________________
१६५
पञ्चमो भानुः
- भुवनभानुभक्तामरम् त्वत्सङ्गमाच्च परिसृज्य भवाभिभाव- આપના સંગમથી સંસારકૃત વિભાવચેષ્ટાને
भावं च भव्यसमुदाय उपैति साम्यम् । छोडीने भव्यजपो समताने पामे छ. सुधारसना पानात् सुधाशर्रभरेस्य भवेऽपि किं न, સમૂહના પાનથી લોકમાં પણ શું મનુષ્યો કામદેવ मा भवन्ति मकरध्वजतुल्यरूपाः ? ॥४०॥ वा ३५वान नथी थdi ? ||४||
-सङ्घहितम्१. १७ २. समूह ३. जामहेव * मभिभाव-विभाव, भाव = येष्टा. भावः पदार्थचेष्टात्मजन्मेत्याधुक्तेः । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ भेदः, स चाद्वैतेन विरुध्यते। उक्तं च- 'विद्याऽविद्यादि भेदाच्च, स्वतन्त्रेणैव बाध्यते। तत्संशयादियोगाच्च, प्रतीत्या च विचिन्त्यता मिति शास्त्रवार्तासमुच्चये ।।८-७ ।। ननु तदुर्घटत्वं नो भूषणम्, अन्यथा तत्त्वाऽयोगात्, उक्तं च - ‘दुर्घटत्वमविद्याया भूषणं न तु दूषणम्, कथञ्चिद्धटमानत्वे-ऽविद्यात्वं दुर्घटं भवेदितीष्टसिद्धाविति चेत् ? न, विहितोत्तरत्वात् । तथा ध्रुवोऽत्र संशयः, यथा 'किमत्रोक्तार्थेन 'तत्त्वमसि' [छान्दोग्योपनिषदि ।।६-८-१६।।] इत्याधुक्ताद्वैताबाधः, उत विद्याऽविद्यापदार्थाभ्यां ज्ञानकर्मभ्यामतिरिक्तमुक्तिसाधनत्वबोधात तबाधा ?' इति । एवं 'द्वे ब्रह्मणी वेदितव्ये परं चापरं च' इत्याधुक्तो भेदः सत्यः, उत प्रागुक्तोऽभेदः ? इति संशयः । तथा, ‘परं चापरं च ब्रह्म यदोंकार' इत्याधुक्तं शब्दब्रह्माद्वैतम्, प्रागुक्तं निर्गुणब्रह्माद्वयं वा ? इत्यपि ।
किञ्च अनाकलितनयानां परेषां न क्वापि निश्चायिका श्रुतिः, तत्र तत्र प्रदेशे विरुद्धार्थाभिधानात्, नानासम्प्रदायाभिप्रायव्याकुलतयैकव्याख्यानाऽव्यवस्थितेश्च ।, तथाऽविगानेन घटादिभावानुभवेन प्रतीत्याऽपि तत्सिद्धिरित्युक्तम् ।
किञ्च, भवत्प्रतिपादिताद्वैतप्रतिपादकागमोऽपि द्वैतविषयत्वात् भेदप्रसाधकः, न हि वाच्यवाचकप्रतिपाद्यप्रतिपादकानां मध्येऽ-न्यतमस्याऽप्यपाये प्रमाणभूतागमसत्तोपपद्यत इति सूक्तं न्यायकुमुदचन्द्रे ।।पृ.१५५ ।। उपलक्षणमेतत्, तेन कर्मादिद्वैतान्यपि चाद्वैत-विरुद्धानि बोध्यानि। यदक्तम - 'कर्मद्वैतं फलद्वैतं लोकद्वैतं विरुध्यते । विद्याऽविद्याद्वयं न स्याद बन्धमोक्षद्वयं तथे'त्याप्तमीमांसायाम् ।।२-२६।।
न च सर्वत्र सत्ताग्रहणेनैवाद्वैतसिद्धिरित्यपि युक्तम्, विशेषावगत्यनुपपत्तेः, तदुपपत्त्यै भेदप्रतिपत्तौ तु सुव्यवस्थितमद्वैतम् । न च भेदमन्तरेण सत्ताग्रहोऽपि शक्यः, भेदश्च नाविद्यामात्रमेव, तदुक्तम् -
‘सत्ताग्रहणपक्षेऽपि विशेषावगतिः कुतः ?। सा भाति भेदस्पृष्टा चेत् सिद्धमद्वैतदर्शनम् ।।
न च भेदं विना सत्ता ग्रहीतुमपि शक्यते। नाविद्यामात्रमेवेदमिति च स्थापयिष्यत' इति न्यायमञ्जर्याम् ।।पृ.१५०।। किञ्चाद्वैताभ्युपगमे एककृतकर्मणः सर्वेण भोग्यत्वापत्तिः, आत्मन एकत्वात् उक्तं च - एवमेगेत्ति जंप्पंति, मंदा आरंभणिस्सिया । एगे किच्चा सयं पावं, तिव्वं दुक्खं नियच्छइत्ति सूत्रकृताङ्गे ।।१-१-१०।।
अत्र वृत्तिः- 'एकेनाऽपि अशुभे कर्मणि कृते सर्वेषां शुभानुष्ठायिनामपि तीव्रदुःखाभिसम्बन्धः स्याद, एकत्वादात्मन इति, न चैतदेवं दृश्यते, तथाहि- य एव कश्चिदसमञ्जसकारी स एव लोके तदनुरूपा विडम्बनाः समनुभवन्नुपलभ्यते नान्य' इति ।
तथा वामदेवादिमुक्तिवचनोपलम्भादपि द्वैतसिद्धिः, तदुक्तम् - 'वामदेवो मुक्तः शुकदेवो मुक्त' इति महाभारते शान्तिपर्वणि ।।३३३।।, उक्तं च 'वामदेवादिमुक्तौ नाऽद्वैत मिति साङ्ख्यसूत्रे ।।१-१५७।। तस्मादवश्यं नानाऽत्मान अभ्युपगन्तव्याः, ततश्च कुतोऽद्वैतम् ? तदुक्तं वैशेषिकसूत्रे- 'व्यवस्थातो नानात्मान' इति ।
इत्थं द्वैतसिद्धेर्नाद्वैते किञ्चिदेकत्रादृष्टं नामेत्यादिनोक्तेतरेतराश्रयदोषो निरस्तः । अलब्धरूपस्य चानिषेधादित्याद्यप्यसारम्, न वयं सतः प्रतिषेधं कुर्मः, तदभ्युपगमात्, शुद्धद्रव्यास्तिकनयरूपत्वात्, तदुक्तं तत्त्वबोधिन्याम् - 'सर्वमेकं सत्, अविशेषात् इति शुद्धद्रव्यास्तिकाभिप्राय' इति । तथा – ‘सङ्ग्रहो मन्यते वस्तु सामान्यात्मकमेव ही' - ति नयकर्णिकायाम् ।।६।।
प्रस्तुतनैरर्थ्यनिरासः - अद्वैतमीमांसा