Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 221
________________ विनोधप्रतिरोधकं निजगुणैर्जाब्याऽधकारापह, भव्याः ? प्रेमतया गुरुं कमपि तं दीव्यं भजच्वं सदा ॥१॥ विद्याऽऽनन्दरतं सुधासमगिरं शुद्धाऽऽत्मनिष्टाधरं, सद्धर्माऽध्वनिशाकरं वितिमिरं ज्ञानप्रभाभासुरम् । दीव्याऽऽकारमनङ्गरोधनकरं चेमाकुराऽम्भोधरं, सेवध्वं गुरुपुङ्गवं गुणरताः ? संसारनिस्तारकम् ॥ २॥ सौन्दर्यैकनिधानमक्षयसुखाजामाऽम्बुधाराधरं, निर्मानामरनाथनाथितपदाम्भोजं प्रभूतौजसम् । सेव्यं सर्वनराऽमराऽसुरगणैः सर्वार्थदानधर्म, संसाराम्बुधिसेतुमन्वहमरं भव्या ! भजचं मुदा ॥ ३ ॥ ये ध्यायन्ति सुखाकरं गुरुपदाम्भोजं निजे मानसे, ते नैवाऽसुखमाप्नुवन्ति सुधियः सत्कर्मनित्योद्यताः। स्वच्छाऽऽनन्दमयोर्जितार्थजनकं संजीवनं देहिनां, नानानर्थनिवर्तकं निजविभाविनाजिताऽऽशागणंम् ॥ ४ ॥ धर्माराधनतत्परं नयविदा नानार्थसंबोधक, सर्वाऽऽपत्तिविनाशकं समजुषा शिष्टोपदेशप्रदम् । द्रव्यचेत्रसुकालभावविबुध योगाऽऽध्वसंरक्षक, सेवध्वं सुकृतोदयेन मनुजाः १ प्रत्यचदेवं गुरुम् ।। ५ ॥ कन्याणाऽऽलयमीड्यचारुचरितं चेतोहराराधनं, निर्दिष्टाऽखिलधर्मसाधनधनं निर्मत्सराणां वरम् । मोक्षार्थप्रतिपादनाय पदवीं यातं मनुष्याऽऽत्मिका, तं संसारनिवृत्तये सुकृतिनः! पूज्यं गुरुं ध्यायत ॥ ६॥ रुद्धचोभकरेन्द्रियाऽश्वनिकर बुद्धिप्रभाभासुरं, पूर्णाऽऽनन्दमयं धराघवगौराराधिताऽभिप्रभम् । धर्माऽध्वप्रतिपादकं सुविदितं विख्यातवाचस्पति, मूरि दीव्यमहोदयं प्रणमत श्रेयःकलाप्राप्तये ॥ ७॥ शान्ताऽशेषविरोधिकर्मकदनं निर्मूलिताऽऽशाद्रुमं, शान्ताऽशान्तमचिन्त्यबोधविमवं सद्भावनामावितम् । For Private And Personale Only

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230