ४५ ।। तथा 'मन्नइ तमेव सच्चं नीसंकं जं जिणेहिं पण्णत्तं । सुहपरिणामो सव्वं कंखाइविसुत्तियारहिओ' त्ति आवश्यकसूत्रे ।।१-५९।।
उक्तं चाचारसूत्रे - 'तमेव सच्चं नीसंकं जं जिणेहिं पवेइअं ' ति ।।५-५-१६२ ।।
न यस्य वचनं युक्तिमत् तस्यैव ग्रहणं करणीयं इति हि भवदभिमतम् । तदुक्तम् - 'युक्तिमद्वचनं यस्य तस्य कार्य: परिग्रह' इति लोकतत्त्वनिर्णये ।। ३८ ।। ततश्च सूत्रविरोधः, तत्र जिनप्रवेदितस्यैव सत्यत्वेनाभिमतत्वात् । अथ मा भूत् सूत्रविरोध इति युक्त्युपेक्षा क्रियत, तर्हि तत्त्वोपप्लवः प्रसज्यते, युक्तिमन्तरेणैव यत्किञ्चित्सिद्धिप्रसङ्गात्, इत्युभयतः पाशा रज्जूः इति चेत् ?
न, विरोधाभावात्, ननु युक्त्यनुपपन्ने जिनवचने ध्रुवो विरोध इति चेत् ? कस्य सा युक्तिरिति वक्तव्यम्, कस्यचिदेकस्य सर्वस्य वा ? आद्येऽपि सर्वज्ञस्येतरस्य वा ? न प्रथमः, वर्तमानकाल इह तद्विरहात्, नाऽपि द्वितीयः, अविसंवादनियमाभावात्। अथ सर्वसत्त मतम्, तदपि न, अर्वाग्दृशा तद्विज्ञातुमशक्यत्वात्, इतरस्य च विरहात् । न च परैरपि चेत्थं वक्तुं शक्यमिति वाच्यम्, जिनवचनानघत्वस्य प्रागुपपादितत्वात्, (पृ. ६५) उक्तं चान्यत्रापि - ' विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचोवत् । जैनादन्यच्छासनमनृतं भवतीति वैधर्म्य' - मिति पूर्वमहोदधिसमुत्पतितनयप्राभृततरङ्गागमप्रभ्रष्टश्लिष्टार्थकणिकमात्रमन्यतीर्थकरप्रज्ञापनाभ्यतीतगोचरपदार्थसाधनं नयचक्राख्यं सङ्क्षिप्तार्थं गाथासूत्र - मिति द्वादशारनयचक्रे ।
उक्तं च तत्रैव – ‘शेषशासनिवचनानि प्रत्यक्षानुमानविनिश्चेयपदार्थविपर्ययप्रणयनेन अश्रावणशब्दवादिवचनवदाशङ्कामपि सत्यत्वे न जनयितुमलम् । लौकिकव्यवहारोऽपि न यस्मिन्नवतिष्ठते । तत्र साधुत्वविज्ञानं व्यामोहोपनिबन्धनम् ।। लोकप्रत्यक्षादिनिश्चेयेऽपि शेषशासनविसंवदनजनितास्थं च प्रमाणद्वयसंसिद्धिसम्पादितप्रत्ययप्रतिष्ठापितात्यन्तपरोक्षार्थश्रद्धानं जिनशासन' मिति द्वादशारनयचक्रे ।। प्रथमो विध्यरः ।।
अत एवोक्तमन्यत्राऽपि 'शिवमस्तु कुशास्त्राणां वैशेषिकषष्टितन्त्रबौद्धानाम् । येषां दुर्विहितत्वाद् भगवत्यनुरज्यते चेतः।।' इति तस्मादवितथैव जिनोक्तिरित्यवधार्यम्, इतरत्वे बीजाभावात्, तदन्तरेण तदयोगाच्च तदुक्तं एगंतओ, न वितत्ते निमित्तं न चानिमित्तं कज्जं ति पञ्चसूत्रे ।।५-२ ।।
'अवितहा
एवमुपशमादिलक्षणलक्षितः सम्यग्दृष्टिजीवो क्षिप्रमेव संसारावारपारपारगामी भवति, उक्तं च - ' एवंविहपरिणामो सम्मट्ठिी जिणेहिं पन्नतो । एसो य भवसमुदं लंघइ थोवेण कालेण' त्ति आवश्यकसूत्रे ।।१-६०।।
सम्यक्त्व सर्वस्वम्
-