Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 216
________________ ShriMahavir JanArchanaKendra Achanan sagarson Gyarmand १०.॥ न्यायविशारदन्यायाचार्यश्रीमद्ययशोविजयमहामहोपाध्यायगुणवर्णनाष्टकम् । ( शार्दूलविक्रीडितवृत्तम् ) काशीवासमनुत्तमस्थिरतया संवत्सरान् द्वादश, स्वीकृत्याऽऽत्मगुणाऽनुवादरसिक ! प्राप्तं वरं वीरुदम् ।। न्यायाम्भोधिविशारदेतिविदुषां मध्येसमें पावनं, ध्यायाम्येकमना यशोविजय ? ते पादारविन्दं मुदा ॥१॥ सिद्धान्तोदधिसारसंगतमते ? स्याद्वादमुद्राङ्किता,-ग्रन्था नैकविधाः सुतत्वनिचिता विस्तारितास्त्वद्गिरा । लम्वा यान्विदुषांगणः सुललितानामोतिमोदंपरम्, ध्यायाम्येकमना यशोविजय ! ते पादारविन्दं मुदा ॥२॥ यद्वाणी वसुधाधिपादिमनुजाः श्रोत्रप्रमोदप्रदा, पीत्वा प्रेमपरायणाः सुविशदा जैनागमेष्वारतिम् । कुर्वन्तिस्म विभिन्नसंसृतिमहामार्गेषु मत्युज्वला,-स्तं नित्यं स्मृतिमानयामि विजयश्रीमद्यशः पाठकम् ॥३॥ कारुण्यैकनिवासभूमिमनघं सर्वत्रशान्तिप्रदं, निवृत्तिप्रमदाप्रमोदभवनं भूतार्थवादप्रियम् । अध्यात्मप्रगतिप्रबोधनपटुस्वान्तं सतां संमतं, तं नित्यं स्मृतिमानयामि विजयश्रीमद्यशः पाठकम् ॥ ४॥ यद्वन्थाङ्कदिवाकरे समुदिते सर्वेऽपि जन्तुबजा-चैतन्यं प्रतिपद्य कर्मवशगा आत्मोन्नतिं कुर्वते । गीर्वाणादिगिरां विमासकवरं वन्द्यक्रमाऽम्भोजक, तं नित्यंस्मृतिमानयामि विजयश्रीमद्यशः पाठकम् ॥५॥ प्राचीनाऽऽगमजैनतत्वविभवो विस्तारितः सर्वथा, येनाऽखण्डषियासमस्तजनता वात्सन्यसंधारिया । १००॥ For Private And Personlige Only

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230