Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 186
________________ भुवनभानवीयमहाकाव्ये હે વશી (મુનિ)ઓના મહાનાથ ! દુર્વાર એવી डामनी वशता, विघ्न३ची वाहणासोनी श्रेणि, रोगोઉપસર્ગોના ફોજ, ઉપદ્રવોની શ્રેણિ આ સર્વ સૂર્ય સમા આપના કીર્તનથી અંધકારની જેમ તરત જ नाश पामे छे. ॥3Gll -सङ्घहितम् १. महेव २. मेघमाला ३. वाहणारी ४. इनः = सूर्य: न्यायविशारदम् १६४ भुवनभानुभक्तामरम् दुर्वारमारंवशता वशिनां वरेश ! कादम्बिनी जगति विघ्नतडित्वतां च । रोगोपसर्गभयभीतिततिस्त्विनाभात्, त्वत्कीर्तनात् तम इवाशु भिदामुपैति ।।३९।। मुक्तसंसारिणोरविशेषप्रसङ्गादित्यादि तत्त्वचिन्तामणिवचोऽपास्तम् (पृ.२०७१) । तस्माद् भवदुपकल्पितसंसाररात्रिचरादिकूटविभावनं विमुच्य ब्रह्मज्ञान एव यतितव्यम्, न चैवमपि तद् भविष्यतीति वाच्यम्, मनोरथमात्रत्वात्, वेदान्तशास्त्रोपदिष्टमार्गानुसरणमन्तरेण तस्याऽसम्भवात्, चक्षुरादेरगोचरत्वात्, तदुक्तम् 'न चक्षुषा गृह्यते नापि वाचे'- ति मुण्डकोपनिषदि ।। ३-१-८ ।। तथा, ‘यद्वाचानभ्युदित’-मिति केनोपनिषदि ।। १-४ ।। तथा, 'यतो वाचो निवर्तन्त' - इति तैत्तिरीयोपनिषदि ।।२-४-५ ।। स्यान्मतम्, मनसा तत् स्यात्, तदपि न, 'यन्मनसा न मनुत' इति केनोपनिषदुक्तेः । ।१ - ५ ।। न च वेदमतमन्तरेणाऽपि जिनागमेन तत्सम्भव इति वाच्यम् । तद्विरहात्, तस्य वेदज्ञानाधीनत्वात्, उक्तं च- 'नावेदविन्मनुते तं बृहन्त' -मिति शाट्यायने ।।४।। तथा ‘वेदेनैतद् यद्वेदितव्यमिति बृहदारण्यकोपनिषदि । । ५ -१ ।। ततश्च नैतच्छ्लोकमात्रं, सकलोऽपि वः प्रबन्धोऽपार्थकः, मुक्तिप्रयोजनविरुद्धश्च द्वैतभावनारूपाविद्यादृढीकरणोपायत्वेन ब्रह्मज्ञानपरिपन्थित्वादिति स्थितम् । अत्रोच्यते, अद्वैतसिद्ध्यसम्भवः, द्वैतसिद्धेः । कथमिति चेत् ? विकल्पानुपपत्ते:, तथाहि अविद्या ब्रह्मणः पृथग् वा न वा ? आद्येऽद्वैतजलाञ्जलिः, द्वितीये लोकसिद्धभेदबुद्धेर्निर्हेतुकत्वप्रसङ्गः, तत्कारणविरहात्, सत्त्वेनाभ्युगतस्य ब्रह्मणस्तद्धेतुत्वविरहात्, सर्वपरिच्छेदशून्यवस्तुत्वेन तदभ्युपगमात्, तदुक्तम्- 'बृहतेर्धातोरन्वयानुगमा' - दिति ब्रह्मसूत्रशाङ्करभाष्ये ।।१-१-१ ।। इत्थं च भेदाभासाभावप्रसङ्गध्रौव्यात् किमप्यलौकिकं महाद्भुतं भवन्मतरहस्यम् । तदुक्तम् 'अत्राऽप्यन्ये वदन्त्येवं अविद्या न सतः पृथक्। तच्च तन्मात्रमेवेति भेदाभासोऽनिबन्धन' इति शास्त्रवार्तासमुच्चये ।।८-४ ।। ननु नैष दोषः, भेदस्याभावादेव, खपुष्पग्रहणवत् कल्पनामात्रत्वात्, तथाहि- देशकालभेदग्रहणमसदध्यारोपकात्मकम्, देशकालभेदाऽभावात्, खपुष्पवत्, अभेद एव तु गृह्यते प्रत्यक्षतः, भावस्याऽभिन्नत्वात्, गृह्यमाणस्य च भावत्वादिति चेत् ? तर्ह्यस्तु तावत् सर्वजनप्रतीतिविरोधः, स्ववाग्विरोधो वा । ननु विकल्पारूढ एव भेदो व्यवहाराङ्गम्, नानुभवारूढ इति चेत् ? सोऽपि सत्योऽसत्यो वेति दुरुत्तरा विकल्पाः । किञ्चाद्वैतसिद्धौ प्रमाणमस्ति न वा ? आद्ये प्रमेयव्यतिरिक्तप्रमाणभावाद् द्वैतसिद्धिः, द्वितीयेऽद्वैतासिद्धि:, प्रमाणाधीनत्वात्तस्याः, उक्तं च, ‘प्रमाणाधीना हि प्रमेयव्यवस्थे 'ति श्लोकवार्त्तिके । तदुक्तम् - 'भावेऽपि च प्रमाणस्य प्रमेयव्यतिरेकतः । ननु नाद्वैतमेवेति तदभावेऽप्रमाणक' मिति शास्त्रवार्तासमुच्चये ।।८-६ ।। तदुक्तमाप्तमीमांसायाम्- 'हेतोरद्वैतसिद्धिश्चेद् द्वैतं स्यात् हेतुसाध्ययोः । हेतुना चेद् विना सिद्धिर्द्वैतं वाङ्मात्रतो न किम् ? ।। इति ।। २ - २६ ।। ननूक्तैवास्माभिरर्थक्रियासमर्थव्यावहारिकसत्त्वेन तदुपपत्तिः, परमार्थतस्त्वखण्डमेव सदिति चेत् ? न तस्याविद्योपाधिकत्वेनेष्टत्वात्, इत्थं चाविद्याया अपि परमार्थसत्त्वे द्वैतहानिः, परमार्थासत्त्वे व्यवहारानुपपत्तिः, कूर्मरोम्णो व्यवहारानङ्गत्वात् । उक्तं चान्ययोगव्यवच्छेदद्वात्रिंशिकायाम् - 'माया सती चेद् द्वयतत्त्वसिद्धि - रथाऽसती हन्त ! कुतः प्रपञ्चः ? | मायैव चेदर्थसहा च तत्किं, माता च वन्ध्या च भवत्परेषा'-मिति । तस्मात् विद्याऽविद्यादिभेदाभ्युपगमेन स्वशास्त्रेणैव तद्बाधः । तथाहि 'विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुत' इति ईशोपनिषदि ।। ११ ।। अत्र विद्याऽविद्ययोरमृताप्तिमृत्युतरणफलयोः स्फुटमेवोक्तो प्रस्तुतनैरर्थ्यानिरास: अद्वैतमीमांसा

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252