________________
पञ्चमो भानुः
भुवनभानुभक्तामरम्
१६३
मायाभुजि मनसिजज्वलनं रुडौर्वं,
भाया.. वासना.. झोध... मभिमान.. SGE... दर्पस्वनि कलहहेतिमधर्मवह्निम् ।
मधर्म... लोन.. पाप मा सर्व मग्निमोने लोभाहिकान्तसुहृदं किल पापपीथं, આપના નામકીર્તન રૂપી જળ શાંત કરી દે છે. त्वन्नामकीर्तनजलं शमयत्यशेषम् ।।३८॥
(પ્રયોગ કરો અને પરચો જુઓ- નમો નમઃ શ્રીભુવન
लानुसूरये- १०८ पार) ||3||
-सङ्घहितम् १. मनि २. महेव ३. डोध ४. वडवान ५. मकिन ६. मनि ७. वायु नो भित्र छेते - मनि ८. मनि ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ ज्ञानस्य चिन्तामणिकल्पत्वात् तदबाधनयत्नस्य चिन्तामणिक्षेपतुल्यत्वम, उक्तं च - तदद्वैतश्रुतेस्तावद् बाधः प्रत्यक्षतः क्षतः । नानुमानादि तं कर्तुं तवाऽपि क्षमते मते ।। धीधना बाधनायास्यास्तदा प्रज्ञा प्रयच्छथ । क्षेप्तुं चिन्तामणिं पाणिलब्धमब्धौ यदीच्छथेति खण्डनखण्डखाद्ये ।।१-२४ ।। तथोक्तम्- 'नेह नानास्ति किञ्चने'-ति नृसिंहोपनिषदि ।।४-४-२९ ।।
स्यान्मतम्, 'अर्थक्रियाभेदाद् वस्तुभेद: स्यादिति', तदपि न, दाह-पाकविभागेनापि कृशानोरभेदात्, न च तत्रादृष्टयाऽर्थक्रिययाऽर्थभेदः, यथा चक्षुष्मत्यपि बधिरेऽदृष्टया शब्दबुद्धयेन्द्रियभेद इति चेत् ? नाऽद्वैते किञ्चिदेकत्रादृष्टं नाम । ततश्च तत्रादृष्टार्थक्रियासिद्धौ तद्भेदसिद्धिः सिद्धे च भेदे तत्रादर्शनमितीतरेतराश्रयः । अपि च सन्मात्रे सर्वत्र प्रत्यक्षानिश्चिते तत्र भेदानवकाशः, कालभेदाभावेन सोऽयमित्यवमर्शाभावेऽपि निर्विकल्पकलब्धविधिरूपाबाधात्, अलब्धरूपस्य चानिषेधात्, खपुष्पादिनिषेधेऽपि सिद्धेषु खादिष्वेव पुष्पादीनां निषेधात् ।
न चैवं प्रत्यक्षेण दृश्यमानानां नानाजीवानामनुपपत्तिरिति वाच्यम्, अद्वैतेऽपि तदुपपत्तेः, जलचन्द्रवत्, तदुक्तम् - 'एकधा बहुधा चैव दृश्यते जलचन्द्रवद् ।' इति स्मृतौ । तथा 'रूपं रूपं प्रति रूपी बभूव' इति श्रुतौ । तदाहुः विवरणाचार्या:- जीवस्त्वज्ञानप्रतिबिम्बितं चैतन्य मिति । उक्तं च 'अज्ञानावच्छिन्नं चैतन्यं जीव' इति भामत्याम् । तथा - 'यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । संकीर्णमिव मात्राभिश्चित्राभिः प्रतिपद्यते । तथेदममलं ब्रह्म निर्विकल्पमविद्यया। कलुषत्वमिवापन्नं भेदरूपं प्रकाशत' इति बृहदारण्यकोपनिषद्भाष्यवार्तिके ।।३-५-४३/४४ ।। तथोक्तमन्यत्रापि - 'प्रपञ्चो यदि विद्येत निवर्तेत न संशयः। मायामात्रमिदं द्वैतमद्वैतं परमार्थतः।।' इति माध्यमिककारिकायाम् ।।१-१७।।।
नन्वेवं लोकव्यवहारोच्छेदापत्ति: अद्वैताभ्युपगमेन प्रतिनियतवस्तुग्रहणादियत्नानुपपत्तेः । तदुक्तम् – 'अनलार्थ्यनलं पश्यन्नपि न तिष्ठेत् नाऽपि प्रतिष्ठे'-तेति । किञ्चैवं वादानुपपत्तिः, प्रतिज्ञाहेत्वोरैक्यात्, अन्यतराभावप्रसङ्गात् , ततश्च कस्य केन साधनं दूषणं वेति चेत् ? न, सिद्धान्तापरिज्ञानात्, त्रिविधं ह्यस्माकं सत्त्वमिष्टम्, परमार्थसत्त्वं ब्रह्मणः, अर्थक्रियासामर्थ्य सत्त्वं मायोपधिकमाकाशादेः, अविद्योपाधिकं सत्त्वं रजतादेरित्युक्तं पञ्चपादिकाविवरणे ।।पृ.३१ ।। इत्थं च सर्वमनाविलम् । ततश्च ब्रह्मज्ञान एव यतितव्यम्, तस्यैव मुक्त्युपायत्वात्, उक्तं च - 'तमेव विदित्वाऽतिमृत्युमेती-ति वाजसनेयसंहितायाम् ।।३-१-१८ ।। तथा 'तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते। योगी मायाप्रमेयाय तस्मै ज्ञानात्मने नमः ।।' इति प्रश्नोपनिषदि ।।६८।। एतेनाऽप्यस्य मुक्तिप्रापकत्वमुक्तम, अविद्योत्तारस्य तत्त्वात् । नन्वेवमद्वैते बन्धमोक्षयोरेवानुपपत्तिरिति चेत् ? सत्यम, तदभिधानं तु गौणम्, वस्तुतस्तदभावात्, तदुक्तं भागवते - 'बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः। गुणस्य मायामूलत्वान्न मे मोक्षो न बन्धन'-मिति ।।११-११-१।। अत एवोक्तं पञ्चदश्याम् - 'आदौ मनस्तदनु बन्धविमोक्षदृष्टी, पश्चात्प्रपञ्चरचना भुवनाभिधाना। इत्यादिका स्थितिरियं हि गता प्रतिष्ठामाख्यायिका सुभगबालजनोदितेवेति ।।१३-२१ ।। उक्तं च गरिकायाम् – 'न बद्धो ० न वै मुक्त इत्येषा परमार्थते'ति ।।२-३२।। एतेन स्वप्रकाशसुखात्मकब्रह्मणो नित्यत्वेन
प्रस्तुतनरर्थ्यनिरास: - अद्वैतमीमांसा