Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
॥१०५॥
यत्स्याद्वादवचासुधास्रुतिमयोद्गारेण भूमण्डले, तृप्ता मव्यजनाः प्रसन्नमनसा धर्म्यक्रियां वर्धते । यः सम्यग्गुणगौरवैः क्षितितले ख्यातिपरा लब्धवान् , बुद्ध्यब्धिः सततं क्षितौ विजयतां श्रीपूज्यसूरीश्वरः॥४॥ यत्स्वाध्यात्मिकवाक्सुधाश्रवणतःप्रीता न के भूतले, यत्स्याद्वादरहस्यरक्षणविधेः के नाऽनुमोदे पराः। यो ज्ञानाद्यधिकारिणे प्रतिपलं सज्ज्ञानदानं ददौ, श्रीसूरीश्वरबुद्धिसागरगुरुभूमण्डले राजताम् ॥ ५ ॥ योवादिप्रतिबोधकः शुभविधिः स्याद्वादविद्यानिधि-, नाशास्त्रविशारदः परिषदो यः शुद्धबोधप्रदः । यः सम्यग्विधिबोधकोगुणगणैः ख्यातो धरामण्डले, श्रीसूरीश्वरबुद्धिसागरगुरुभूमण्डले राजप्ताम् ॥ ६ ॥ वादीन्द्रं दलयन् स्वयुक्तिवचनैभव्यास्तथारञ्जयन्, ग्रन्थान्संकलयंस्ततोजिनमतं सद्धेतुभिः साधयन् । सम्यानां पुरतः स्वशास्त्रविषयं सधुक्तिभिः स्थापयन् , पूज्यश्रीयुतबुद्धिसागरगुरुः सूरीश्वरो राजताम् ।। ७॥ सुश्रामण्यविराजितोगुणनिधिः सच्छास्त्रशिचापद,-आत्मज्ञानपरायणोजितमना यो योगिनामुत्तमः । ख्यातः संप्रतिभारतादिविषये सर्वत्र यः सद्गः, सूरीशोगुरुबुद्धिसागरविभु मण्डले राजताम् ॥ ८॥ पश्चाऽऽचारपरायणां जनततिं विस्तारयन्वस्तुतः, सम्यक्तान्स्वयमाचरन्विशदधीः पश्चेषुजिद्धेलया । जैनेन्द्रोत्तमधर्मपादपमसौ सिञ्चन्वचोवारिणा, पूज्यश्रीयुतबुद्धिसागरगुरुः सूरीश्वरो राजताम् ॥६॥ योगीन्द्रोयुगधर्मधारणविधौ योनित्ययत्नश्रितः, श्राद्धानस्खलिते सदाहेतमते संस्थापयामासिवान् । हेयाइयविचारचारुधिषणो यो भारतोद्धारकः, पूज्यश्रीयुतबुद्धिसागरगुरुः सूरीश्वरो राजताम् ॥१०॥
For Private And Personlige Only

Page Navigation
1 ... 224 225 226 227 228 229 230