Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 138
________________ भुवनभानवीयमहाकाव्ये આસ્તિયની પ્રભાથી સૂર્ય સમા.. એક માત્ર પરલોકની (શ્રદ્ધાથી) દૃષ્ટિ હોવાથી કીર્તિથી પરાşખ.. વિશ્વમાં આસ્તિક્યની જ્યોત જગાવનારા.. જાણે સાક્ષાત્ જિનવચન હોય.. એવા ગુરુ ભુવનભાનુ ! હું આપને ભાવથી ભજું છું. ૨૨॥ न्यायविशारदम् तत्त्वतस्तस्या अनुकम्पाभावाऽभावात्, तदुक्तम् - 'पक्षपातेन तु करुणा पुत्रादी व्याघ्रादीनामप्यस्त्येवेति न तादृश्याः कृपायास्तत्त्वमिति धर्मसङ्ग्रहे ।। द्वितीयोऽधिकारः । ११६ दर्शनाचारः आस्तिक्यदीधितिसुदीधितिकृद् यथाऽसि !, कीर्तीच्छया रहितहृद् ! परलोकदृष्टे ! | विश्वास्तिकत्वजनक ! प्रभुशब्द ! साक्षाद्, भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।। २२ ।। अनुकम्पाविरहितस्य तु सम्यक्त्वाऽसम्भवः, तपस्विप्रमुखप्रत्यनीकत्वापत्तेः, तदुक्तम् - 'अणुकंपं पमुच्च तओ पडिणीया पण्णत्ता । तं जहा तवस्सिपडिणीए गिलाणपडिणीए सेहपडिणीए 'त्ति स्थानाङ्गसूत्रे ।।१०।। पञ्चमलक्षणमास्तिक्यसञ्ज्ञितम् । काङ्क्षादिविरहेण शुभपरिणामपूर्वं जिनप्रज्ञप्तस्यैव निःशङ्कतया सत्यत्वमिति मतिस्वरूपं च तत् । उक्तं च - 'अत्थिक्कं पच्चओ वयणे' त्ति सम्यक्त्वसप्ततौ ।। ४५ ।। तथा 'मन्नइ तमेव सच्चं नीसंकं जं जिणेहिं पण्णत्तं । सुहपरिणामो सव्वं कंखाइविसुत्तियारहिओ' त्ति आवश्यकसूत्रे ।।१-५९।। उक्तं चाचारसूत्रे - 'तमेव सच्चं नीसंकं जं जिणेहिं पवेइअं ' ति ।।५-५-१६२ ।। न यस्य वचनं युक्तिमत् तस्यैव ग्रहणं करणीयं इति हि भवदभिमतम् । तदुक्तम् - 'युक्तिमद्वचनं यस्य तस्य कार्य: परिग्रह' इति लोकतत्त्वनिर्णये ।। ३८ ।। ततश्च सूत्रविरोधः, तत्र जिनप्रवेदितस्यैव सत्यत्वेनाभिमतत्वात् । अथ मा भूत् सूत्रविरोध इति युक्त्युपेक्षा क्रियत, तर्हि तत्त्वोपप्लवः प्रसज्यते, युक्तिमन्तरेणैव यत्किञ्चित्सिद्धिप्रसङ्गात्, इत्युभयतः पाशा रज्जूः इति चेत् ? न, विरोधाभावात्, ननु युक्त्यनुपपन्ने जिनवचने ध्रुवो विरोध इति चेत् ? कस्य सा युक्तिरिति वक्तव्यम्, कस्यचिदेकस्य सर्वस्य वा ? आद्येऽपि सर्वज्ञस्येतरस्य वा ? न प्रथमः, वर्तमानकाल इह तद्विरहात्, नाऽपि द्वितीयः, अविसंवादनियमाभावात्। अथ सर्वसत्त मतम्, तदपि न, अर्वाग्दृशा तद्विज्ञातुमशक्यत्वात्, इतरस्य च विरहात् । न च परैरपि चेत्थं वक्तुं शक्यमिति वाच्यम्, जिनवचनानघत्वस्य प्रागुपपादितत्वात्, (पृ. ६५) उक्तं चान्यत्रापि - ' विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचोवत् । जैनादन्यच्छासनमनृतं भवतीति वैधर्म्य' - मिति पूर्वमहोदधिसमुत्पतितनयप्राभृततरङ्गागमप्रभ्रष्टश्लिष्टार्थकणिकमात्रमन्यतीर्थकरप्रज्ञापनाभ्यतीतगोचरपदार्थसाधनं नयचक्राख्यं सङ्क्षिप्तार्थं गाथासूत्र - मिति द्वादशारनयचक्रे । उक्तं च तत्रैव – ‘शेषशासनिवचनानि प्रत्यक्षानुमानविनिश्चेयपदार्थविपर्ययप्रणयनेन अश्रावणशब्दवादिवचनवदाशङ्कामपि सत्यत्वे न जनयितुमलम् । लौकिकव्यवहारोऽपि न यस्मिन्नवतिष्ठते । तत्र साधुत्वविज्ञानं व्यामोहोपनिबन्धनम् ।। लोकप्रत्यक्षादिनिश्चेयेऽपि शेषशासनविसंवदनजनितास्थं च प्रमाणद्वयसंसिद्धिसम्पादितप्रत्ययप्रतिष्ठापितात्यन्तपरोक्षार्थश्रद्धानं जिनशासन' मिति द्वादशारनयचक्रे ।। प्रथमो विध्यरः ।। अत एवोक्तमन्यत्राऽपि 'शिवमस्तु कुशास्त्राणां वैशेषिकषष्टितन्त्रबौद्धानाम् । येषां दुर्विहितत्वाद् भगवत्यनुरज्यते चेतः।।' इति तस्मादवितथैव जिनोक्तिरित्यवधार्यम्, इतरत्वे बीजाभावात्, तदन्तरेण तदयोगाच्च तदुक्तं एगंतओ, न वितत्ते निमित्तं न चानिमित्तं कज्जं ति पञ्चसूत्रे ।।५-२ ।। 'अवितहा एवमुपशमादिलक्षणलक्षितः सम्यग्दृष्टिजीवो क्षिप्रमेव संसारावारपारपारगामी भवति, उक्तं च - ' एवंविहपरिणामो सम्मट्ठिी जिणेहिं पन्नतो । एसो य भवसमुदं लंघइ थोवेण कालेण' त्ति आवश्यकसूत्रे ।।१-६०।। सम्यक्त्व सर्वस्वम् -

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252