Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 179
________________ पञ्चमो भानुः भुवनभानुभक्तामरम् वात्सल्यवारिदमहो ! सुगुरो ! भवन्तं, प्राप्याऽपि चिंन्मयमकल्प्यकलानिधीशम् । निर्वाणमार्गवरयानमतस्तु नान्यः १५७ વાત્સલ્યનો વરસાદ કરતી વાદળા જેવા ઓ ગુરુદેવ ! જ્ઞાનમય, અકલ્પ્ય કલાનિધીશ મોક્ષ માર્ગ પર ધસમસતા ઉત્તમ યાન એવા આપને પામીને હવે कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ।। २१ ।। आपनी सिवाय अन्य भवान्तरमां य अमने आकर्षित डरी नहीं शडे ॥२१॥ सन्तो भवन्ति सुयुगे त्विति मा स्म वादीत्, यत् पञ्चमारसमयेऽप्यजनिष्ट देवः । स्याद्वादवागनतिभिद् वचनं तथैतत्, प्राच्येव दिग् जनयति स्फुरदंशुजालम् ।।२२।। રખે કોઈ એમ કહે કે સત્યુગમાં જ સંતો થાય છે... કારણ કે પૂજ્યશ્રી તો પાંચમા આરામાં જન્મ્યા હતાં. તો પછી ‘પૂર્વ દિશા જ સૂર્યને જન્મ खाये छे.' मे वाऽयनुं शुं ? हा... आ पथन परा સ્યાદ્વાદવાણીનું ઉલ્લંઘન કરતું નથી. ॥૨॥ - सङ्घहितम् - १. ज्ञानभय २. ‘नैकान्ततः पूर्वैव दिक् सर्वदा सूर्यसूः' इति सूर्यप्रज्ञप्तिज्ञेभ्यो ज्ञेयम्, तदेकान्ते तूत्तरायणाद्यनुपपत्तिरिति भावनीयम्। न्यायविशारदम् विष्णुलोकगमनमेव मोक्ष इति वैष्णवाः । हिरण्यगर्भप्राप्तिरेव मोक्ष इति हैरण्यगर्भाः । निरतिशयानन्दबोधरूप आत्मा एव अनाद्यविद्यानिवृत्त्युपलक्षितो मोक्ष इत्यौपनिषदा' इति वेदान्तकल्पलतिकायाम् । ततश्च 'मोक्षपुरसार्थपति' मित्युक्तेर्दुर्व्यवस्थितत्वेनाऽसद्भूतगुणाख्यानता सिद्धेति चेत् ? न, जैनप्रामाण्यस्य प्रागुपपदितत्वात्, ततश्च तत्रैव तत्स्वरूपस्य तत्प्राप्तेश्चोपपत्तिः, अत एवात्र तत्साधनान्वेषणाऽपि सङ्गच्छते। यथोक्तं— ‘अनेकान्तभावनाजनिततत्त्वज्ञानोपबृंहितशैलेशीकरणरूपप्रयत्नसाध्या तु कृत्स्नकर्मक्षयरूपा तज्जन्यपरमानन्दरूपा वा मुक्तिपारगतागमसमुद्वीक्षिता युक्तिस्तोमोन्नीतपरमपुरुषार्थभावा स्वानुरागानुषक्तचित्तैरन्वेषणीयसाधनैव, भ्रमप्रमादविप्रलिप्सादिदोषास्पदपुरुषोपदर्शितापथविप्रधावितसम्मुग्धजनाऽ लब्धपदाऽपि सा शङ्काद्यतीचारानालिङ्गितनिसर्गाधिगमान्यतरसमुद्भवतत्त्वार्थश्रद्धानात्मकप्रशमसंवेगनिर्वेदानुकम्पाऽऽस्तिक्याभिव्यक्तिलक्षणविशुद्धसम्यग्दर्शनतद्विशुद्धज्ञानादिभाग्भिः पारम्पर्येणाध्यवसायविशुद्धिस्था नान्तराण्यवाप्नुवद्भिः सुप्रापैव । निखिलकर्मक्षयोद्भूतरूपत्वादेव चास्याः शश्वदप्रतिपातादात्यन्तिकत्वम्, व्यतिकीर्णसुखदुःखहेतुभावार्थान्तरानपेक्षत्वादैकान्तिकत्वम्, प्रकर्षकाष्ठावस्थानादनुत्तरत्वादनतिशयत्वम्, प्राण्युपमर्दनजलौकिकसुखविपरीतत्वेनाऽनाबाधकत्वम्, सर्वद्वन्द्वस्पर्शविषयातिक्रमाद् दुःख-क्लेशाकलङ्कितत्वेन केवलत्वम्, निष्प्रतिद्वन्द्वत्वादेव निराबाधत्वम् आत्मतादात्म्याऽऽविर्भावमात्रत्वेन मनोज्ञविषयसंसर्गायत्तोत्पत्तिवियुतत्वेन स्वाधीनत्वं च गीयते प्रमाणनयनिष्णातैः । अधिगतिरप्यस्याः संसर्गप्रतिबन्धोपरागोन्मूलनात् पुनर्भवोच्छेदादिति तत्त्वार्थविवरणे, उक्तमतानामपि केषांचित् घटाकोटिविषयाणामत्रैवान्तर्भावः, अन्यथा तदयोगात् । नन्वस्तु तत्, भवत्पूज्यानां किमायातमिति चेत् ? तदेव मुक्तिप्रापकत्वम्, जिनवचनार्थस्य तदायत्तत्वात्, श्रीपूज्यस्य संविज्ञगीतार्थत्वात्, जिनाभावे तस्य तत्तुल्यताया प्रागुपपादितत्वाच्चेति दिक् । श्रीपूज्यमोक्षपुरसार्थपतितासुरक्षा- याज्ञिकः

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252