________________
भुवनभानवीयमहाकाव्ये
श्वासातुरोऽपि विमलाद्रिमसौ स्वतोऽहो ! आरोहदुच्चशिखरं शिबिकां विनैव । श्रद्धामनोबलनिराकृतकास ! धीर !
શ્વાસના રોગથી અત્યંત પીડિત.. છતાં ય શત્રુંજયની સંપૂર્ણ યાત્રા ડોળી વગર જાતે જ ચઢીને ઊંચા શિખરવાળા કરી અને શ્રદ્ધા અને મનોબળથી શ્વાસરોગ ને ભગાડી દીધો. ઓ
भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।६७ ।। धीरपुरुष गुरु भुवनलानु ! हुं आपने लावथी
भुं छं. ॥७७॥
३४
वीर्याचारः
न्यायविशारदम्
समानेऽपि रसायनाद्युपयोगे यमलकयोः कस्यचित् क्वापि प्रज्ञामेधादिकमिति प्रतिनियमो न स्यात्, रसायनाद्युपयोगस्य साधारणत्वादिति। तदुक्तं न्यायमञ्जर्याम् – 'दृष्टश्च साध्वीसुतयोर्यमयोस्तुल्यजन्मनोः । विशेषो वीर्यविज्ञानवैराग्यारोग्यसम्पदामिति ।।५-४७१।। न च प्रज्ञादीनां जन्मादी रसायनाभ्यासे च विशेषः शालूकगोमयजन्यस्य तु शालूकादेस्तदन्यस्माद् विशेष दृश्यत इति स्फुटमेव वैषम्यम् । क्वचिज्जातिस्मरणं च दर्शनमिति न युक्ता दृष्टकारणादेव मातापितृशरीरात् प्रज्ञामेधादिकार्यविशेषोत्पत्तिः । न च गोमयशालूकादेर्व्यभिचारविषयत्वेन प्रतिपादितस्याऽत्यन्तवैलक्षण्यम्, रूप-रस- गन्धस्पर्शवत्पुद्गलपरिणामत्वेन द्वयोरप्यवैलक्षण्यात् विज्ञानशरीरयोश्चान्तर्बहिर्मुखाकारविज्ञानग्राह्यतया स्वपरसंवेद्यतया स्वसंवेदनबाह्यकरणादिजन्यप्रत्ययानुभूयमानतया च परस्परा- ननुयाय्यनेकविरुद्धधर्माध्यासतोऽत्यन्तवैलक्षण्यान्नोपादानोपादेयभावो युक्तः ।
यच्च व्यवहितादपीत्याद्युक्तं तदप्ययुक्तम्, अनन्तरस्यापि मातापितृपाण्डित्यस्य प्रायः प्रबोधसम्भवात्, ततश्चक्षुरादिकरणजनितस्य स्वरूपसंवेदनस्य चक्षुरादिज्ञानस्य वा युगपत् क्रमेण चोत्पत्तौ 'मयैवोपलब्धमेतत्' इति प्रत्यभिज्ञानं सन्तानान्तरतदपत्यज्ञानानामपि स्यात्, न च मातापितृज्ञानोपलब्धेस्तदपत्यादेः कस्यचित् प्रत्यभिज्ञानमुपलभ्यते, उक्तं च, 'भ्रूणस्य स्मरणापत्ते-रम्बानुभवसङ्क्रमा'दित्यध्यात्मसारे ।।१३-२० ।।
एतेनानुमान इतरेतराश्रयदोषोऽपि प्रत्युक्तः, आत्मनः प्रत्यक्षेणैव सिद्धत्वात् । तस्मादेकानुभवित्रनुरोधेनापि तत्सिद्धि:, शरीरेण तदनुपपत्तेः, बालत्वादिदशाभेदवशाच्छरीर एकत्वविरहात्, तदुक्तम्
'शरीरस्यैव चात्मत्वे नानुभूतस्मृतिर्भवेत् । बालत्वादिदशाभेदा-त्तस्यैकस्याऽनवस्थिते'- रित्यध्यात्मसारे ।।१३-१८।। यच्च दर्शनाऽनुसन्धानयोरित्याद्युक्तं तदप्यसत्, उक्तवदेकानुसन्धानभावे तदनुपपत्तेः । यदपि सञ्चारश्च न दृष्ट इत्याद्युक्तं तदप्यसत् परलोकसिद्धेरेव तत्सिद्धेः, अन्यथा तदनुपपत्तेः । अमूर्तत्वेऽपि तदगतिर्न न युक्ता, विरोधाऽसिद्धेः, 'अधस्तिर्यगर्थोर्ध्वं च जीवानां कर्मजा गति' रिति वचनप्रामाण्याच्च (तत्त्वार्थभाष्यकारिका ।।२-१६ । । )
-
अथागमा अप्रमाणम्, मिथो विसंवादात्, दुर्जनहृदयादिवत् । यदि जिनागमः प्रमाणम्, अन्येन किमपराद्धम् ?, सोऽप्यस्त्विति चेत् ?, न, विप्रतिपत्तिवृन्दानुपपत्तेः, तदुक्तम् सर्व एव यदमी परस्परं संवदन्ति समया न वादिनाम् । दुर्जनस्य तु हृदयं वचः क्रिया संवदन्ति न यथा काचन ।। जैनागमश्चेत् भवति प्रमाण - मन्यागमः किं न भवेत्तथैव ।
स स्यात्तथा चेद्वद तर्हि विद्वन् ! कौतस्कुती विप्रतिपत्तिवार्ता ? ।।' इति (स्याद्वादरत्नाकरे ।।७३२/७३७।।)
मैवम्, जिनागमप्रामाण्यस्य प्रागसकृदुपपादितत्वात्, उक्तं च सर्वज्ञसिद्धौ - 'दृष्टशास्त्राविरुद्धार्थं, सर्वसत्त्वसुखावहम् । मितं गम्भीरमाह्लादि - वाक्यं यस्य स सर्ववित् ।। एवम्भूतं तु यद्वाक्यं, जैनमेव ततः स वै । सर्वज्ञो नान्य एतच्च स्याद्वादोक्त्यैव गम्यत इत्यादि ।।४९, ५० ।।
एतेन प्रतिनियतकर्मफलसम्बन्धसिद्धिर्व्याख्याता, अदृष्टवैचित्र्यसिद्धेस्तत्सिद्धेः, अन्यथा तद्व्यवस्थानाऽयोगात् । स्वसम्बद्धकर्मणोऽवन्ध्यत्वेन स्वाश्रये फलोत्पादनात्, 'कडाण कम्माण न मोक्खु अत्थि ।' इति (उत्तराध्ययनेषु ।।४-३ । ।) तथा जीवनमन्त्र: - देहदुक्खं महाफलम् - चार्वाकनिरासः
-