Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
१०३॥
शान्ताकारमखण्डयोगनिपुणं पुण्याऽऽत्मनां तारकं, सेवध्वं समतानिधानमनिशं भव्या ? गुरुं पावनम् ॥ ८॥ ज्ञानांशुप्रथितप्रभावमनघं स्तोत्रं गुरूणामिदं, सूरीशोऽजितसागरोरचितवानानन्दसौधप्रदम् । ये भव्या प्रपठन्ति भव्यमतयः सत्कर्मणि प्रेमतः, सद्यः सद्गतिमाप्नुवन्ति नियमादेतत्रिकालं बुधाः॥६॥
गुरुतत्त्वाऽष्टकम्।
बोटकवृत्तम् । (२) शिवभूतिततिप्रथुलत्वकरं, करणीयनिदाननिभं प्रबलम् । शुभबुद्धिमहार्थनिधिप्रभवं, गुरुतत्त्वमनय॑मखण्डविभम् ॥१॥ खलबुद्धिविवादतमोहरणं, मरणान्तकरं भवभीतिहरम् । परमार्थपथप्रथनकरवि-गुरुतत्त्वमनिन्दितमस्ति परम् ॥२॥ दलितोऽक्षरिपुप्रबलं बहुलं, फलिताऽऽत्मगुणं शुभशर्मनिधिः । विदितार्थचयं नियतिप्रवणं, गुरुतत्त्वमनन्पमहर्द्धिकरम् ।। घरधर्मदयानिलयं विलयं, समतासुलवाललिताऽब्दचयः । प्रलयः कुविकल्पसमाजजुषां, गुरुतत्त्वमपूर्वमखण्डगुणम् ॥ ४॥ विधिनाचिंतमत्र महानिधि, परमार्थविदां सुलभं सकलम् । अकलङ्कितचन्द्रनिभं विशदं, गुरुतत्त्वमचिन्त्यविभं भजत ॥५॥ भवभीरुजनाश्रयदं दमिना, शिवदं भवतापहरं भविनाम् । शरणं प्रवरं पृथुकीर्तिकरं, गुरुतत्त्वमिहाऽस्ति गुणप्रवरम् ।।६। शुभतत्वनिदानमनर्थहरं, ममताऽसुरसङ्गभयक्षपकम् । हतमानमहाद्विरदाधिपति, गुरुतत्वमवारितदिव्यगृहम् ॥७॥ शिवसिद्धिवधूवरणाभिमुखा ? गुरुतच्चसमं न भवत्यपरम् । हृदयेसुविचिन्त्य मनोज्ञपिया, भजतेति सदागुरुतच्वमिदम् ॥८॥
For Private And Personale Only

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230