________________
चतुर्थो भानुः
वीर्याचारः ।
१३१
वृद्धोऽपि नव्ययुववत् विहृतौ सदैव, વૃદ્ધ દેહે પણ.. વિહારમાં સદા ય નવયુવાન वृद्धः प्रतिक्रमणकेऽपि सदोर्वचारी । रेपी भुति... सहा य BAHI BACHI प्रतिभा .. वृद्धोऽपि नित्यमपि घोरतपोरतिश्च, ઉગ્ર તપમાં રતિ કરનારા ઓ મહર્ષિ ! આપને હું भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।६४॥ लापथी म छु. |४||
-सङ्घहितम्१. नूतन २. मना रहीने ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ पात्तादृष्टस्य प्रसिद्धेस्तत्कर्तुरात्मनः सिद्धिरिति, एतदपि मनोरथमात्रम, यथा पाथापतौ नियामकादृष्टविरहेऽपि वस्तुस्वाभाव्यान्नानाकारतां बिभ्राणा प्रादुर्भवन्ति बुबुदास्तथा सुखदुःखादिविचित्रतां धारयन्तः समुत्पद्यन्ते जन्तवः, न पुनः कायाकारपरिणतभूतव्यतिरिक्ततनवः केचन नित्यादिस्वभावास्ते सन्ति । ननु दृष्टान्तवैषम्यम्, बुबुदेषु राजरङ्कादिवत् महद्वैचित्र्यविरहात्, अतस्तदनुरोधेनावश्यमात्मसिद्धिरभ्युपेयेति चेत् ? न, ग्रावादिषु तादृशस्याऽपि वैचित्र्यस्य दर्शनात, तथा ह्येकः परमात्मरूपेण पूज्यते, अपरस्तु विण्मूत्रभाजनतां यातीति, उक्तं च ‘राजरङ्कादिवैचित्र्यमपि नात्मबलाहितम् । स्वाभाविकस्य भेदस्य ग्रावादिष्वपि दर्शना'-दिति (अध्यात्मसारे ।।१३-१२ ।।) ___अथ पूर्वोपात्ताऽदृष्टमन्तरेण कथं मातापितृविलक्षणं शरीरम् ? नन्वेतेनैव व्यभिचारो दृश्यते, न हि सर्वदा कारणानुरूपमेव कार्यम्, तेन विलक्षणादपि मातापितृशरीराद् यदि प्रज्ञामेधादिभिर्विलक्षणं तदपत्यस्य शरीरमुपजायेत, कदाचित् तदाकारानुकारि तत् क इवात्र विरोधः ? यथा कश्चित् शालूकादेव शालूकः, कश्चिद् गोमयात् तथा कश्चिदुपदेशाद् विकल्पः, कश्चित् तदाकारपदार्थदर्शनात् । ननु दर्शनादपि विकल्पः पूर्वविकल्पवासनामन्तरेण कथं भवे दिति चेत् ? तर्हि गोमयादपि शालूकः कथं शालूकमन्तरेणेत्येतदपि प्रष्टव्यम्, तस्मात् कार्यकारणभावमात्रमेतत्, तत्र च नियमाभावादविज्ञानादपि मातापितृशरीराद् विज्ञानमुपजायताम्, अथवा यथा विकल्पाद् व्यवहितादपि विकल्प उपजायते तथा व्यवहितादपि मातापितृशरीरत एवेति न भेदं पश्यामः, अतोऽदृष्टासिद्धेस्तदसिद्धिः ।
नन्वनाद्यनन्तात्माभ्युपगममन्तरेण व्यवहारानुपपत्तिः, न ह्येकानुभवितव्यतिरेकेणानुसन्धान सम्भवति, भिन्नानुभवितर्यनुसन्धानाऽदृष्टेरिति चेत् ? न, एवमनुमानेनेतरेतराश्रयदोषप्रसङ्गात्, तथाहि सिद्धे आत्मन्येकरूपेणानुसन्धानविकल्पस्याविनाभूतत्वे आत्मसिद्धिः, तत्सिद्धेश्चानुसन्धानस्य तदविनाभूतत्वसिद्धिरिति नैकस्यापि सिद्धिः, न चाऽसिद्धमसिद्धेन साध्यते । किञ्च दर्शनानुसन्धानयोः पूर्वापरभाविनो: कार्यकारणभावः प्रत्यक्षसिद्धः, तत् कुतोऽनुसन्धानस्मरणादात्मसिद्धिः ? अपि च, शरीरान्तर्गतस्य ज्ञानस्यामूर्तत्वेन कथं जन्मान्तरशरीरसञ्चारस ? अथान्तराभवशरीरसन्तत्या सञ्चरणमुच्यते, तदपि परलोकान्न विशिष्यते, सञ्चारश्च न दृष्टो जीवत इह जन्मनि, मरणसमये भविष्यतीति दुरधिगममेतत्, न परलोकसिद्धिः, अथवा सिद्धेऽपि परलोके प्रतिनियतकर्मफलसम्बन्धसिद्धिः, तथा सति परलोकास्तित्वमपि तत एव सिद्धमिति किमनुमानप्रयासेन ?
वस्तुतस्तु सर्वमप्यनुमानमस्मान् प्रत्यसिद्धम्। तथा च बृहस्पतिसूत्रम्- ‘अनुमानमप्रमाण'-मिति। एतेन 'प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मनो लिगानि ।' (वैशेषिकसूत्रम् ।।३-२-४।।) 'रथकर्मणा सारथिवत् प्रयत्नवान् विग्रहस्याधिष्ठाताऽनुमीयत' (प्रशस्तपादभाष्यम् ।।पृ.६९ ।।) इत्यपास्तम् । अनुमानाप्रामाण्ये लिङ्गज्ञानानुप-योगात् ।
न चागमादपि परलोकादिसिद्धिः, तस्य प्रामाण्यासिद्धेः, न चाप्रमाणसिद्धं परलोकादिकमभ्युपगन्तुं युक्तम्, तदभावस्यापि तथाऽभ्युपगमप्रसङ्गात् । अथेदमेव जन्म पूर्वजन्मान्तरमन्तरेण न युक्तमिति जन्मान्तरलक्षणस्य परलोकस्य सिद्धिरिष्यते, तत्किमियमर्थापत्तिः,
जीवनमन्त्रः - देहदुक्खं महाफलम - चार्वाकनिरास: