Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 218
________________ ShriMahavir JanArchanaKendra Acharya:shaKailassagarsunGyanmandir १०१॥ लोकानामुपकारकर्मनिरतो ज्ञानेन नैर्मन्यमाक्, सिद्धान्तेषु महत्सु लन्धमहिमा सर्वेषु सिद्धक्रियः। वेदेषु प्रथितश्च चित्रचरितः ख्यातः पुराणेष्वपि, श्रीमानादिजिनेश्वरो दिशतु वः श्रेयस्तति शोभनाम् ॥ ३ ॥ भक्तानामभयंकरं जितभयं नाऽन्तादिमध्यक्रिय, हर्तारं दुरितस्य शान्तिकलितं लीलागृहं संपदाम् । नामिक्षमापतिवंशमस्तकमणिं सम्यगमाराजितं, वन्देऽहं प्रभुमादिनाथमनिशं त्रैलोक्यरक्षाकरम् ॥ ४ ॥ सर्वोपद्रवपनगप्रमथने नागान्तकोऽनन्तकः, सौवर्णोपमवर्णकः शुभमहोचाङ्कन विभाजितः । श्रेयःसन्ततिगुल्मिनीजलधरो धर्मापगोर्वीधरः, श्रीमानादिजिनेश्वरो जितनतः पायादपायाजनान् ॥ ५॥ श्रीशंखेश्वरपार्श्वनाथचैत्यवन्दनम् । (२) कीर्तिर्यस्य विराजतेऽतिविमला गौडीपुरे पूर्वरे, तीर्थस्तम्भनके च लोद्रवपुरे वाणारसीपत्तने । जीरावल्यभिधानके सुविदिते तीर्थतिरम्यर्द्धिके, श्रीशंखेश्वरपार्श्वनाथमनिशं वन्दे तमिष्टप्रदम् ॥१॥ इष्टार्थप्रतिपादनेऽमरतरुं सिद्धान्ततत्वाऽऽलयं, श्रीवामातनुजं सुराऽसुरगणैर्वन्धंसदा भावतः । स्वर्गे भूमितले च नागवसतो ख्यातप्रभावं प्रभु, श्रीशंखेश्वरपार्श्वनाथमनिशं वन्देऽक्षयार्थप्रदम् ॥२॥ दुर्भेद्यानि विभिद्य बोधपविना कर्माणियोमूलतः, प्राप्याऽनन्तकलं चिरत्नमतुलं ज्ञानाख्यरत्नं विभुः । For Private And Personlige Only

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230