Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 170
________________ १४८ भुवनभानुभक्तामरम् भुवनभानवीयमहाकाव्ये ॥ पञ्चमो भानुः ।। ॥ अथ भुवनभानु-भक्तामरम् ॥ || पंयम लानु || ॥ अथ नुवनभानु मताभर || (वसन्ततिलका) भक्तामरप्रभविनेयसमन्वितेन, ભક્તદેવ સમા શિષ્યો સાથે ધર્મશિબિરનો यूनां महोद्धरणकर्म कृतं तु येन । પ્રારંભ કરવા વડે ભવજલમાં પડતાં એવા યુવાનોનું प्रारभ्य धर्मशिबिरं च कलौ तथादा સૌ પ્રથમ વાર જે ગુરુએ મહાન ઉદ્ધરણ કાર્ય કર્યું वालम्बनं भवजले पततां जनानाम् ।।१।। पतता जनानाम् ।।१।। तु... ||१|| ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ ___ (१) भक्तामरेत्यादि । अथेदं पादपूर्तिकाव्यमयुक्तम्, अदत्तादानरूपत्वात्, परस्वहरणवत् । न च धनविषये तदस्त्वत्र तु तद्विरह इति वाच्यम्, मानाभावात्, अदत्तादानत्वे तद्भावात्, तथालोकप्रसिद्धः, परप्रणीतपङ्किप्रक्षेपात् निगृहनसिद्धेः, तदुक्तम्- ‘अन्यवर्णपरावृत्त्या बन्धचिह्ननिगृहनैः । अनाख्यातः सतां मध्ये कविश्चौरो विभाव्यत' इति शार्ङ्गधरपद्धतौ ।।१९६।। न च तथापि सहृदयहृदयालादकरत्वेनाऽदोषः, गुणकृद्दोषस्याऽप्यतत्त्वात्, परिणामरम्यत्वात् उक्तं च - ‘जो उ गुणो दोसकरो, न सो गुणो दोसमेव तं जाण । अगुणो वि होइ गुणो, विणिच्छिओ सुंदरो जत्थ ।।' इति वाच्यम्, आह्लादाकरत्वेन गुणविरहात्, तादृशकाव्यशोभाऽभावात्, उक्तं च - ‘य: सत्पदस्थमिह काव्यमधु प्रसन्नं, मुष्णन् परस्य तनुते निजपद्यमध्ये । अस्थानदोषजनितेव पिपीलिकाली, काली विभाति लिखिताक्षरपङ्क्तिरस्ये'-ति सुभाषितावलौ ।।१९१ ।। किञ्च नेदं पादमात्रादत्तादानम्, शेषेऽपि तत्सम्भवः, मुषितपदार्थोपपादनाय शेषभागेऽपि पदानामर्थानां वा तत्करणात् । न चेत्थमेवारम्भे बालानां गतिरिति वाच्यम्, उन्मार्गगतिरूपत्वात्, तादृशकविभिर्जगतः पूरितत्वेन तन्मूल्याऽभावात्, इतरेषामेव तद्भावात् । तदाह सुभाषितावलिकारः - ‘परश्लोकान् स्तोकान् अनुदिवसमभ्यस्य ननु ये, चतुष्पादी कुर्युर्बहव इह ते सन्ति कवयः ।' अविच्छिन्नोद्गच्छज्जलधिलहरीरीतिसुहृदः, सुहृद्या वैशद्यं दधति किल केषाञ्चन गिर' इति ।।१७९ ।। __ वस्तुतस्तु अभ्यासोऽप्येवं व्यर्थः, प्रतिभाविरहात्, तस्या एवं हेतुत्वात्, अभ्यासस्य तु तत्संस्कारकमात्रत्वात्, तदुक्तम् - - 'प्रतिभैव च कवीनां काव्यकरणकारणम्, व्युत्त्पत्त्यभ्यासौ तस्या एव संस्कारकारको, न तु काव्यहेतू।' इत्यलङ्कारतिलके। तथा 'तस्य च कारणं कविगता केवला प्रतिभेति साहित्यदर्पणे। तस्मात प्रतिभाविरहितस्य काव्यकरणसाहसाकरणमेव श्रेयः । एवं परेषामर्थ-ग्रहणे तु वान्ताद्यशनसमत्वेनात्यन्तकुत्सितचेष्टितम्, तस्मादत्र न युक्तत्वशङ्काऽपि उक्तं च- 'तेऽन्यैर्वान्तं समश्नन्ति, परोत्सर्गं च भुञ्जते । इतरार्थग्रहे येषां, कवीनां स्यात् प्रवर्तन'मित्यलङ्कारचूडामणौ ।। पृ.२२३ ।। ___ नैतन्मात्रम्, व्युत्पत्तेरपि दौर्लभ्यम्, उक्तं च, 'व्युत्पत्तिदुर्लभा तत्रे' त्यग्निपुराणे ।।३३७-४ । । तथापि तदाग्रहेऽनर्थप्रसङ्ग:, अज्ञातमन्त्रस्य विषभोजनवत, तदुक्तम्- 'अज्ञातपाण्डित्यरहस्यमुद्रा ये काव्यमार्गे दधतेऽभिमानम् । ते गारुडीयाननधीत्य मन्त्रान, हालाहलास्वादनमारभन्त' इति । किञ्चैवं करणे लोकोपहासपात्रता, कन्थाकविप्रमुखपदप्रदानेन लोकेन तत्करणात, यथोक्तम् - _ 'द्राघीयसा धायगुणेन युक्ताः, कैः कैरपूर्वैः परकाव्यखण्डै:। आडम्बरं ये वचसां वहन्ति, ते केऽपि कन्थाकवयो जयन्ती'-त्ति सूक्तिमुक्तावली ।।५-१।। | भुवनभानु-भक्तामरम्।

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252