________________
१६६
वागीश्वरेण समतामपि चैडमूकाः, श्रीवर्धमानकतपोनिधितां सरोगाः । कर्पूरपूरसमशीलमहो विशीलास्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ।।४१।।
भुवनभानुभक्तामरम्
भुवनभानवीयमहाकाव्ये
હે નાથ ! આપના સ્મરણથી સાવ મૂર્ખ પણ વાચસ્પતિ સમાન બને છે. રોગી-અશક્ત જીવો પણ વર્ધમાનતપોનિધિ બને છે. અને વિશીલ-કુશીલ જીવો પણ (કામદેવના) ભયથી મુક્ત બનીને કપૂરસમૂહ भवन शील पामे छे. ॥४१॥
-
न्यायविशारदम्
तदुक्तं सन्मती - 'दव्वट्ठियनयपयडी शुद्धा संगहपरूवणाविसओ ।।' इति ।।१४।। किं तर्हि विवादनिबन्धनमिति चेत् ? तन्मात्राभ्युपगमेनेतर-निह्नवः, तस्य तन्नयाभासत्वात्, उक्तं च 'सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाणस्तदाभास' इति प्रमाणनयतत्त्वालोके ।।७-१७।। उक्तं च न्यायावतारवृत्तौ 'सङ्ग्रहोऽप्यशेष- विशेषप्रतिक्षेपमुखेन सामान्यमेकं समर्थयमानो दुर्नयः, तदुपेक्षाद्वारेणैव तस्य नयत्वात्, विशेषविकलस्य सामान्यस्यासम्भवादिति । । पृ. ८५ ।।
युक्तं चैतत् तद्विरहिततद्विरहात्, परैरपि तदुक्तम् - 'निर्विशेषं हि सामान्यं भवेत् खरविषाणव' दिति मीमांसा श्लोकवार्तिके । सर्वदर्शनानां नयप्रभवत्वेनैतत्सिद्धम्, त एवेतरापलापविरहितास्तु जिनमतम्, प्राग् विस्तरत उक्तमेवैतत् । शुद्धद्रव्यास्तिकाच्चैतद्दर्शनं जनितम् । तदुक्तम् 'जातं द्रव्यास्तिकाच्छुद्धाद् दर्शनं ब्रह्मवादिना' मिति नयोपदेशे ।। ११० ।।
ननु तत्स्वीकारेऽपि तदस्वीकार इति केयं नीतिरिति चेत् ? स्याद्वादाख्येति गृहाण, सिद्धेयं प्रागनेकान्तसिद्धावत्रैव, न च तच्चातच्चेति व्याहतमिति वाच्यम्, पितृपुत्रवदेकेऽपि तदभावादिति स्मर्तव्यं न पुनः प्रतन्यते । किञ्च भवतामपि 'श्रुतिगम्यात्मतत्त्वं तु नाहंबुद्ध्यावगम्यत' इत्यादिव्यवस्थायामनेकान्त एव शरणम् । अन्यथैकस्मिन् गम्यागम्यत्वायोगात् । युक्तं चैतत्, इत्थमेव व्यवहारनिर्वाहात् प्रयोजनसिद्धेः, अन्यथा तदयोगात् । किं तर्ह्यत्र प्रयोजनमिति चेत् । समभावसिद्धिः, अद्वैतदेशनातस्तद्योगात्, परमार्थतस्तूक्तवदितरसद्भावान्न तत् । भवमोक्षसद्भावात् मोक्षार्थत्वाच्चैतद्यत्नस्य, अन्यथा तु सर्वानुष्ठानवैयर्थ्यमिति निपुणधिया विभावनीयम् । उक्तं च - 'अन्ये व्याख्यानयन्त्येवं समभावप्रसिद्ध्यै । अद्वैतदेशना शास्त्रे निर्दिष्टा न तु तत्त्वतः ।।
न चैतद्, बाध्यते युक्त्या सच्छास्त्रादिव्यवस्थिते: । संसारमोक्षभावाच्च तदर्थं यत्नसिद्धितः ।।
अन्यथा तत्त्वतोऽद्वैते हन्त ! संसारमोक्षयोः । सर्वानुष्ठानवैयर्थ्यमनिष्टं सम्प्रसज्यत' इति शास्त्रवार्तासमुच्चये ।। ८-८,९,१०।। युक्तं चैतत् इत्थमेव श्रुत्यादिसमन्वयसिद्धेस्तद्विरोधाऽयोगात्, अत एवोक्तं साङ्ख्यसूत्रेऽपि न श्रुतिविरोधो, रागिणां वैराग्याय तत्सिद्धे'- रिति । । ६ - ५१ ।। एवं परमात्मतुल्यताप्रतीतो जीवानां तत्त्वाधिगमप्रयाससिद्धिरपि द्रष्टव्या, इत्थमेव तदैक्यतात्पर्यसार्थक्यात्, तदुक्तं वेदान्तसारे- 'विषयो जीवब्रह्मैक्यं शुद्धचैतन्यं प्रमेयम्, तत्रैव वेदान्तानां तात्पर्या'दिति । अत एवास्मन्मतेऽपि तदभिधानम्, तदुक्तं ज्ञानार्णवे - ' यः सिद्धात्मा परः सोऽहं योऽहं स परमेश्वरः । ' इति, तथा शक्रस्तवे- 'यो जिनः सोऽहमेव चे' ति । तथोक्तं कल्याणमन्दिरस्तोत्रेऽपि - 'आत्मा मनीषिभिरयं त्वदभेदबुद्ध्या ध्यात' इत्यादि ।।१७।। ततश्च संसाररात्रिचराद्युक्तिर्युक्तैवोक्तेति स्थितम् । एतेनाखिलप्रबन्धापार्थकत्वाऽऽपादनम पोदितम् ।
इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्य
पंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्यालङ्कारे न्यायविशारदाख्यवार्त्तिके
पञ्चमभानुचिन्तनम्