Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
*********
www.kobarth.org
पवित्रयन्तमन्वहं कलङ्कहीनताजुषं नमामि सूरिपुङ्गवं मुनीशबुद्धिसागरम् ॥ ६ ॥ विवेक के किनादनादितो चमात्मधारणं, घराघरेन्द्र सन्ततिप्रपूजितक्रमाम्बुजम् । निरस्तहिंस्रहिंसनप्रथं प्रकृष्टबोधतो नमामि सूरिपुङ्गवं मुनीश बुद्धिसागरम् ॥ ७ ॥ विचिन्त्य चिन्तनीयमात्मतत्वमात्ममन्दिरे, नितान्तशर्मसम्पदा समाश्रितं श्रितोदयम् । विशिष्टशिष्टमानवा नमन्ति यत्पदाम्बुजं नमामि सूरिपुङ्गवं मुनीन्द्रबुद्धिसागरम् ||८ ॥ ( विणीवृत्तम् ) (२)
बुद्धिमान् सागरः सूरिरीशः कृपा - सागरो बुद्धिरित्याख्ययाख्याति भाग् । शुद्धशास्त्रप्रवक्ता प्रतापोज्ज्वलः, सद्गुरुः सर्वदा वन्दनीयो जनैः ॥ १ ॥
( शार्दूलविक्रीडितवृत्तम् )
अध्यात्मैकरसप्रियः प्रियगुणः सन्मार्गगामिप्रियः, सद्ध्यानस्थितिकप्रियः प्रियदयाधर्मः प्रियो योगिनाम् । 'शुद्धज्ञानविभाविभासिततनुः सिद्धान्ततस्वोदधिः सूरिः श्रीयुतबुद्धिसागरविभ्रुः कुर्यात्सतां मङ्गलम् ॥ २ ॥ अध्यात्मैकरसाम्बुधिश्रिततटा लब्धज्ञरत्नालयो - योगाङ्गीयसुतत्त्वनिष्ठितधियः सिद्धान्तसाराऽऽलयाः । सर्वत्राऽस्खलितोक्तयः सुललित श्रद्धेयमूर्ति प्रभाः, श्रीमद्बुद्धिपयोधिसूरिचरणाः कुर्वन्तु नो मङ्गलम् ॥ ३ ॥
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
*++***++C************

Page Navigation
1 ... 223 224 225 226 227 228 229 230