Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 272
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥१३२॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir यद्यपि बालस्य प्रेषणमनुचितं तथापि स्वीयेषु सत्सु प्रधानगमनं नीतिशास्त्रविरुद्रमिति त्वां प्रेषयामीति भावः ॥ १४ ॥ नानाशस्त्रैः वैशारथं प्रहरण सामर्थ्यम् । अवश्यं बोद्धव्यम् स्मर्तव्यमित्यर्थः । रणे विजयश्च काम्यः प्रार्थनीयः । जयार्थे सर्वाण्यस्त्राणि स्मर्तव्यानीत्यर्थः ॥ १६५ ॥ तत इति । दशसुत नानाशस्त्रैश्च संग्रामे वैशारद्यमरिन्दम । अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे ॥ १५ ॥ ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः । चकार भर्तारमदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः ॥ १६ ॥ ततस्तैः स्वगणे रिष्टैरिन्द्रजित प्रतिपूजितः । युद्धोद्धतः कृतोत्साहः सग्रामं प्रत्यपद्यत ॥ १७ ॥ श्रीमान् पद्मपलाशाक्षो राक्षसाधिपतेः सुतः । निर्जगाम महातेजाः समुद्र इव पर्वसु ॥ १८ ॥ स पक्षिराजोपमतुल्यवेगैर्व्यालेश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः । रथं समायुक्तमसङ्गवेगं समारुरोहेन्द्रजिदिन्द्रकल्पः ॥ १९ ॥ स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः । रथेनाभिययौ क्षिप्रं हनूमान् यत्र सोऽभवत् ॥ २० ॥ स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च । निशम्य हरिवीरोऽसौ संप्रहृष्टतरो ऽभवत् ॥ २१ ॥ सुमहच्चापमादाय शितशल्यांश्च सायकान् । हनुमन्तमभिप्रेत्य जगाम रणपण्डितः ॥ २२ ॥ प्रभावः दक्षसुता देवाः । तथोक्तं श्रीविष्णुपुराणे - "मनसा त्वेव भूतानि पूर्व दक्षोऽसृजत्तथा । देवानृषीन्स गन्धर्वानुरगान् पक्षिणस्तथा ॥” इति ॥ १६॥ ततस्ते रिति । युद्धोद्धतः कृतोत्साह इति पाठः ॥ १७ ॥ १८ ॥ स इति । पक्षिराजोपमतुल्यवेगैः पक्षिराजोपमैः अन्योन्यतुल्यवेगैश्च । व्यालैः हिंस्रपशुभिः, सिंदैरिति यावत् । सिंहाश्च रक्षसां वाहनानि भवन्ति । “सर्पसिपशु व्यालो " इत्यमरः ॥ १९ ॥ २० ॥ ज्यास्वनमित्यत्र ज्या इति लुप्तषष्ठीविभक्तिकं हे अरिन्दम ! सङ्ग्रामे नानाशस्त्रैः वैशारद्यं सामर्थ्यम्, तवास्तीति शेषः । अतः अवश्यमेव योद्धव्यम् । रणे विजयः काम्यः प्रार्थनीय एव ॥ १५ ॥ दक्षसुतप्रभावः दक्षसुता देवाः तत्सदृशप्रभावः ॥ १६ ॥ स्वगणैः इष्टेः समास्यैः राक्षसैः । युद्धे उद्धतश्वासी कृतोत्साहश्च । संप्रपद्यत सम्प्रापद्यत ॥ १७ ॥ १८ ॥ पक्षिराजोपम तुल्यवेगैः स० [अथ राज्ञः क्षत्रियस्य च कृत्यमाह - नानेति । नानाशास्त्रेषु धर्मार्थनीत्यादिशास्त्रेषु संग्रामे न वैशारयर, संपायमिति शेषः । यस्य रणे विजयः काम्यो भवति तेनोकं नानाशास्त्रम् अवश्यं बोद्धव्यमेवेत्यर्थः । यद्वा परस्य नानाशास्त्रेषु यद्वैशारद्यमस्ति तद्योद्भाऽवश्यमेव बोद्धव्यम् । बुद्ध्वापि रणे स्वस्य विजयः प्रार्थ्य एव । अहं जेष्याम्येवेति बुद्धया युद्धमारम्यमेव न तु तादृशशनोरपि निवर्तितव्यमित्यर्थः । केचितु नानाशखैरिति योद्धव्यमिति च पठित्वा नानाशस्त्रकरणकसंग्रामे वैशारचं सामर्थ्य तवास्ति, अतस्त्रयाऽवश्यं योद्धव्यपेत्र रणे जयश्च प्रार्थनीय एवेति व्याचक्षते ॥ १५ ॥ For Private And Personal टी. सुं.प. स० ४८ ॥१३२॥

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365