Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Achana
S
agen Gyarmande
द्वादशः समें।
भीमसेनचरित्र। ॥६६॥
| ॥ ८३ ॥ प्रासादस्याऽन्तिके तस्य, वनमासीद् द्रुमण्डितम् । तदीयां रम्यतां द्रष्टुं, जग्मतुस्तौ मनीषिणौ ।। ८४ ॥ विलोक्य
पादपं तत्र, फलश्रेणिविभूषितम् । जग्ध्वा फलानि तस्योभी, कपित्वं प्रापतुः चणात् ॥८॥ तमेव द्रुममारुह्य, दीनाऽऽस्यौ रुदतः स्म तौ । कपिरूपधरौ शीत-पीडया पीडितो भृशम् ॥ ८६ ॥ तावन्मदनवेगोऽपि, सभार्योनिजमन्दिरम् । क्रीडितुमागमत्तत्र, कपियुग्मं ददर्श तत् ॥ ८७ ॥ उपकारकरावेतो, ममेति निधिकाय सः । कर्तव्योपकृतिः काचि-न्मयेदानीं तयोरपि ।। ८८ ॥ विदित्वेत्यन्तिकस्थस्य, द्रुमस्यैकस्य खेचरः । पुष्पमादाय कीशाभ्यां, घ्रापयामास सत्त्वरम् ।। ८९ ॥ स्वस्वरूपं ततः प्राप्य, नृपमन्त्रीश्वरौ नतौ । पाचख्यतुनिजं वृत्त, विद्याधरपतेः पुरः ॥३०॥ सोऽपि तौ प्रार्थयामास, निजधाम निनीषया । मामकीनं धराधीश ? गृहमेत्य कृतार्थय ॥६१॥ तदानीं सचिवः प्रोचे, पुत्रचिन्ताऽस्ति भूपतेः । खेचरेण नृपायैको-मन्त्रोऽदायि सुतप्रदः ॥९२ ॥ आराधनविधि तस्य, कथयत्यवनीश्वरम् । तावत्तत्रागमद्दष्टो-व्यन्तरः सोऽधमक्रियः ।।९३॥ उत्पाख्य तौ नृपामात्यौ, ब्रजतस्तस्य पृष्ठतः । खेचरोधावितः सद्यः, स्वोपकारिगुणान् स्मरन् ॥१४॥ निगृह्य व्यन्तरं तस्मा-न्नृपामात्यो व्यमोचयत् । विद्याधरस्ततस्तेन, व्यन्तरेणाऽम्यवन्धत ॥ ९५ ॥ अद्यारभ्य धराधीशं, कुदृष्ट्या न नमश्चर द्रक्ष्यामीति प्रतिज्ञाय, स्वस्थानं व्यन्तरोऽगमत् ॥९६ ॥ ततस्तौ खेचराधीशो-वाराणस्यन्तिकस्थिते । रम्योद्याने मुमोचाऽऽशु, नन्दनप्रमितप्रभे ॥१७॥ तत्र स्थितं मुनिं दृष्ट्वा, नृपामात्यो प्रणेमतुः। धर्मलाभाशिर्ष दवा, मुनीन्द्रो देशनां ददौ ॥९८ ।। परस्त्रीसेवनत्याग, गृहीत्वा गुरुसन्निधौ । सचिवेन समं भूपः, प्राविशत्कालिकाऽऽलयम् ।। ६६ ॥ विधिवत्सचिवं स्वीय, विधायोत्तरसाधकम् । कृताऽष्टमतपाभूपो-मन्त्राराधनमातनोत् ।। १०० ।। तृतीये वासरेऽनेके, निशी
| ॥६६॥
For
And Persone
l

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230