________________
१५६
भुवनभानुभक्तामरम्
भुवनभानवीयमहाकाव्ये
त्वां प्राप्य मोक्षपुरसार्थपतिं पवित्रं,
હે ત્રિજગત્ શરણય ! પુણ્યતમ એવા મોક્ષપુરીના नान्यास्पदं तु रतिदं त्रिजगच्छरण्य ! ।। સાર્થવાહ એવા આપને ! હે ત્રિજગત્ શરણ્ય ! यादृनतिर्भवति रात्रिपतौ सुपूर्णे,
પામીને હવે બીજે ક્યાંય રતિ થતી નથી. પૂનમનાં नैवं तु काचशकले किरणाकुलेऽपि ।।२०।।। ચંદ્રમાં જે રતિ થાય તેવી કિરણાકુલ એવા પણ
કાચના ટુકડામાં ન જ થાય ને? Il૨૦II ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~
(२०) मोक्षपुरसार्थपतिमिति । अत्राहुर्याज्ञिकाः - नन्वसदेतदभिधानम, मोक्षस्यैवाऽभावात, खपुष्पमालाग्रथनोक्तिवत् । न च तदभावोऽसिद्ध इति वाच्यम, आत्मनो बन्धस्यैवाऽभावात् तत्सिद्धिसिद्धेः, बद्धानां कर्मणां क्षय एव हि मुक्तिरिति । अन्यथा तु तत्तत्त्वं दुर्लभम्, तन्निरुक्त्यघटनात् । बन्धाभावासिद्धेर्न तत्सिद्धिरिति चेत् ? न, बन्धकालानुपपत्तेः, तथा ह्यात्मोत्पत्तेः प्राक् पश्चाद् युगपद्वा बन्धः स्यात् ? आद्येऽनुपपत्तिः, आत्मकर्तृत्वत एव कर्मणः कर्मत्वस्योपपत्तेः, तदन्तरेण तदसम्भवात् । नाऽपि द्वितीयः, आत्मनः प्रथमोत्पत्त्यभ्युपगमात्, सा च निहेर्तुकतदभावेनानुपपद्यमानत्वात् । नाऽपि तृतीयः, युगपदुत्पन्नयोः कर्तृकर्म-भावाऽभावात्, गोशृङ्गद्वयवत् । अथ मा भूदेष दोष इति जीवकर्मणोरनादिसम्बन्ध इष्यते, तदाप्यविरागिणी मुक्त्यनुपपत्तिः, कर्मसम्बन्धानन्त्यात्, अनादित्वात्, आकाशयोगवत्, तदुक्तम् - ‘अनादिर्यदि सम्बन्ध इष्यते जीवकर्मणोः । तदानन्त्यान्न मोक्षः स्या-त्तदात्माकाशयोगवदिति । (अध्यात्मसारे ।।१३-६४।।)
मैवम, तयोमिथ: कार्यकारणत्वात, कर्मणोऽप्यात्मविचित्रपर्यायकारणत्वात, बीजाकुरवत् । तदुक्तम् - 'अस्थि स देहो जो कम्मकारणं जो य कज्जमण्णस्स । कम्मं च देहकारणमत्थि य जं कज्जमण्ण त्ति विशेषावश्यकभाष्ये ।।१८१४ ।। कर्मयुक्तजीवो हि देहकर्ता, देहयुक्तजीवश्च कर्मकर्ता, सिद्धमेतत कुलालनिदर्शनेन, उक्तं च - 'कत्ता जीवो कम्मस्स करणओ जह घडस्स घडकारो ।
एवं चिय देहस्स वि कम्मकरणसंभवाउ त्ति ।।' इति विशेषावश्यकभाष्ये ।।१८१५।। न च तदानन्त्यापत्तिः, तन्नाशसम्भवात्, सन्तानहतियोगात् तत्सिद्धेः, बीजाङ्कुरादिवत् । उक्तं च - 'अण्णयरमणिव्वत्तियकज्जं
जं विहयं । तत्थ हओ संताणो, कुक्किडि-अंडाइयाणं च ।। जह वेह कंचणोवलसंजोगोऽणाइसंतइगओ वि । वोच्छिज्जइ सोवायं तह जोगो जीवकम्माणं'त्ति विशेषावश्यकभाष्ये ।।१८१८/१८१९।।
तदुक्तमध्यात्मसारेऽपि - ‘अनादिसन्तते शः स्याद बीजाङकुरयोरिव । कुक्कुट्यण्डकयोः स्वर्ण-मलयोरिव वाऽनयोः।।' इति ।।१३-६७।।
ननु भवतु मुक्तिसिद्धिः, तथापि तत्प्रापकत्वं भवत्पूज्यानामिति दुर्वचम् । मुक्तिस्वरूपे विवादानवधेः सत्येतरनिश्चयाऽसम्भवात, तत्प्रापकत्वस्य दूरोत्सारितत्वात् । तथाहि- 'स्वातन्त्र्यं मृत्युर्वा मोक्ष इति चार्वाकाः । आत्मोच्छेदो मोक्ष इति माध्यमिकाः । धर्मिनिवृत्तौ निर्मलज्ञानादयो महोदय इति विज्ञानवादिनः। आवरणमुक्तिर्मुक्तिरित्यार्हताः । सर्वकर्तृत्वमेकं विहाय वासुदेवस्य सर्वज्ञत्वादीनां कल्याणगुणानां प्राप्तिमत्त्वे सति भगवद्याथात्म्यानुभवो मोक्ष इति रामानुजाः । जगत्कर्तृत्वलक्ष्मीश्रीवत्सवर्ज विष्णोनिरवधिकानन्दादिसदशानन्दो मोक्ष इति माध्वाः । द्विभजकष्णेन सह स्वांशभतानां जीवानां गोल वल्लभीयाः । चन्द्रचूडवपुषः सतः पार्वत्यालिङ्गनमिति कापालिकाः । पूर्णात्मतालाभ इति प्रत्यभिज्ञावादिनोऽभिनवगुप्तपादाः । पारदरसपानेन देहस्थैर्यं जीवन्मुक्तिरेव मोक्ष इति रसेश्वरवादिनो गोविन्दभगवत्पादाचार्यादयः। पराख्यप्रथमवाणीदर्शनं मोक्ष इति वैयाकरणा: । प्रकृत्युपरमे पुरुषस्य स्वरूपेणावस्थानं मुक्तिरिति साङ्ख्याः । पुरुषस्य कैवल्येनाऽवस्थानं कैवल्यमिति पातञ्जला' इत्युक्तं मुक्तिपदार्थसक्षेपे। तथा, 'कारणात्मके ब्रह्मणि कार्यात्मकजीवस्य कर्मवासनासहितभेदांशनिवृत्तिमोक्ष इति त्रिदण्डिनः । परमेश्वरप्राप्तिरित्यन्ये । निर्विकारावस्थाप्राप्तिरित्यपरे। पशुपतिसमीपगमनमेव पुनरावृत्तिरहितं मोक्ष इति पाशुपताः ।
श्रीपूज्यमोक्षपुरसार्थपतितासुरक्षा-याज्ञिकमतहोमः