________________
चतुर्थो भानुः - षट्त्रिंशद्गुणसम्पत्
१३५ षट्त्रिंशता च सुगुणैः परिशोभितोऽसा- 'छत्तीसगुटो गुरु भा'... 3 गुपोथी
वाचार्यतां सफलतां तु निनाय बाढम् । શોભતા પૂજ્યશ્રીએ સૂરિપદને સાર્થક કર્યું હતું. प्रत्येकवण्टकविचारविशुद्धयोगिन् !, પ્રત્યેક અંશથી વિચારતા ય પરિશુદ્ધ. પૂર્ણ भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।६८॥ महायोगी! आपने हुं लापथी लाई छु. ||८||
-सङ्घहितम्१. 'अंशो भागश्च वण्टः स्या'दित्यभिधानकोषः, अत्र च स्वार्थे 'क'प्रत्ययः ।। ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ 'कत्तारमेव अणुजाइ कम्मं ।।' (उत्तराध्ययनेषु ।।१३-२३।।) इत्यादि वचनप्रामाण्यात् । प्रायः कर्मविपाकेऽविगानं वादिनाम् । अत एवोक्तं परैरपि - 'कतानं कम्मानं विपाको अत्थि ? आमन्ता ।' इत्यभिधर्मपिटके । तथा 'नाऽभुक्तं क्षीयते कर्मे' इति ब्रह्मवैवर्तपुराणे। न च परलोके तदभावः, अनुयायित्वात् कर्मणाम्, उक्तं च - ‘यत्कृतं हि मनुजैः शुभाशुभं, तत्प्रयान्तमनुयाति पृष्ठत' इति राष्ट्रपालपरिपृच्छायाम् ।
यच्चोक्तमनुमानमप्रमाणमिति, तदप्यप्रमाणम्, लोकव्यवहारोच्छेदप्रसङ्गात्, दर्शनदशायां भावनिश्चयात्, अदर्शनदशायामभावनिश्चयाच्च, ततश्च गृहाद बहिर्गतश्चार्वाको वराको न निवर्तेत, प्रत्युत पुत्रदारधनाद्यभावनिर्धारणात् सोरस्ताडं शोकविकलो विक्रोशेत् । अत एव प्रत्यक्षस्याऽप्यभावापत्तिः, तद्धेतूनां चक्षुरादीनामनुपलम्भबाधितत्वात् तदुक्तम्- ‘दृष्ट्यदृष्ट्योः कः सन्देहो भावा-भावविनिश्चयात् । अदृष्टिबाधिते हेतौ प्रत्यक्षमपि दुर्लभ'- मिति न्यायकुसुमाञ्जलौ ।।३-६।। तदुक्तं न्यायावतारवृत्तौ-- 'प्रत्यक्षमेवैकं प्रमाण-मित्यसत्, परोक्षाभावे तस्यैव प्रामाण्याऽयोगा'-दित्यादि ।।पृ.१७।।
सम्मोहमोहदोलायितमानसश्चार्वाको वराकः प्रत्यक्षाऽनुमानस्वरूपयोरपि मुह्यति, किमनेन सहातिजल्पितेन ? उक्तं च'दूरात्करोति निशि दीपशिखा च दृष्टा पर्यन्तदेशविसृतासु मतिं प्रभासु । धत्ते धियं पवनकम्पितपुण्डरीक-षण्डोऽनुवातभुवि दूरगतेऽपि गन्धे ।। स एवंप्रायसंवित्ति-समुत्प्रेक्षणपण्डितः । रूपं तपस्वी जानाति न प्रत्यक्षानुमानयो'-रिति न्यायमञ्जर्याम् ।।आ.१ ।।
नन्वनुमानमप्रमाणम्, प्रत्यक्षपूर्वत्वेन गौणत्वादिति चेत् ? न, असिद्धेः, 'ऊहाख्यप्रमाणपूर्वकत्वाच्चास्याध्यक्षपूर्वकत्वमसिद्ध मिति वचनात् । (प्रमेयकमलमार्तण्डः ।।पृ.४६।।)
ननु रोधादपि नदी पूर्णा गृह्यते, ततश्चोपरिष्टाद् वृष्टो देव इति मिथ्यानुमानम्, एवं उपघातादिष्वपि ज्ञेयम्, ततश्च रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाण (न्यायसूत्रे ।।२-१-३८ ।।) - मिति चेत् ? नायमनुमानव्यभिचारः, अननुमाने तु खल्वयमनुमा-नाभिमान इति । अधिकं वात्स्यायनभाष्य-न्यायवार्तिकादौ ।
यदप्युक्तं किमियमर्थापत्तिरित्यादि तदप्यबाधकम, सर्वस्य नियतप्रत्ययस्य प्रवृत्तेरनुमानत्वात, नन्वविनाभावसम्बन्धग्रहाऽसम्भवान्नात्राऽनुमानमिति चेत् ? सोऽयमद्वैतस्य शून्यत्वस्य वाऽभ्युपगमप्रसङ्गः, बाह्येनाऽप्यर्थेन सह कार्यकारणभावस्याऽसिद्धेः
तम, विचारतस्तस्याऽप्यभावे सर्वशन्यत्वम, ततश्च सकलव्यवहारोच्छेदप्रसक्तिः । ततश्च कस्य केन दोषाभिधानम् ।
इतश्च परलोकगाम्यात्मसिद्धिः, तद्वासरजातबालस्याऽप्यशिक्षितस्यापि स्तने मुखार्पणात, उक्तं च - 'तत्रैव वासरे जातः पूर्वकेणात्मना विना । अशिक्षितः कथं बालो मुखमर्पयति स्तन'-इति । तस्मादत्रानाहतमामुष्मिकानुभवहेतुत्वम्, न च तदनुभव ऐहिकशरीरस्य, असम्भवात, तस्मादेको नित्योऽनुभविता स्मर्ता च यः स एव भगवानात्मेति स्पष्टं स्याद्वादरहस्यबृहद्वृत्तौ ।
जीवनमन्त्रः - देहदुक्खं महाफलम् - चार्वाकनिरास: