Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 153
________________ चतुर्थो भानुः वीर्याचारः । १३१ वृद्धोऽपि नव्ययुववत् विहृतौ सदैव, વૃદ્ધ દેહે પણ.. વિહારમાં સદા ય નવયુવાન वृद्धः प्रतिक्रमणकेऽपि सदोर्वचारी । रेपी भुति... सहा य BAHI BACHI प्रतिभा .. वृद्धोऽपि नित्यमपि घोरतपोरतिश्च, ઉગ્ર તપમાં રતિ કરનારા ઓ મહર્ષિ ! આપને હું भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।६४॥ लापथी म छु. |४|| -सङ्घहितम्१. नूतन २. मना रहीने ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ पात्तादृष्टस्य प्रसिद्धेस्तत्कर्तुरात्मनः सिद्धिरिति, एतदपि मनोरथमात्रम, यथा पाथापतौ नियामकादृष्टविरहेऽपि वस्तुस्वाभाव्यान्नानाकारतां बिभ्राणा प्रादुर्भवन्ति बुबुदास्तथा सुखदुःखादिविचित्रतां धारयन्तः समुत्पद्यन्ते जन्तवः, न पुनः कायाकारपरिणतभूतव्यतिरिक्ततनवः केचन नित्यादिस्वभावास्ते सन्ति । ननु दृष्टान्तवैषम्यम्, बुबुदेषु राजरङ्कादिवत् महद्वैचित्र्यविरहात्, अतस्तदनुरोधेनावश्यमात्मसिद्धिरभ्युपेयेति चेत् ? न, ग्रावादिषु तादृशस्याऽपि वैचित्र्यस्य दर्शनात, तथा ह्येकः परमात्मरूपेण पूज्यते, अपरस्तु विण्मूत्रभाजनतां यातीति, उक्तं च ‘राजरङ्कादिवैचित्र्यमपि नात्मबलाहितम् । स्वाभाविकस्य भेदस्य ग्रावादिष्वपि दर्शना'-दिति (अध्यात्मसारे ।।१३-१२ ।।) ___अथ पूर्वोपात्ताऽदृष्टमन्तरेण कथं मातापितृविलक्षणं शरीरम् ? नन्वेतेनैव व्यभिचारो दृश्यते, न हि सर्वदा कारणानुरूपमेव कार्यम्, तेन विलक्षणादपि मातापितृशरीराद् यदि प्रज्ञामेधादिभिर्विलक्षणं तदपत्यस्य शरीरमुपजायेत, कदाचित् तदाकारानुकारि तत् क इवात्र विरोधः ? यथा कश्चित् शालूकादेव शालूकः, कश्चिद् गोमयात् तथा कश्चिदुपदेशाद् विकल्पः, कश्चित् तदाकारपदार्थदर्शनात् । ननु दर्शनादपि विकल्पः पूर्वविकल्पवासनामन्तरेण कथं भवे दिति चेत् ? तर्हि गोमयादपि शालूकः कथं शालूकमन्तरेणेत्येतदपि प्रष्टव्यम्, तस्मात् कार्यकारणभावमात्रमेतत्, तत्र च नियमाभावादविज्ञानादपि मातापितृशरीराद् विज्ञानमुपजायताम्, अथवा यथा विकल्पाद् व्यवहितादपि विकल्प उपजायते तथा व्यवहितादपि मातापितृशरीरत एवेति न भेदं पश्यामः, अतोऽदृष्टासिद्धेस्तदसिद्धिः । नन्वनाद्यनन्तात्माभ्युपगममन्तरेण व्यवहारानुपपत्तिः, न ह्येकानुभवितव्यतिरेकेणानुसन्धान सम्भवति, भिन्नानुभवितर्यनुसन्धानाऽदृष्टेरिति चेत् ? न, एवमनुमानेनेतरेतराश्रयदोषप्रसङ्गात्, तथाहि सिद्धे आत्मन्येकरूपेणानुसन्धानविकल्पस्याविनाभूतत्वे आत्मसिद्धिः, तत्सिद्धेश्चानुसन्धानस्य तदविनाभूतत्वसिद्धिरिति नैकस्यापि सिद्धिः, न चाऽसिद्धमसिद्धेन साध्यते । किञ्च दर्शनानुसन्धानयोः पूर्वापरभाविनो: कार्यकारणभावः प्रत्यक्षसिद्धः, तत् कुतोऽनुसन्धानस्मरणादात्मसिद्धिः ? अपि च, शरीरान्तर्गतस्य ज्ञानस्यामूर्तत्वेन कथं जन्मान्तरशरीरसञ्चारस ? अथान्तराभवशरीरसन्तत्या सञ्चरणमुच्यते, तदपि परलोकान्न विशिष्यते, सञ्चारश्च न दृष्टो जीवत इह जन्मनि, मरणसमये भविष्यतीति दुरधिगममेतत्, न परलोकसिद्धिः, अथवा सिद्धेऽपि परलोके प्रतिनियतकर्मफलसम्बन्धसिद्धिः, तथा सति परलोकास्तित्वमपि तत एव सिद्धमिति किमनुमानप्रयासेन ? वस्तुतस्तु सर्वमप्यनुमानमस्मान् प्रत्यसिद्धम्। तथा च बृहस्पतिसूत्रम्- ‘अनुमानमप्रमाण'-मिति। एतेन 'प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मनो लिगानि ।' (वैशेषिकसूत्रम् ।।३-२-४।।) 'रथकर्मणा सारथिवत् प्रयत्नवान् विग्रहस्याधिष्ठाताऽनुमीयत' (प्रशस्तपादभाष्यम् ।।पृ.६९ ।।) इत्यपास्तम् । अनुमानाप्रामाण्ये लिङ्गज्ञानानुप-योगात् । न चागमादपि परलोकादिसिद्धिः, तस्य प्रामाण्यासिद्धेः, न चाप्रमाणसिद्धं परलोकादिकमभ्युपगन्तुं युक्तम्, तदभावस्यापि तथाऽभ्युपगमप्रसङ्गात् । अथेदमेव जन्म पूर्वजन्मान्तरमन्तरेण न युक्तमिति जन्मान्तरलक्षणस्य परलोकस्य सिद्धिरिष्यते, तत्किमियमर्थापत्तिः, जीवनमन्त्रः - देहदुक्खं महाफलम - चार्वाकनिरास:

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252