Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 185
________________ पञ्चमो भानुः भुवनभानुभक्तामरम् १६३ मायाभुजि मनसिजज्वलनं रुडौर्वं, भाया.. वासना.. झोध... मभिमान.. SGE... दर्पस्वनि कलहहेतिमधर्मवह्निम् । मधर्म... लोन.. पाप मा सर्व मग्निमोने लोभाहिकान्तसुहृदं किल पापपीथं, આપના નામકીર્તન રૂપી જળ શાંત કરી દે છે. त्वन्नामकीर्तनजलं शमयत्यशेषम् ।।३८॥ (પ્રયોગ કરો અને પરચો જુઓ- નમો નમઃ શ્રીભુવન लानुसूरये- १०८ पार) ||3|| -सङ्घहितम् १. मनि २. महेव ३. डोध ४. वडवान ५. मकिन ६. मनि ७. वायु नो भित्र छेते - मनि ८. मनि ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ ज्ञानस्य चिन्तामणिकल्पत्वात् तदबाधनयत्नस्य चिन्तामणिक्षेपतुल्यत्वम, उक्तं च - तदद्वैतश्रुतेस्तावद् बाधः प्रत्यक्षतः क्षतः । नानुमानादि तं कर्तुं तवाऽपि क्षमते मते ।। धीधना बाधनायास्यास्तदा प्रज्ञा प्रयच्छथ । क्षेप्तुं चिन्तामणिं पाणिलब्धमब्धौ यदीच्छथेति खण्डनखण्डखाद्ये ।।१-२४ ।। तथोक्तम्- 'नेह नानास्ति किञ्चने'-ति नृसिंहोपनिषदि ।।४-४-२९ ।। स्यान्मतम्, 'अर्थक्रियाभेदाद् वस्तुभेद: स्यादिति', तदपि न, दाह-पाकविभागेनापि कृशानोरभेदात्, न च तत्रादृष्टयाऽर्थक्रिययाऽर्थभेदः, यथा चक्षुष्मत्यपि बधिरेऽदृष्टया शब्दबुद्धयेन्द्रियभेद इति चेत् ? नाऽद्वैते किञ्चिदेकत्रादृष्टं नाम । ततश्च तत्रादृष्टार्थक्रियासिद्धौ तद्भेदसिद्धिः सिद्धे च भेदे तत्रादर्शनमितीतरेतराश्रयः । अपि च सन्मात्रे सर्वत्र प्रत्यक्षानिश्चिते तत्र भेदानवकाशः, कालभेदाभावेन सोऽयमित्यवमर्शाभावेऽपि निर्विकल्पकलब्धविधिरूपाबाधात्, अलब्धरूपस्य चानिषेधात्, खपुष्पादिनिषेधेऽपि सिद्धेषु खादिष्वेव पुष्पादीनां निषेधात् । न चैवं प्रत्यक्षेण दृश्यमानानां नानाजीवानामनुपपत्तिरिति वाच्यम्, अद्वैतेऽपि तदुपपत्तेः, जलचन्द्रवत्, तदुक्तम् - 'एकधा बहुधा चैव दृश्यते जलचन्द्रवद् ।' इति स्मृतौ । तथा 'रूपं रूपं प्रति रूपी बभूव' इति श्रुतौ । तदाहुः विवरणाचार्या:- जीवस्त्वज्ञानप्रतिबिम्बितं चैतन्य मिति । उक्तं च 'अज्ञानावच्छिन्नं चैतन्यं जीव' इति भामत्याम् । तथा - 'यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । संकीर्णमिव मात्राभिश्चित्राभिः प्रतिपद्यते । तथेदममलं ब्रह्म निर्विकल्पमविद्यया। कलुषत्वमिवापन्नं भेदरूपं प्रकाशत' इति बृहदारण्यकोपनिषद्भाष्यवार्तिके ।।३-५-४३/४४ ।। तथोक्तमन्यत्रापि - 'प्रपञ्चो यदि विद्येत निवर्तेत न संशयः। मायामात्रमिदं द्वैतमद्वैतं परमार्थतः।।' इति माध्यमिककारिकायाम् ।।१-१७।।। नन्वेवं लोकव्यवहारोच्छेदापत्ति: अद्वैताभ्युपगमेन प्रतिनियतवस्तुग्रहणादियत्नानुपपत्तेः । तदुक्तम् – 'अनलार्थ्यनलं पश्यन्नपि न तिष्ठेत् नाऽपि प्रतिष्ठे'-तेति । किञ्चैवं वादानुपपत्तिः, प्रतिज्ञाहेत्वोरैक्यात्, अन्यतराभावप्रसङ्गात् , ततश्च कस्य केन साधनं दूषणं वेति चेत् ? न, सिद्धान्तापरिज्ञानात्, त्रिविधं ह्यस्माकं सत्त्वमिष्टम्, परमार्थसत्त्वं ब्रह्मणः, अर्थक्रियासामर्थ्य सत्त्वं मायोपधिकमाकाशादेः, अविद्योपाधिकं सत्त्वं रजतादेरित्युक्तं पञ्चपादिकाविवरणे ।।पृ.३१ ।। इत्थं च सर्वमनाविलम् । ततश्च ब्रह्मज्ञान एव यतितव्यम्, तस्यैव मुक्त्युपायत्वात्, उक्तं च - 'तमेव विदित्वाऽतिमृत्युमेती-ति वाजसनेयसंहितायाम् ।।३-१-१८ ।। तथा 'तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते। योगी मायाप्रमेयाय तस्मै ज्ञानात्मने नमः ।।' इति प्रश्नोपनिषदि ।।६८।। एतेनाऽप्यस्य मुक्तिप्रापकत्वमुक्तम, अविद्योत्तारस्य तत्त्वात् । नन्वेवमद्वैते बन्धमोक्षयोरेवानुपपत्तिरिति चेत् ? सत्यम, तदभिधानं तु गौणम्, वस्तुतस्तदभावात्, तदुक्तं भागवते - 'बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः। गुणस्य मायामूलत्वान्न मे मोक्षो न बन्धन'-मिति ।।११-११-१।। अत एवोक्तं पञ्चदश्याम् - 'आदौ मनस्तदनु बन्धविमोक्षदृष्टी, पश्चात्प्रपञ्चरचना भुवनाभिधाना। इत्यादिका स्थितिरियं हि गता प्रतिष्ठामाख्यायिका सुभगबालजनोदितेवेति ।।१३-२१ ।। उक्तं च गरिकायाम् – 'न बद्धो ० न वै मुक्त इत्येषा परमार्थते'ति ।।२-३२।। एतेन स्वप्रकाशसुखात्मकब्रह्मणो नित्यत्वेन प्रस्तुतनरर्थ्यनिरास: - अद्वैतमीमांसा

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252