Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand

View full book text
Previous | Next

Page 215
________________ ShriMahavir Jain ArachanaKendra Achanh sagan Gyaan दीव्योदारसुचारुकान्तिसुभगं सौभाग्यदिव्याऽऽलयं, प्रक्षीणप्रबलप्रकामविषयं प्रध्वस्तमोहोदयम् ।। यंदेष्टारमनल्पवैरवशगामाजन्मतःप्राणिनो-दृष्ट्वा शान्तिमुपागताः समतया वीराय तस्मै नमः ॥३॥ ध्यानं वीरजिनेश्वरस्य सकलां दत्तेऽत्रसत्सम्पदं, सद्भद्धिं वितरत्यमेयसुखदा यस्य त्रिलोकेशितुः । यच्छत्यैहिकशर्मराशिमपरं स्वर्गाऽपवर्ग प्रभु, वन्दे तं सततं कृपैकवसतिं शुद्धात्मना निर्भयम् ।। ४ ।। यन्मूर्तिः शिवशर्मसेवधिरलं लक्ष्यीकृता भावतो-दारियं दलयत्यनर्थजनकं तस्याऽक्षयाऽर्थप्रदा । तं वीरं मनसा स्मरामि शिवदं दंदह्यमानं जनं, त्रातारं भववारिधौ भयनिधौ दुःखाऽनलज्वालया ॥५॥ यस्मिन्नेत्रपथंगते भवभयभ्रान्तिप्रणाशक्षमे, भक्तानामभयप्रदे क्षितितले नश्यन्ति सर्वाऽऽपदः । तं श्रीवीरविभुं भजामि नितरां निर्वारिताऽरिव्रजं, प्रत्यक्षीकृतसर्ववस्तुनिचयं निर्वाधबोधाकरम् ॥६॥ पीतं यद्वचनाऽमृतं गमयति स्वर्ग जनानुत्तमान् , मोचश्चाऽपि शनैः शनैः शुभमतीनैकान्तवादश्रितम् । लोकेऽस्मिन् प्रददाति भूतिमनघां निर्वाधसंपद्गई, तस्मै श्रीत्रिशलाऽऽत्मजाय जगतां पूज्याय नित्यं नमः ॥७॥ यन्मतिः स्फुरति प्रकामविशदा येषां हृदिप्रत्यहं, ते संसारसमुद्रमुन्नतधियोऽभीतास्तरन्त्यञ्जसा । सर्वारिष्टकषायमीनमकरवाताऽतिभीतिप्रद, तं श्रीवीरजिनेश्वरं प्रणमत क्षेमार्थिनःप्राणिनः ॥८॥ हेमेन्द्रसागरमुनिर्गुरुभक्तिनुन्नः, स्वाऽऽत्मोन्नतिप्रथनधीधृतिमादधानः। स्तोत्रं जिनेश्वरगुणप्रकटं प्रकाश-मानीतवानुभयलोकहितैकधाम ॥ ६ ॥ For Private And Personlige Only

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230