________________
१३२
- वीर्याचारः
भुवनभानवीयमहाकाव्ये कृत्वा विहारमपि चेदिवसप्रभा स्यात्, (સાંજે) વિહાર કર્યા પછી પણ જો દિવસનો પ્રકાશ
तूर्णं स लेखनविधौ निरतो बभूव । भजे तो तर मनमा भग्न Gनी ता. विश्रामविश्रामनाम हृदयेऽस्य न हि क्वचिच्च, आरामना नामने ध्यनीDictionary मांथी ४ बाटी भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।६५।। नामनारा गुहेप! हुंआपने लापथी मधु. Isill ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ अनुमानं वा ? न तावदर्थापत्तिः, तल्लक्षणाभावात् “दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यते ।” इति तल्लक्षणेष्टेः (मीमांसादर्शनम् ।।१-१-५ ।। शाबरभाष्यम्) न तु जन्मान्तरमन्तरेण नोपपत्तिमदिदं जन्मेति सिद्धम, मातापितृसामग्रीमात्रकेण तस्योपपत्तेः, तन्मात्रहेतुकत्वे चान्यपरिकल्पनायामतिप्रसङ्गात् । नाऽप्यनुमानम्, अन्यतरासिद्धत्वात् ।
ततश्च सूक्तम् - ‘परलोकिनोऽभावात् परलोकाभाव' इति । तस्मात् परलोकसुखाभिलाषेण दृष्टसुखपरित्यागो विमूढत्वडिण्डिमम्, उक्तं च
'तस्माद् दृष्टपरित्यागाददृष्टे यत् प्रवर्तनम् । लोकस्य तद्विमूढत्वं चार्वाकाः प्रतिपेदिर'- इति (षड्दर्शनसमुच्चये ।।८५।।)
तस्मादनागतस्पृहया नैहिका: कामास्त्याज्याः, यतो भूतेषु भस्मीभूतेषु प्रत्यागत्याशंसा निष्फला । तदुक्तम् – 'त्याज्यास्तन्नैहिकाः कामाः, कार्या नानागतस्पृहाः । भस्मीभूतेषु भूतेषु, वृथा प्रत्यागतिस्पृहा इति (अध्यात्मसारे ।।१३-१५।। इत्थं चाङ्गनालिङ्गनादिजन्यं सुखमेव पुरुषार्थः, न चास्य दुःखसम्भिन्नत्वात् पुरुषार्थत्वविरह इति वाच्यम, अवर्जनीयतया प्राप्तस्य दुःखस्य परिहारेण सुखमात्रस्यैव भोक्तव्यत्वात, यथा धान्यार्थी सपलालानि धान्यान्याहरति स तावदादाय निवर्तते, एवमेव विवेकसिद्धिरपि, हंसवत्, यथोक्तं - 'हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यप' इत्यभिज्ञानशाकुन्तले । तस्माद्दुःखभयान्नानुकूलवेदनीयं सुखं
न हि मृगाः सन्तीति शालयो नोप्यन्ते । यदि कश्चिद् भीरु-दृष्टं सुखं त्यजेत् तहि स पशुवन्मूखों भवेत् । उक्तं च - 'त्याज्यं सुखं विषयसङ्गमजन्म पुसां दुःखोपसृष्टमिति मूर्खविचारणैषा । व्रीहीजिहासति सितोत्तमतण्डुलाढ्यान्, को नाम भोस्तुषकणोपहितान् हितार्थी'- ति ।।
तस्माद् यथेष्टभोग एवात्र परमार्थः, उक्तनीत्याऽत्मादिविरहात् । तदवदाम - 'पिब खाद च जातशोभने, यदतीतं वरगात्रि तन्न ते । न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवर'-मिति ।
इत्थं च भवत्पूज्यानां सुकुमारताप्रतिपक्षत्वमत्यन्तमयुक्ततया स्थितमिति । अत्रोच्यते । लुण्टाक ! चार्वाक ! तदात्मरत्न, रे ! चोरयित्वा सहसैव मा गाः ।
अस्मान्न किं पश्यसि पृष्ठलग्नान, दुर्दान्तशिक्षाक्षणबद्धकक्षान ।। (स्याद्वादरत्नाकरे ।।७३५।।) परलोकादिसिद्धेः सर्वमपि भवद्भाषणमयुक्तम्, ननूक्तैव तदसिद्धिरिति चेत् ? सत्यम्, अविचारितरमणीया तूक्ता । तथाहि यत्तावच्चैतन्योत्पत्तेभूतमात्रकारणत्वेनात्मप्रतिक्षेपः कृतः, स हि तत्त्वान्तराभावे सिद्धे सिद्धयेत्, तथैव भूतमात्रकारणत्वसिद्धेः । तदभावश्चाऽसिद्धः, सुखदुःखेच्छाद्वेषप्रयत्नसंस्कारादेस्तत्त्वान्तरत्वेनाऽवस्थितत्वात् । पृथिव्यादिभिरेव तदभिव्यक्तेन तत्त्वान्तरमिति चेत् ? न, घटप्रदीपानां व्यङ्ग्यव्यञ्जकभावेऽपि तत्त्वान्तरत्वानपायात्, प्रत्यक्षादिप्रमाणप्रसिद्धस्यात्मनश्च तत्त्वान्तरत्वमनिवार्यम् ।
नन्वात्मविरहः, अनुपलब्धेरिति चेत् ? कस्याऽनुपलब्धिरिति वक्तव्यम्, सर्वस्य स्वस्य वा ? आये सन्देहः द्वितीये व्यभिचारः। वस्तुतस्तु सर्वजीवसिद्धाहं प्रत्ययेन प्रत्यक्षतस्तत्सिद्धिः, तदुक्तमात्मतत्त्वविवेके- 'सर्वादृष्टेश्च सन्देहात् स्वादृष्टे
यभिचारत: अथात्मसद्भावे किं प्रमाणम् ? प्रत्यक्षमेव तावत्, अहमिति प्रत्ययस्य प्राणभृन्मात्रसिद्धत्वात्, न चाऽयमवस्तुक: सन्दिग्धवस्तुको वा, अशाब्दत्वादप्रतिक्षेपाच्च, न च लैङ्गिकः, अननुसंहितलिङ्गस्यापि स्वप्रत्ययात्, न च स्मृतिरियम्,
जीवनमन्त्रः - देहदुक्खं महाफलम् - चार्वाकनिरास: