Book Title: Bhimsen Nrup Charitra
Author(s): Ajitsagarsuri
Publisher: Sagargaccha Jain Sangh Sanand
View full book text
________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
जग्मतुर्वहिरुद्यान, यत्रासीत्केवलिप्रभुः । विमुच्य शिविका सद्य-स्तो मुदा नेमतुर्गुरुम् ॥ ७१ ॥ गुरुणाऽऽवेदितौ भूपा, सप्रियो कालवेदिनौ । अलङ्काराग्निजान्सर्वान् , जहतुर्भारदायिनः ॥ ७२ ॥ पञ्चभिर्मुष्टिमिर्लोचं, विधायाऽशोकसन्निधौ ।' गुरुपादाऽम्बुजं प्रापु-भीमसेननृपादयः ॥७३॥ सुमुहूर्तपणे वास:-क्षेपः केवलिना स्वयम् । व्यधीयत विधानेन, भीमाद्यानतमूर्द्धसु ॥ ७४ ॥ दीवाव्रतं समासाद्य, राजर्षी तौ गुणप्रियो । गुरुपादान्तिकेऽस्थातां, तपश्चरणतत्परौ ॥७५ ।। सुविशुद्धं. सदाचार, पालयन्त्यौ तपस्विनाम् । सुलोचना सुशीला च,-शुद्धचारित्रवत्यभूत् ।। ७६ ॥ गुणश्रेणी समारूढा,-श्चत्वारस्ते । मुमुक्षवः । पूज्यन्ते मानवाः सर्वे, योग्यस्थाने हि धर्मिणः ॥ ७७ ॥ देवसेनकेतुसनौ, नत्वा केवलिनं मुदा । व्रतानि । द्वादश क्षिप्र, मगृहीता कुमारको ।। ७८ ॥ अन्येऽपि पौरमुख्याश्च, सम्यक्त्वमूलमार्हतम् । दयाधर्म समासेदु-भक्तिप्रणतमौलयः ॥ ७९ ॥ गुरुं केवलिनं पूर्व, वन्दित्वा भीमनन्दनः । ततोऽन्यांश्च मुनीन्सर्वान् , जगाम निजसबनि ॥ ८ ॥ केतुसेननरेशोऽथ, देवसेननृपाऽऽज्ञया । राजधानी निजां प्राप-प्रणत्य मुनिपुङ्गवान् ॥८१॥ अन्ये भव्यजनाः सर्वे, गुरूणा गुणकीर्तनम् । कुर्वन्तस्तत्पदाम्भोज, वन्दित्वा स्वगृहं ययुः ।। ८२॥ नरेन्द्रौ तौ महामन्त्रि-प्रबोधन विचक्षणौ । नीतिशाखरहस्यानि, कलयामासतुःक्रमात ॥३॥ दृष्टानां शिक्षणे वीरी, शिष्टानां पालने चमौ। अनाथोद्धरणे धौं. भीतानां रचणे प्रभू ॥८४ ।। अधर्मोच्छेदने धीरौ, नित्यदानपरायणौ । जैनधर्मरतौ भूपौ, स्वं स्वं राज्यं वितेनतुः ॥५॥ केवली हरिषेणोऽध, भगवान् विहरन् भुवि । भव्यान्प्रबोधयामास, शिष्यवृन्दसमन्वितः ॥८६॥ क्रमेण विचरन् ज्ञात्वा, निर्वाणसमयं प्रभुः । मन्तिकं केवली प्रागात् , संमेतशिखरं गिरिम् ॥ ८७॥ शैलेशीध्यानमासाद्य, योगनिष्ठाऽऽत्मभावनः ।
For Private And Personlige Only

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230