________________
१४८
भुवनभानुभक्तामरम्
भुवनभानवीयमहाकाव्ये
॥ पञ्चमो भानुः ।। ॥ अथ भुवनभानु-भक्तामरम् ॥
|| पंयम लानु || ॥ अथ नुवनभानु मताभर ||
(वसन्ततिलका) भक्तामरप्रभविनेयसमन्वितेन,
ભક્તદેવ સમા શિષ્યો સાથે ધર્મશિબિરનો यूनां महोद्धरणकर्म कृतं तु येन । પ્રારંભ કરવા વડે ભવજલમાં પડતાં એવા યુવાનોનું प्रारभ्य धर्मशिबिरं च कलौ तथादा
સૌ પ્રથમ વાર જે ગુરુએ મહાન ઉદ્ધરણ કાર્ય કર્યું वालम्बनं भवजले पततां जनानाम् ।।१।।
पतता जनानाम् ।।१।। तु... ||१|| ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ ___ (१) भक्तामरेत्यादि । अथेदं पादपूर्तिकाव्यमयुक्तम्, अदत्तादानरूपत्वात्, परस्वहरणवत् । न च धनविषये तदस्त्वत्र तु तद्विरह इति वाच्यम्, मानाभावात्, अदत्तादानत्वे तद्भावात्, तथालोकप्रसिद्धः, परप्रणीतपङ्किप्रक्षेपात् निगृहनसिद्धेः, तदुक्तम्- ‘अन्यवर्णपरावृत्त्या बन्धचिह्ननिगृहनैः । अनाख्यातः सतां मध्ये कविश्चौरो विभाव्यत' इति शार्ङ्गधरपद्धतौ ।।१९६।।
न च तथापि सहृदयहृदयालादकरत्वेनाऽदोषः, गुणकृद्दोषस्याऽप्यतत्त्वात्, परिणामरम्यत्वात् उक्तं च - ‘जो उ गुणो दोसकरो, न सो गुणो दोसमेव तं जाण । अगुणो वि होइ गुणो, विणिच्छिओ सुंदरो जत्थ ।।' इति वाच्यम्, आह्लादाकरत्वेन गुणविरहात्, तादृशकाव्यशोभाऽभावात्, उक्तं च - ‘य: सत्पदस्थमिह काव्यमधु प्रसन्नं, मुष्णन् परस्य तनुते निजपद्यमध्ये । अस्थानदोषजनितेव पिपीलिकाली, काली विभाति लिखिताक्षरपङ्क्तिरस्ये'-ति सुभाषितावलौ ।।१९१ ।।
किञ्च नेदं पादमात्रादत्तादानम्, शेषेऽपि तत्सम्भवः, मुषितपदार्थोपपादनाय शेषभागेऽपि पदानामर्थानां वा तत्करणात् । न चेत्थमेवारम्भे बालानां गतिरिति वाच्यम्, उन्मार्गगतिरूपत्वात्, तादृशकविभिर्जगतः पूरितत्वेन तन्मूल्याऽभावात्, इतरेषामेव तद्भावात् । तदाह सुभाषितावलिकारः - ‘परश्लोकान् स्तोकान् अनुदिवसमभ्यस्य ननु ये, चतुष्पादी कुर्युर्बहव इह ते सन्ति कवयः ।' अविच्छिन्नोद्गच्छज्जलधिलहरीरीतिसुहृदः, सुहृद्या वैशद्यं दधति किल केषाञ्चन गिर' इति ।।१७९ ।।
__ वस्तुतस्तु अभ्यासोऽप्येवं व्यर्थः, प्रतिभाविरहात्, तस्या एवं हेतुत्वात्, अभ्यासस्य तु तत्संस्कारकमात्रत्वात्, तदुक्तम् - - 'प्रतिभैव च कवीनां काव्यकरणकारणम्, व्युत्त्पत्त्यभ्यासौ तस्या एव संस्कारकारको, न तु काव्यहेतू।' इत्यलङ्कारतिलके। तथा 'तस्य च कारणं कविगता केवला प्रतिभेति साहित्यदर्पणे। तस्मात प्रतिभाविरहितस्य काव्यकरणसाहसाकरणमेव श्रेयः । एवं परेषामर्थ-ग्रहणे तु वान्ताद्यशनसमत्वेनात्यन्तकुत्सितचेष्टितम्, तस्मादत्र न युक्तत्वशङ्काऽपि उक्तं च- 'तेऽन्यैर्वान्तं समश्नन्ति, परोत्सर्गं च भुञ्जते । इतरार्थग्रहे येषां, कवीनां स्यात् प्रवर्तन'मित्यलङ्कारचूडामणौ ।। पृ.२२३ ।। ___ नैतन्मात्रम्, व्युत्पत्तेरपि दौर्लभ्यम्, उक्तं च, 'व्युत्पत्तिदुर्लभा तत्रे' त्यग्निपुराणे ।।३३७-४ । । तथापि तदाग्रहेऽनर्थप्रसङ्ग:, अज्ञातमन्त्रस्य विषभोजनवत, तदुक्तम्- 'अज्ञातपाण्डित्यरहस्यमुद्रा ये काव्यमार्गे दधतेऽभिमानम् । ते गारुडीयाननधीत्य मन्त्रान, हालाहलास्वादनमारभन्त' इति । किञ्चैवं करणे लोकोपहासपात्रता, कन्थाकविप्रमुखपदप्रदानेन लोकेन तत्करणात, यथोक्तम् -
_ 'द्राघीयसा धायगुणेन युक्ताः, कैः कैरपूर्वैः परकाव्यखण्डै:। आडम्बरं ये वचसां वहन्ति, ते केऽपि कन्थाकवयो जयन्ती'-त्ति सूक्तिमुक्तावली ।।५-१।।
| भुवनभानु-भक्तामरम्।