Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 219
________________ ShriMahavir JanArchanaKendra Achanh sagan Gyaan लेभे निवृतिसौख्यमात्महितदं स्वानन्दितात्मा स्वयं, श्रीशंखेश्वरपार्श्वनाथमनिशं वन्दे तमिष्टप्रदम् ॥ ३॥ त्रैलोक्याधिपतिं पवित्रवपुष लोकत्रयोद्धारक, पापानामविलोकनीयमनिशं मुक्तिप्रियाऽऽलिङ्गितम् । अम्मोजाक्षियुगं प्रसन्नवदनं स्वच्छद्विजालिप्रभ, श्रीशंखेश्वरपार्श्वनाथमनिशं वन्देऽक्षयाऽर्थप्रदम् ॥ ४॥ अधिद्वीपभुजङ्ग परिमिते संवत्सरे वैक्रमे, मासे माधव उत्तमेऽसितदले यद्दर्शनं पावनम् । प्राप्तं पुण्यवतां सदैव सुलभं दुष्प्रापमन्याङ्गिना, श्रीशंखेश्वरपाश्वनाथमजितानन्दं नमामि प्रभुम् ॥५॥ श्रीसिद्धचक्रचैत्यवन्दनम् । आराध्यं जिनपुङ्गवं गतमदं शक्रादिसंपूजितं, सज्ज्ञानादिगुणैकरत्ननिलयं निर्दोषसन्मानसम् । ज्ञानाऽसिक्षतकर्मजालममलं मुक्तिप्रियाऽऽलिङ्गितं, सम्पूर्णार्थमहं नमामि शिवदं सिद्धं च बुद्धसदा ॥१॥ गच्छाधीशमनेकसद्गुणमयं सौम्यं गणानां पति, वन्देऽहं वरवाचकं श्रुतधरं चान्त्यादिधर्मप्रियम् । मित्राऽमित्रसमानदृष्टिमाखला चारित्रिणां मालिका, निर्वाणाऽऽस्पदसाधनोद्यतमतिं भूमण्डलेचाऽन्वहम् ॥२॥ श्रीसर्वज्ञगणप्रदिष्टमनघं ज्ञानं पवित्रं परं, तत्वाऽर्थप्रतिपादने च कुशलं सद्दर्शनं सौख्यदम् । विच्छिन्नाऽऽस्रवकर्म गुप्तिसमितिमं च चारित्रकं, दुष्कर्मेन्धनदाहदचमतुलं प्रीत्याऽऽश्रये सत्तपः ॥३॥ For Private And Personlige Only

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230