________________
भुवनभानवीयमहाकाव्ये
હે વશી (મુનિ)ઓના મહાનાથ ! દુર્વાર એવી डामनी वशता, विघ्न३ची वाहणासोनी श्रेणि, रोगोઉપસર્ગોના ફોજ, ઉપદ્રવોની શ્રેણિ આ સર્વ સૂર્ય સમા આપના કીર્તનથી અંધકારની જેમ તરત જ नाश पामे छे. ॥3Gll
-सङ्घहितम्
१. महेव २. मेघमाला ३. वाहणारी ४. इनः = सूर्य: न्यायविशारदम्
१६४
भुवनभानुभक्तामरम्
दुर्वारमारंवशता वशिनां वरेश ! कादम्बिनी जगति विघ्नतडित्वतां च । रोगोपसर्गभयभीतिततिस्त्विनाभात्, त्वत्कीर्तनात् तम इवाशु भिदामुपैति ।।३९।।
मुक्तसंसारिणोरविशेषप्रसङ्गादित्यादि तत्त्वचिन्तामणिवचोऽपास्तम् (पृ.२०७१) । तस्माद् भवदुपकल्पितसंसाररात्रिचरादिकूटविभावनं विमुच्य ब्रह्मज्ञान एव यतितव्यम्, न चैवमपि तद् भविष्यतीति वाच्यम्, मनोरथमात्रत्वात्, वेदान्तशास्त्रोपदिष्टमार्गानुसरणमन्तरेण तस्याऽसम्भवात्, चक्षुरादेरगोचरत्वात्, तदुक्तम् 'न चक्षुषा गृह्यते नापि वाचे'- ति मुण्डकोपनिषदि ।। ३-१-८ ।। तथा, ‘यद्वाचानभ्युदित’-मिति केनोपनिषदि ।। १-४ ।। तथा, 'यतो वाचो निवर्तन्त' - इति तैत्तिरीयोपनिषदि ।।२-४-५ ।। स्यान्मतम्, मनसा तत् स्यात्, तदपि न, 'यन्मनसा न मनुत' इति केनोपनिषदुक्तेः । ।१ - ५ ।। न च वेदमतमन्तरेणाऽपि जिनागमेन तत्सम्भव इति वाच्यम् । तद्विरहात्, तस्य वेदज्ञानाधीनत्वात्, उक्तं च- 'नावेदविन्मनुते तं बृहन्त' -मिति शाट्यायने ।।४।। तथा ‘वेदेनैतद् यद्वेदितव्यमिति बृहदारण्यकोपनिषदि । । ५ -१ ।।
ततश्च नैतच्छ्लोकमात्रं, सकलोऽपि वः प्रबन्धोऽपार्थकः, मुक्तिप्रयोजनविरुद्धश्च द्वैतभावनारूपाविद्यादृढीकरणोपायत्वेन ब्रह्मज्ञानपरिपन्थित्वादिति स्थितम् ।
अत्रोच्यते, अद्वैतसिद्ध्यसम्भवः, द्वैतसिद्धेः । कथमिति चेत् ? विकल्पानुपपत्ते:, तथाहि अविद्या ब्रह्मणः पृथग् वा न वा ? आद्येऽद्वैतजलाञ्जलिः, द्वितीये लोकसिद्धभेदबुद्धेर्निर्हेतुकत्वप्रसङ्गः, तत्कारणविरहात्, सत्त्वेनाभ्युगतस्य ब्रह्मणस्तद्धेतुत्वविरहात्, सर्वपरिच्छेदशून्यवस्तुत्वेन तदभ्युपगमात्, तदुक्तम्- 'बृहतेर्धातोरन्वयानुगमा' - दिति ब्रह्मसूत्रशाङ्करभाष्ये ।।१-१-१ ।। इत्थं च भेदाभासाभावप्रसङ्गध्रौव्यात् किमप्यलौकिकं महाद्भुतं भवन्मतरहस्यम् । तदुक्तम् 'अत्राऽप्यन्ये वदन्त्येवं अविद्या न सतः पृथक्। तच्च तन्मात्रमेवेति भेदाभासोऽनिबन्धन' इति शास्त्रवार्तासमुच्चये ।।८-४ ।। ननु नैष दोषः, भेदस्याभावादेव, खपुष्पग्रहणवत् कल्पनामात्रत्वात्, तथाहि- देशकालभेदग्रहणमसदध्यारोपकात्मकम्, देशकालभेदाऽभावात्, खपुष्पवत्, अभेद एव तु गृह्यते प्रत्यक्षतः, भावस्याऽभिन्नत्वात्, गृह्यमाणस्य च भावत्वादिति चेत् ? तर्ह्यस्तु तावत् सर्वजनप्रतीतिविरोधः, स्ववाग्विरोधो वा । ननु विकल्पारूढ एव भेदो व्यवहाराङ्गम्, नानुभवारूढ इति चेत् ? सोऽपि सत्योऽसत्यो वेति दुरुत्तरा विकल्पाः ।
किञ्चाद्वैतसिद्धौ प्रमाणमस्ति न वा ? आद्ये प्रमेयव्यतिरिक्तप्रमाणभावाद् द्वैतसिद्धिः, द्वितीयेऽद्वैतासिद्धि:, प्रमाणाधीनत्वात्तस्याः, उक्तं च, ‘प्रमाणाधीना हि प्रमेयव्यवस्थे 'ति श्लोकवार्त्तिके । तदुक्तम् - 'भावेऽपि च प्रमाणस्य प्रमेयव्यतिरेकतः । ननु नाद्वैतमेवेति तदभावेऽप्रमाणक' मिति शास्त्रवार्तासमुच्चये ।।८-६ ।। तदुक्तमाप्तमीमांसायाम्- 'हेतोरद्वैतसिद्धिश्चेद् द्वैतं स्यात् हेतुसाध्ययोः । हेतुना चेद् विना सिद्धिर्द्वैतं वाङ्मात्रतो न किम् ? ।। इति ।। २ - २६ ।। ननूक्तैवास्माभिरर्थक्रियासमर्थव्यावहारिकसत्त्वेन तदुपपत्तिः, परमार्थतस्त्वखण्डमेव सदिति चेत् ? न तस्याविद्योपाधिकत्वेनेष्टत्वात्, इत्थं चाविद्याया अपि परमार्थसत्त्वे द्वैतहानिः, परमार्थासत्त्वे व्यवहारानुपपत्तिः, कूर्मरोम्णो व्यवहारानङ्गत्वात् । उक्तं चान्ययोगव्यवच्छेदद्वात्रिंशिकायाम् - 'माया सती चेद् द्वयतत्त्वसिद्धि - रथाऽसती हन्त ! कुतः प्रपञ्चः ? | मायैव चेदर्थसहा च तत्किं, माता च वन्ध्या च भवत्परेषा'-मिति । तस्मात् विद्याऽविद्यादिभेदाभ्युपगमेन स्वशास्त्रेणैव तद्बाधः । तथाहि 'विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुत' इति ईशोपनिषदि ।। ११ ।। अत्र विद्याऽविद्ययोरमृताप्तिमृत्युतरणफलयोः स्फुटमेवोक्तो प्रस्तुतनैरर्थ्यानिरास: अद्वैतमीमांसा