Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 165
________________ चतुर्थो भानुः सत्सारणादिषु बभौ खलु योऽप्रमत्तः, स्तम्भो महाँश्च गुरुगच्छमहाश्रयस्य । सूरौ यशोविजयवाक् त्वयि सार्थकाऽस्ति भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।।९७ ।। आचाराङ्गसंवादः आचार्यदेवतुलनाः प्रथमाङ्गदृष्टाः, पूज्येऽतिसङ्गततमाश्च भवन्ति सर्वाः । यद्दर्शनेन हृदयं त्वयि तोषमेति, भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।। ९८ ।। १४३ મહોપાધ્યાયશ્રી યશોવિજયજી મ. આચાર્ય ભગવંતનું વર્ણન કરે છે કે “જે દિયે સારણ વારણ ચોયણ પડિચોયણ વળી જનને, પટ્ટધારી ગચ્છ થંભ આચારજ, તે માન્યા મુનિ મનને रे..." આ પંક્તિને સાર્થક કરનારા ગુરુ ભુવનભાનુ ! હું આપને ભાવથી ભજું છું. Ilell આચારાંગસૂત્રમાં આચાર્યદેવની જે તુલનાઓ દેખાય છે તે સર્વ આપનામાં અત્યંત સંગત થાય છે. આ જોઈને હૃદયમાં આપની ખૂબ અનુમોદના થાય છે.. હું આપને ભાવથી ભજું છું. ॥૮॥ - सङ्घहितम् १. आचार्यलक्षणाभिधायिका श्लोकपूर्वार्धदर्शिता महोपाध्याय श्रीयशोविजयवागित्यर्थः । न्यायविशारदम् (९८) प्रथमाङ्गेत्यादि । अत्रेदमाचारसूत्रम् - ' से बेमि तं जहा - अवि हरए पडिपुण्णे समंसि भोमे चिट्ठइ उवसंतरए, सारक्खमाणे, से चिट्ठइ सोयमज्झगए से पास सव्वओ गुत्ते, पास कोए महेसिणो जे य पन्नाणमंता पबुद्धा आरम्भोवरया सम्ममेयं ति पासह, कालस्स कंखाए परिव्वयंति त्ति बेमि' ।।१-५ -५ ।। सू. १६० ।। एतत्सूत्रदृष्टाऽऽचार्यतुलना श्रीपूज्ये सङ्गतिमङ्गतीति दृष्ट्वा हृदयं गुरौ तोषमुपयातीत्यर्थः । गुणानुरागप्रदर्शकमेतत्, गुणानुरागो नाम भावश्रावकलिङ्गम्, शुद्धचारित्रिषु नियमतस्तद्भाव:, अतो हि गुणगणमालिन्यापादकदोषपरिहारः, सर्वर्द्धिसिद्धिश्च । ततोऽवश्यमेव यतितव्यमत्र । उक्तं च - 'जायइ गुणेसु रागो, सुद्धचरित्तस्स नियमओ पवरो । परिहरइ तओ दोसे, गुणगणमालिन्नसंजणए' त्ति धर्मरत्नप्रकरणे । । १२० । । उक्तं च गुणानुरागकुलके 'उत्तमगुणाणुराओ निवसइ हिययंमि जस्स पुरिसस्स । आतित्थयरपयाओ न दुल्लहा तस्स रिद्धिओ ।।' इति ।। २ ।। सूत्रोक्तिविस्तरार्थस्तु वृत्तितोऽवसेयः, सा चेयम्- 'यद्गुण आचार्यो भवति तदहं तीर्थकरोपदेशानुसारेण ब्रवीमीति । एको जलाशयः परिगलत्स्रोताः पर्यागलत्स्रोताश्च, सीतासीतोदाप्रवाहहूदवत्, अपरस्तु परिगलत्स्रोता नो पर्यागलत्स्रोता, पद्महूदवत्, तथा परो नो परिगलत्स्रोताः पर्यागलत्स्रोताश्च, लवणोदधिवत् अपरस्तु नो परिगलत्स्रोता नो पर्यागलत्स्रोताश्च, मनुष्यलोकाद्बहिः समुद्रवत् । तत्राचार्यः श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः श्रुतस्य दानग्रहणसम्भवात् । साम्परायिककर्म्मापेक्षया तु द्वितीयभङ्गपतितः, कषायोदयाभावेन ग्रहणाऽभावात्, तपःकायोत्सर्गादिना क्षपणोपपत्तेश्च । आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः, आलोचनाया अप्रतिश्रावित्वात्। कुमार्गं प्रति चतुर्थभङ्गपतितः कुमार्गस्य हि प्रवेशनिर्गमाभावादिति शीलाङ्काचार्यविरचितवृत्तौ ।। पृ. २२० ।। तत्र श्रीपूज्यानां श्रुताऽऽदानदाने प्राक्कथिते । तपसा निकाचितकर्म्मणामपि क्षयोपपत्तेस्तन्निर्जराकारणत्वं न दुर्वचम्, उक्तं च - 'निकाचितानामपि कर्मणां यद्, गरीयसां भूधरदुर्धराणाम् । विभेदने वज्रमिवाऽति तीव्रं नमोऽस्तु तस्मै तपसेऽद्भुताये 'ति शान्तसुधारसे ।।९-४ ।। अत एवोक्तं तन्निरुक्तौ ‘तापयति कर्म दहतीति तप' - इति पञ्चाशकविवरणे । श्रीपूज्यानां तपआचारे तत् प्रपञ्चितमेवेति नेहोच्यते । वस्तुतस्तु ज्ञानमेव तपः, तत एव तत्फलप्रकर्षोपपत्तेः, इतरस्य त्वल्पफलतयाऽविवक्षणात्, तदुक्तं ज्ञानसारे शास्त्रोक्तसूरिसंवादः

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252