________________
पञ्चमो भानुः
भुवनभानुभक्तामरम्
वात्सल्यवारिदमहो ! सुगुरो ! भवन्तं, प्राप्याऽपि चिंन्मयमकल्प्यकलानिधीशम् । निर्वाणमार्गवरयानमतस्तु नान्यः
१५७
વાત્સલ્યનો વરસાદ કરતી વાદળા જેવા ઓ ગુરુદેવ ! જ્ઞાનમય, અકલ્પ્ય કલાનિધીશ મોક્ષ માર્ગ પર ધસમસતા ઉત્તમ યાન એવા આપને પામીને હવે कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ।। २१ ।। आपनी सिवाय अन्य भवान्तरमां य अमने आकर्षित डरी नहीं शडे ॥२१॥
सन्तो भवन्ति सुयुगे त्विति मा स्म वादीत्, यत् पञ्चमारसमयेऽप्यजनिष्ट देवः । स्याद्वादवागनतिभिद् वचनं तथैतत्, प्राच्येव दिग् जनयति स्फुरदंशुजालम् ।।२२।।
રખે કોઈ એમ કહે કે સત્યુગમાં જ સંતો થાય છે... કારણ કે પૂજ્યશ્રી તો પાંચમા આરામાં જન્મ્યા હતાં. તો પછી ‘પૂર્વ દિશા જ સૂર્યને જન્મ खाये छे.' मे वाऽयनुं शुं ? हा... आ पथन परा સ્યાદ્વાદવાણીનું ઉલ્લંઘન કરતું નથી. ॥૨॥ - सङ्घहितम् -
१. ज्ञानभय २. ‘नैकान्ततः पूर्वैव दिक् सर्वदा सूर्यसूः' इति सूर्यप्रज्ञप्तिज्ञेभ्यो ज्ञेयम्, तदेकान्ते तूत्तरायणाद्यनुपपत्तिरिति भावनीयम्।
न्यायविशारदम्
विष्णुलोकगमनमेव मोक्ष इति वैष्णवाः । हिरण्यगर्भप्राप्तिरेव मोक्ष इति हैरण्यगर्भाः । निरतिशयानन्दबोधरूप आत्मा एव अनाद्यविद्यानिवृत्त्युपलक्षितो मोक्ष इत्यौपनिषदा' इति वेदान्तकल्पलतिकायाम् । ततश्च 'मोक्षपुरसार्थपति' मित्युक्तेर्दुर्व्यवस्थितत्वेनाऽसद्भूतगुणाख्यानता सिद्धेति चेत् ?
न, जैनप्रामाण्यस्य प्रागुपपदितत्वात्, ततश्च तत्रैव तत्स्वरूपस्य तत्प्राप्तेश्चोपपत्तिः, अत एवात्र तत्साधनान्वेषणाऽपि सङ्गच्छते। यथोक्तं— ‘अनेकान्तभावनाजनिततत्त्वज्ञानोपबृंहितशैलेशीकरणरूपप्रयत्नसाध्या तु कृत्स्नकर्मक्षयरूपा तज्जन्यपरमानन्दरूपा वा मुक्तिपारगतागमसमुद्वीक्षिता युक्तिस्तोमोन्नीतपरमपुरुषार्थभावा स्वानुरागानुषक्तचित्तैरन्वेषणीयसाधनैव, भ्रमप्रमादविप्रलिप्सादिदोषास्पदपुरुषोपदर्शितापथविप्रधावितसम्मुग्धजनाऽ लब्धपदाऽपि सा शङ्काद्यतीचारानालिङ्गितनिसर्गाधिगमान्यतरसमुद्भवतत्त्वार्थश्रद्धानात्मकप्रशमसंवेगनिर्वेदानुकम्पाऽऽस्तिक्याभिव्यक्तिलक्षणविशुद्धसम्यग्दर्शनतद्विशुद्धज्ञानादिभाग्भिः पारम्पर्येणाध्यवसायविशुद्धिस्था
नान्तराण्यवाप्नुवद्भिः सुप्रापैव ।
निखिलकर्मक्षयोद्भूतरूपत्वादेव चास्याः शश्वदप्रतिपातादात्यन्तिकत्वम्, व्यतिकीर्णसुखदुःखहेतुभावार्थान्तरानपेक्षत्वादैकान्तिकत्वम्, प्रकर्षकाष्ठावस्थानादनुत्तरत्वादनतिशयत्वम्, प्राण्युपमर्दनजलौकिकसुखविपरीतत्वेनाऽनाबाधकत्वम्, सर्वद्वन्द्वस्पर्शविषयातिक्रमाद् दुःख-क्लेशाकलङ्कितत्वेन केवलत्वम्, निष्प्रतिद्वन्द्वत्वादेव निराबाधत्वम् आत्मतादात्म्याऽऽविर्भावमात्रत्वेन मनोज्ञविषयसंसर्गायत्तोत्पत्तिवियुतत्वेन स्वाधीनत्वं च गीयते प्रमाणनयनिष्णातैः । अधिगतिरप्यस्याः संसर्गप्रतिबन्धोपरागोन्मूलनात् पुनर्भवोच्छेदादिति तत्त्वार्थविवरणे, उक्तमतानामपि केषांचित् घटाकोटिविषयाणामत्रैवान्तर्भावः, अन्यथा तदयोगात् । नन्वस्तु तत्, भवत्पूज्यानां किमायातमिति चेत् ? तदेव मुक्तिप्रापकत्वम्, जिनवचनार्थस्य तदायत्तत्वात्, श्रीपूज्यस्य संविज्ञगीतार्थत्वात्, जिनाभावे तस्य तत्तुल्यताया प्रागुपपादितत्वाच्चेति दिक् ।
श्रीपूज्यमोक्षपुरसार्थपतितासुरक्षा- याज्ञिकः