________________
पञ्चमो भानुः
१४९
- भुवनभानुभक्तामरम्
श्रीवर्द्धमानसुतपोनिधिकीर्तिधाम,
તે “શ્રી વર્ધમાન તપોનિધિ' એવા ચશના श्रीसङ्घभद्रहितचिन्तनतत्परं च । (महल) स्थान, संधल्याए। मने संघहितआचार्ययुग्भुवनभान्वभिधं तु सूरिं, ચિંતનમાં તત્પર, પ્રથમ જિનેન્દ્ર-આંતર શત્રુઓને स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ अनारामोना (मुनिमोनi) Sत्तम स्वामि विश्या
॥२।। युग्मम् ।। यार्य भुवनमानुसूरिने हुं स्तवीश. ||२||
–सङ्घहितम्१. 'जिनः स्यादतिवृद्धे च बुद्धे चार्हति जित्वरे' इति विश्वः । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~
तस्माद् ध्रुवा एवाऽत्र चौर्यापयशोऽनादिदोषाः ।
न च सर्वोऽप्ययं विस्तरोऽस्मदबाधनेऽसमर्थः, लोकमताधारत्वात, जिनशासने तत्करस्य स्तेनत्वेनाऽनभिधानात् । तथाहि सिद्धान्ते द्रव्यादिचतुर्विधस्तेना अभिहिताः, उक्तं च - ‘दव्वे खेत्ते काले, भावे वा तेणगस्स णिक्खेवो ।' इत्यादि निशीथसूत्रे ।।१-३६१ ।। न च तेष्वेतादृशकरस्य स्तेनत्वमुक्तम् । एतेन शेषदोषाः प्रत्युक्ताः, तद्दोषाधारत्वात्तेषामिति वाच्यम्, कृत्स्न-कृतान्ताऽपरिज्ञानात्, तत्करस्य भावस्तेनत्वात् तदुक्तं दशवैकालिकसूत्रे- 'तवतेणे वयतेणे रूवतेणे य जे नरे। आयारभावतेणे य कुव्वई देवकिव्विसं'ति ।।५-२-४६।।
ततश्च ध्रुवमदत्तादानं तन्निबन्धनचौरत्वं च, तद्व्यपदेशनिबन्धनत्वादस्य, तदुक्तम् - 'चौर इति व्यपदेशनिबन्धन' इत्युपासकदशाङ्गे।।१।। भावस्तेनत्वोक्तेरपि तत्सिद्धिः । अत एव जैनालङ्कारिकैरप्युक्तं तत्तस्करत्वम्- ‘परार्थबन्धाद्यश्च स्यादभ्यासो वाच्यसङ्गतौ । स न श्रेयान् यतोऽनेन कविर्भवति तस्कर' इति वाग्भट्टालङ्कारे ।।१-१२।। ततश्चेदमदत्तादानत्वेन दुर्गतिविनिपातवर्द्धकत्वात, संसारसंसरणकारणत्वात, दुरन्तत्वात, अधर्मद्वारत्वाच्चायुक्ततया स्थितम, उक्तं च- 'जंबू ! ततियं च अदिणादाणं, दुग्गतिविणिवायवड्डणं भवपुनब्भवकरं चिरपरिचियं अणुगयं तइयं अधम्मदारं' ति प्रश्नव्याकरणे ।।३।। इति ।
अत्रोच्यते, तदत्र दोषद्वयान्यतरावश्यंभावः, को ताविति चेत् ? एको मत्सरोऽपरस्त्वज्ञानम् । तथाहि मात्सर्येण खला दोषान्वेषणैकबद्धकक्षा काव्यश्रवणे प्रवर्तन्ते, तदौत्सुक्यातिरेकात् सद्भूतेतरविचारणास्वशक्ता दोषानेवोद्भावयन्ति, तदेकप्रयोजनत्वात्, उक्तं च - 'क्व दोषोऽत्र मया लभ्य इति सञ्चिन्त्य चेतसा । खलः काव्येषु साधूनां श्रवणाय प्रवर्तत' - इति सुभाषितावलौ ।।१४१ ।। दुरन्तो ह्ययं दोषः, बालगुणक्षयकरत्वात्, तदुक्तम् - 'दोषोल्लेखविष: खलाननबिलादुत्थाय कोपाज्ज्वलन्जिवाहिर्ननु कं गुणं न गुणिनां बालं क्षयं प्रापये'- दित्यध्यात्मसारे ।।२१-३।।
नो चेदयं, तदा नियोगेनाऽज्ञानम, शास्त्रार्थोपनिषदपरिज्ञानात, लौकिकलोकोत्तरोभयशास्त्राभिप्रायेणाऽपि दोषविरहात ।
यत्तावदन्यवर्णेत्यादिश्लोक उक्तः, सोऽस्मदिष्टसाधकः, 'अनाख्यात' इति तत्रोक्तत्वात्, तत्त्वस्यात्र विरहात्, स्वयं तदभिधानात्, अत एव निगूहनाभावोऽपि बोध्यः, शेषदोषा अपि तत्त्वतस्तु तत एवोद्धृतप्रायाः, तथापि मा भूच्छङ्कातादवस्थ्यमित्युच्यते, तथा सहृदयहृदयानन्दकरत्वपि बोध्यम्, अन्यथा तद्भावानुपपत्तेः, मोषाभावाच्च । क्वचित् शेषपादार्थग्रहणेऽपि दोषविरहः, मूलकर्तुः प्रकटीकृतत्वात्, अर्थासङ्गतेर्महादोषत्वात्, अन्याXणाऽप्युपपादनात्तदग्रहणमपि बोध्यम् । अत एवानर्थोपहासावपि न स्तः, निर्दोषानर्थाभावात्, विदुषां तन्मूल्यज्ञत्वेन तत्रादरभावध्रौव्यात्, तदुक्तम् - 'विद्वानेव विजानाति विद्वज्जनपरिश्रमम् । न हि वन्ध्या विजानाति गुर्वी प्रसववेदना'-मिति कुवलयानन्दे ।।५१।। न चाविदुषामनादरादिस्तर्हि दोष इति वाच्यम्, अशक्यपरिहारात्, कवीश्वराणामुक्तिष्वपि तेषां तद्भावात् उक्तं च - 'कवीश्वराणां वचसां विनोदैनन्दन्ति विद्यानिधयो न चान्ये । चन्द्रोपला एव करैर्हिमांशोमध्ये शिलानां सरसा भवन्ती'-ति।
। भुवनभानु-भक्तामरम्