________________
चतुर्थो भानुः
वीर्याचारः ।
१३३
आनन्दतः शिशुमुनेरपि सेवनां स,
સુવિશાળગચ્છાધિપતિ રૂપ ગૌરવવંતા પદમાં गच्छाधिनाथपदभृत् स्वयमेव चक्रे । બિરાજમાન ... છતાં ય બાળમુનિની સેવા ય वीर्यप्रकर्षपरिपूरितधर्मधामा !,
આનંદથી કરતાં. ધર્મના દરેક સ્થાન-પ્રદેશ પ્રદેશને भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।६६॥ प्रष्ट वीथी मरी हेना। ओ परम पूज्य
ગુરુદેવ! હું આપને ભાવથી ભજું છું. IIકા ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ अननुभूते तदनुपपत्ते'-रिति । ननु च किमिति भवान् परमतालम्बनेन वादं करोती -ति चेत् ? स्याद्वादिनां सहायरूपत्वात्तेषामिति गृहाण। तदाहाष्टसहस्रीतात्पर्यविवरणकार:- 'जेतुं दुर्वादिवृन्दं जिनसमयविदः किं न सर्वे सहाया ?' इति। कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः।
भवति हि 'सुख्यहम्' 'दु:ख्यहम्' इत्यादिप्रतीतिः सर्वेषाम् । न चेदं प्रत्यक्षं न यथोदितात्मतत्त्वग्राहकम, अन्तर्मुखाकारतया परिस्फुरणात्, नाऽप्यस्येत्थं परिस्फुरतः शरीरादिगोचरान्तरपरिकल्पनं न्यायम्, नीरादिप्रतिभासिनोऽप्यवभासस्य विश्वम्भरागोचरत्वापत्तेः । अरूपाद्यात्मकतत्त्वपरिच्छेदकत्वाच्च । न प्रकृतज्ञानं देहादिद्योतकं न्याय्यम् । न च स्थूलोऽहमित्याद्यहंप्रत्ययेन देहालम्बनेन व्यभिचारः। तस्यात्यन्तोपकारके भृत्येऽहमेवायमिति स्वामिप्रत्ययवदत्यन्तोपकारके शरीर उपचारतो जायमानस्याऽरूपाद्यात्मकतत्त्वपरिच्छेदकत्वासिद्धेः, बहिःकारणनिरपेक्षत्वे सत्यहंकारास्पदत्वाच्च । अन्यथा तु नेत्रादिभिरहप्रत्ययप्रसङ्गः, न चेदं दृष्टमिष्टं वा। उक्तं च - 'न चाहप्रत्ययादीनां, शरीरस्येव धर्मता । नेत्रादिग्राह्यतापत्तेर्नियतं गौरवादिव'-दित्यध्यात्मसारे ।।१७।।
एतेनाऽपसिद्धान्तापादनं निरस्तम् ।
किञ्च, चैतन्यस्य पृथिव्यादेरभिव्यक्त्यभ्युपगमे तन्नित्यत्वापत्तिः, तथाहि-नित्यं चैतन्यम्, शश्वदभिव्यङ्ग्यत्वात्, क्षित्यादितत्त्ववत् । न च तत्त्वमस्यासिद्धम्, तत्कार्यतानुपगमात्, उपगमेऽभिव्यक्तिवादविरोधात् । न ह्यसतोऽभिव्यक्तिरिति सदाऽभिव्यङ्ग्यत्वेन सदा सत्त्वापत्तिर्दुर्निवारा ।
न च घटादिभिरनेकान्तः, तेषां कार्यत्वाभ्युपगमेनाभिव्यङ्ग्यत्वस्याऽशाश्वतिकत्वात् । स्याद्वादिनां तु सर्वस्य कथञ्चिन्नित्यत्वान्न केनचिद्व्यभिचार इति स्पष्टं स्याद्वादरत्नाकरे ।
मदशक्तिदृष्टान्तमप्यस्मदिष्टसाधकम्, यतस्तत्राऽपि तन्मेलकपुरुषापेक्षा, अन्यथा स्वत एव सर्वदा तदापत्तेः, एवं चैतन्यव्यक्तावपि द्रष्टव्यम् । तदुक्तम्- 'मद्यागेभ्यो मदव्यक्ति-रपि नो मेलकं विना । ज्ञानव्यक्तिस्तथा भाव्या-ऽन्यथा सा सर्वदा भवे'- दित्यध्यात्मसारे ।।१३-२२।। तस्माज्जीवधर्मत्वेन चैतन्यं सिद्धम, तदुक्तं नारदपञ्चरात्रे - 'चैतन्यमस्य धर्मो हि प्रभा भानोरिवाऽमले'ति ।
बुदबुदादिदृष्टान्ततो वैचित्र्यसमाधानमप्यसारम, स्वकृतकर्मणामेव तत्र शरणत्वात, अन्यथा सुखदुःखादिसंवित्तिविशेषायोगात, तदुक्तम् - 'राजरङ्कादिवैचित्र्य-मप्यात्मकृतकर्मजम् । सुखदुःखादिसंवित्तिविशेषो नान्यथा भवे'- दित्यध्यात्मसारे ।।१३२४ ।। उक्तं च परैरपि - 'कर्मजं लोकवैचित्र्य'- मित्यभिधर्मकोषे ।।४-१।।
अन्यथा तु तुल्यसाधनानां फलविशेषो न घटामटाट्यते, न च निर्हेतुकोऽसौ, कार्यत्वात्, घटवत्, योऽसौ हेतुः, स एव कर्म, तदुक्तम् - 'अस्थि सुहदुक्खहेऊ कज्जाओ बीयमंकुरस्सेव । सो दिट्ठो चेव मई वभिचाराओ न तं जुत्तं ।।
जो तुल्लसाहणाणं फले विसेसो न सो विणा हेउं । कज्जत्तणओ गोयम ! घडो व्व, हेऊ य सो कम्मं ।।' इति विशेषावश्यकभाष्ये ।।१६१२/१६१३।। शालूकदृष्टान्तप्रदर्शितो व्यभिचारोऽप्यसन, प्रज्ञामेधादिवैलक्षण्ये समानजातीयपूर्वाभ्यासस्य कारणत्वसम्भवात्, अन्यथा
जीवनमन्त्रः - देहदुक्खं महाफलम् - चार्वाकनिरास: