Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
***693++**+40*3*** ***4.03
www.khatirth.org
धिन्यां भयप्रदाः । उपसर्गाः कृता देव्या - गजसिंहादिरूपतः ॥ १०१ ॥ विलोक्यैतान् धराधीशो - धृतधैर्योन चुचुभे । ततोऽनुकूलान्विविधा- नुपसर्गान् ददर्श सः ॥ १०२ ॥ धनधान्यादिसंपन्या, लुलुमे नैव भूपतिः । तदा सा नृपतिं प्राह, प्रत्यक्षीभूय रूपतः ।। १०३ ॥ किमर्थमुपविष्टोऽसि, भूपते ? सस्वरं व्रज । नृपस्तु स्वीकृतं ध्यानं, नाऽत्यजद्धीरमानसः ॥ १०४ ॥ पुनः प्रोवाच सा देवी, नृपतिं मधुरोक्तिभिः । किं त्वयाऽपेक्ष्यते भूमन् १ वद मे वदतांवर ? ।। १०५ ॥ सर्व जानासि देवि १ स्वं किं वदामि तवाऽग्रतः । देवी जगौ नृपं प्रीता, भृणुष्व वचनं मम ॥ १०६ ॥ त्वत्स्वरूपं समालोक्य, कामेन पीडिताऽस्म्यहम् । स्वदङ्गसङ्गमिच्छामि प्रीणयस्त्र महीप १ माम् ॥ १०७ ॥ ततोऽहं साधयिष्यामि, भूपते ? त्वत्समीहितम् । श्रुत्वैतद्वचनं देव्या - भूपतिर्मोनभागभूत् ॥ १०८ ॥ स जगौ कालिके १ नैवत् प्राणान्तेऽपि तवेप्सितम् । करिष्ये दुर्गतेर्मूलं, नैवं वाच्यं पुनस्त्वया ।। १०९ ।। ग्रस्तं कामपिशाचेन, जगद्दुष्टेन दूषितम् । निरयादिव्यथां चित्रां, भूयः प्राप्नोति मोहतः । ११० ।। कामेन रावणोनष्टो - बुद्धिमानपि सच्चरम् । कामिना सङ्गतिर्नैव, हेयः कामस्ततो बुधैः ॥ १११ ॥ निशम्य भूपतेर्वाक्यं देव्या चक्रे प्रलोभनम् । विविधैर्द्धावभावैश्व, कामोद्दीपनकारकम् ॥ ११२ ॥ तथाऽपि नृपतिः स्वीयां, प्रतिज्ञां नामुचद्द्ढाम् । प्रसन्नीभूय सा देवी, प्रोचे तं शुद्धमानसम् ॥ ११३ || राजस्त्वदीयधैर्येण, प्रसन्नाऽस्मि तवोपरि । इत्युक्त्वा श्रीफलं तस्मै प्रादादेवी सुतप्रदम् ॥ ११४ ॥ पुनः सा भूपतिं प्रोचे, फलमेतत्स्वयोषिते । देयं तद्भक्षयेनैषा, त्रयुग्मं जनिष्यति ॥ ११५ ॥ सचिवेनान्वितोभूपः फलं लात्वा निजं गृहम् । श्रासाद्य फलवृत्तान्तं राज्ञीं प्रावेदयत्सुधीः ॥ ११६ ॥ ततस्तत्फलमास्वाद्य, राज्ञी गर्म दधार सा । तद्वाच नृपतिः श्रुत्वा भृशं तुष्टोऽभवत्तदा ॥ ११७ ॥
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
**++*69+++

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230