Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 178
________________ ShriMahavir JanArchanaKendra Achh agan Gyaan त्रयोदशः सर्गः। भीमसेनचरित्रे। ८१॥ | वन्नरः ॥ २१६ ॥ देवसेनः पुनः प्रोचे, स्वरूपं कथय प्रभो ? । स्वर्गीकसां तदीयाना, विमानानाञ्च सम्पदाम् ।। २१७ ॥ गुरु प्राह पुनर्भूप!, देवानां सम्पदादिकम् । सावधानतया मचा, शृणुष्व कथयिष्यतः ॥२१८।। भावनव्यन्तरज्योति-वैमानिकविभेदतः। देवाचतुर्विधाः प्रोक्ता-नामकर्मविभेदतः ॥ २१६ ।। दशधा भावना देवा-अष्टधा व्यन्तराः स्मृताः । ज्योतिष्काः पञ्चधा ज्ञेयाः, सर्वेवैमानिका द्विधा ।। २२०॥ नागाऽसुरसुवर्णाऽग्नि-दिग्वातस्तनितोदधिः । द्वीपविद्युत्कुमाराख्या-दशधा भावनाः स्मृताः ।। २२१ ॥ तत्राऽसुरकुमाराणा-मुत्सेधः पञ्चविंशतिः । चापानि दश शेषाणा-मप्युदन्वत्परायुषाम् ।। २२२ ।। दशसप्तधनुर्माना-व्यन्तराः किंनरादयः। शिष्टास्तेऽष्टविधा येषा-मायुः पन्योपमंपरम् ।।२२३॥ ज्योतिष्का पञ्चधा प्रोक्ताः, सूर्यचन्द्रादिभेदतः। येषामायुःप्रमाणं च, व्यन्तराणामिवाऽधिकम् ॥ २२४ ॥ वर्षाणामयुतं भौम-भावनानामिहाऽवमम् । पल्यस्यैवाऽष्टमोभागो-ज्योतिषामायुरीरितम् ॥२२॥ वैमानिका द्विधा कल्प-संभूताऽततिभेदतः। कन्पजास्तेऽच्युतादा-कल्पातीतास्ततः परे ।। २२६ ।। तेषु सौधर्म ईशाना, सनत्कुमार इत्यपि । माहेन्द्रो ब्रह्मलोकश्च, लांतक: शुक्रसंज्ञकः ॥ २२७ ।। सहस्राराऽऽनतप्राण-ताऽऽरणा अच्युतोऽपि च । कन्या इति द्वादशाऽमी, नवौवेयका इमे ॥२२८॥ आदी सुदर्शनं नाम, सुप्रबुद्धं मनोरमम् । सर्वभद्रं सुविशालं, सुमनश्च ततः परम् ॥ २२९ ।। विजयं वैजयन्तं च, जयन्तं चाऽपराजितम् । प्राक्क्रमेण विमानानि, मध्ये सर्वार्थसिद्धिकम् ॥ २३० ।। इदानीं तेषु देवाना-मायुर्मानश्चकथ्यते । हस्ताः (१) किंनराः किंपुरुषाश्च, गन्धर्वाश्च महोरगाः । यक्षराक्षसभूताश्च, पिशाचा व्यन्तराः स्मृताः ॥१॥ (२) सूर्याचन्द्रमसौ चैव, प्रहनक्षत्रतारकाः । ज्योतिष्काः पञ्चधा द्वेधा, ते चलाऽचलभेदतः ॥ २॥ ||॥८ ॥ For Private And Personlige Only

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230